खण्डः २ - अध्यायः ०२६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच ॥
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम्॥
रम्यमानतसामन्तः पशव्यं देशमावसेत् ॥१॥
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः॥
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥२॥
अदेवमातृकं कर्मस्वनुरक्तजनाचितम्॥
करैरपीडितं चापि बहुपुष्पं फलं तथा ॥३॥
अगम्यं परचक्राणां तद्वादसहमापदि॥
समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥४॥
सरीसृपविहीनं च व्याधितस्करवर्जितम्॥
एवंविधं यथालाभं राजा विषयमावसेत ॥५॥
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः॥
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥६॥
वार्क्षं चेवांबुदुर्गं च गिरिदुर्गं च भार्गव॥
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥७॥
दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम्॥
शतघ्नीयन्त्रमुख्यैश्च शतशश्च तथा युतम् ॥८॥
गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम्॥
सपताकगजारूढो येन राजा विशेत्पुरम् ॥९॥
चतस्रश्च तथा तत्र कार्याश्चापणवीथयः॥
एकस्मिँस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥१०॥
वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते॥
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥११॥
चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते॥
आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ॥१२॥
मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च॥
अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ॥१३॥
अर्धचन्द्रं प्रशंसन्ति नदीतीरं तु तद्वशात्॥
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥१४॥
राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः॥
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥१५॥
गजानां प्राङ्मुखी शाला कर्तव्या चाप्युदङ्मुखी॥
आग्नेये च तथा भागे आयुधागार इष्यते ॥१६॥
महानसं च धर्मज्ञः कर्मशालास्तथापराः॥
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥१७॥
मन्त्रिदैवविदां चैव चिकित्साकर्तुरेव च॥
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥१८॥
गवां स्थानं तु कर्त्तव्यं तुरगाणां तथैव च॥
उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥१९॥
प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता॥
तुरगाश्च तथा धार्या प्रशस्तैः सार्वरात्रिकैः ॥२०॥
कुक्कुटान्वानरांश्चैव मर्कटांश्च नराधिप॥
धारयेदथ शालासु सवत्सां धेनुमेव च ॥२१॥
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा॥
गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ॥२२॥
अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे॥
ततस्तत्र यथान्यायं राजा विज्ञाय सारवित् ॥२३॥
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः॥
योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥२४॥
दद्यादावसथान्दुर्गे मन्त्रकालविदां सताम॥
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥२५॥
आहरेत भृशं राजा दुर्गे परबलारुजः॥
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥२०५॥
न बहूनां न तैर्दुर्गं विना कार्यं तथा भवेत्॥
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः ॥२७॥
सहस्रघातिनो राम तैस्तु रक्षा विधीयते॥
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥२८॥
सञ्चयश्चात्र सर्वेषां चायुधानां प्रशस्यते॥
धनुषां क्षेपणीयानां तोमराणां च भार्गव ॥२९॥
शराणामथ खड्गानां खनकानां तथैव च॥
लगुडानां गुडानां च हुडानां परिघैः सह ॥३०॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च॥
कणियानां त्रिशूलानां पट्टिशानां च भार्गव ॥३१॥
प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम॥
परश्वधानां चक्राणां चर्मणां चर्मभिः सह ॥३२॥
कुद्दालरज्जुवेत्राणां पिटिकानां तथैव च॥
ह्रस्वकानां च पात्राणामगरस्य च संश्रयम ॥३३॥
सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते॥
वादित्राणां च सर्वेषामौषधानां तथैव च ॥३८४॥
यवसानां प्रभूतानां चेन्धनस्य च सञ्चयम्॥
गुडस्य सर्वशैलानां गोरसानां तथैव च ॥३९॥
चर्मणां च ससज्जानां स्नायूनामस्थिभिः सह॥
गोरसस्य पटानां च धान्यानां सर्वतस्तथा ॥३६॥
तथैव प्रपटानां च यवगोधूमयोरपि॥
रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः ॥३७॥
कलायमुद्गमाषाणां चणकानां तिलैः सह॥
तथा च सर्वसस्यानां पांशुगोमययोरपि ॥३८८॥
सणसर्जरसं भूर्जजतुलाक्षाकटंकटाम्॥
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥३९॥
कुम्भाः साषीविषा धार्या व्याघ्रसिंहादयस्तथा॥
मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ॥४ ०॥
सञ्चेयानि विरुद्धानां सुगुप्तानि पृथक्पृथक॥
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥४१॥
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः॥
सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया ॥४२॥
जीवकर्षभकाकोलीरामलक्यः परूषकम्॥
शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥४३॥
माषपर्णी तथा चैव सारिवे द्वे बलाभयम॥
वीराश्वगन्धा वृथ्वीका बृहती कण्टकारिका ॥४४॥
शृङ्गाटिका रोद्रगोधी वर्षाभूदर्भगुन्द्रका॥
मधुपर्णीविदार्यौ द्वे महादुर्गा महा तथा ॥४५॥
धन्वना महऋग्व्याह्या त्रिकोटी रण्डकं विषम्॥
पर्णासनाह्वी मृद्वीका फल्गुः खर्जूरयष्टिका ॥४६॥
शुक्रातिशुक्रकाश्मर्यश्छत्रातिच्छत्रवीरणा॥
इक्षुरिक्षुविकारश्च फाणिताद्याश्च भार्गव ॥४७॥
सहाश्च सहदेवाश्च विश्वेदेवाढरूपकम्॥
मधूकपुष्पं हंसाख्या शतपुष्पमधूलिका ॥४८॥
शतावरी मधूकं च प्रियालं तालमेव च॥
आत्मगुप्ता कट्फलाख्या दरदा राजसेरुका ॥४९॥
राजर्षभकधानक्या ऋष्यप्रोक्ता तथोत्कटा॥
कटंकटा पद्मबीजं गोवल्ली मधुवल्लिका ॥५०॥
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपत्रिका॥
एर्वारुम्रपसौ चोभौ मुञ्जातकपुनर्नवा ॥५१॥
काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम्॥
शूकधान्यानि सर्वाणि शम्बीधान्यानि यानि च ॥५२॥
क्षीरं क्षौद्रं तथा शुक्लं मज्जा तैलं वसा घृतम॥
निकोचाभिषुकाक्षोटं वातापं सोरुखाणकम् ॥५३॥
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः॥
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥५४॥
दाडिमांम्रातकां लीनं तितन्तिडीकाम्लवेतसम्॥
भव्यकः कण्डलीकश्च मकरन्दकरूपकम् ॥५५॥
बीजपूरककाण्डीरमालती राजधन्वना॥
कोलकद्वयपर्णानि द्वयोरल्लीकयोरपि ॥५६॥
पालेवतं भागरिकं प्राचीनारूकमेव च॥
कपित्थामलकं चुक्रं कलिन्दं च शठस्य च ॥५७॥
जाम्बवं नवनीतं च सौवीरकतुपोचके॥
सुरासवं च मद्यानि मण्डं तक्रदधीनि च ॥५८॥
शुक्लानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै॥
सैन्धवोद्भेदनादेयपाक्यसामुद्ररोचसम्॥
कूप्यसौवर्चलविडं वालकैलोपबाहुकम् ॥५९॥
ऊषक्षारं कालभस्म विज्ञेयौ लावणो गणः॥
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥६०॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्॥
कुठेरकं समरिचं शिग्रुं भल्लात दुर्गं सुगुप्तं नृपतिस्सदैव॥८८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : December 06, 2022
TOP