संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१४

खण्डः २ - अध्यायः ०१४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
भद्रासनं नरेन्द्रस्य क्षीरवृक्षेण कारयेत्॥
उच्छ्रायश्च तथा तस्य अध्यर्धं तु समं भवेत् ॥१॥
हस्तत्रयं तथा विष्टं विस्तरेण तु कारयेत्॥
आयामश्चास्य कर्तव्यो विस्तरेणार्धसम्मितः ॥२॥
चतुरस्रं तु कर्तव्यं राज्ञो भद्रासनं शुभम्॥
नाष्टास्रं न तथा वृत्तं न च दीर्घं भृगूत्तम ॥३॥
सुवर्णरूप्यताम्रैश्च चित्रं कार्यं विशेषतः॥
रत्नैः प्रशस्तैर्न तथा न रत्नप्रतिरूपकैः ॥४॥
चत्वारः पुरुषास्तत्र विन्यस्ता भृगुनन्दन॥
द्विगुणाश्च तथा सिंहास्तेभ्यस्तु द्विगुणास्तथा ॥५॥
भद्रासनं तत्र भवेन्नृपस्य तलेन पूर्णं ससुखं परार्ध्यम्॥
वैयाघ्रचर्मास्तरणं सुखार्थं वरासनं तस्य समामनन्ति ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे भद्रासनलक्षणं नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP