संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११३

खण्डः २ - अध्यायः ११३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते॥
भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
आतिवाहिका गर्भस्य देहो भवति भार्गव॥
केवलं तं मनुष्याणां मृत्युकाल उपस्थिते ॥२॥
याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम॥
नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज ॥३॥
मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा॥
नैवाऽन्ये प्राणिनः केचित्सर्वं ते फलभोगिनः ॥४॥
शुभानामशुभानां वा कर्मणां भृगुनन्दन॥
संचयः क्रियते लोके मनुष्यैरेव केवलम् ॥५॥
तस्मान्मनुष्यस्तु मृतो यमलोकं प्रपद्यते॥
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः ॥६॥
गच्छँल्लोके प्रपन्नस्य पुरुषस्य तथा यमः॥
योनीश्च नरकांश्चैव निरूपयति कर्मणाम् ॥७॥
पूजनीयाश्च ते तेन वैवस्वतमपश्यत॥
मरणानन्तरं प्रोक्तं तिरश्चां गर्भसम्भवम् ॥८॥
वायुभूताश्च ते गर्भं प्रपद्यन्ते न संशयः॥
मनुष्यस्तु मृतो राम नीयते यममन्दिरम् ॥९॥
तथा कर्मानुरूपेण यमं पश्यत्यसौ ततः॥
घोरं पापस्तथा धर्मे निविष्टः सौम्यदर्शनम् ॥१०॥
धर्मिष्ठः पूज्यते तत्र ह्यासनेनोदकेन च॥
पाशबद्धगलः पापः पीड्यते वै यमाग्रतः ॥११॥
चित्रगुप्तास्ततस्तस्य स्वर्गं नरकमेव च॥
निवेदयन्ति धर्मज्ञ स तु पिण्डाशनस्ततः ॥१२॥
तदा त्यक्त्वा तु तद्देहं प्रेतदेहं प्रपद्यते॥
प्रेतलोके तु वसतिर्वर्षं तस्य तु कीर्तिता ॥१३॥
क्षुत्तृष्णे प्रत्यहं तत्र भवतो भृगुनन्दन॥
अहोरात्रं तु तत्रापि मानुष्यं परिकीर्तितम् ॥१४॥
आमश्राद्धास्तथा दत्ता भुज्यंते तत्र मानवैः॥
अतिवाहिकदेहात्तु प्रेतपिण्डैर्विना नरः ॥१५॥
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्नुते॥
कृते सपिण्डीकरणे नरः संवत्सरात्परम् ॥१६॥
प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते॥
तदादौ भुज्यते तत्र यत्स्तोकं भृगुनन्दन ॥१७॥
भोगदेहावुभौ प्रोक्तौ शुभाशुभकसंज्ञकौ॥
भोगदेहं शुभं तस्य देवरूपस्य जायते ॥१८॥
नानाप्रकारमशुभं नीरूपं घोरदर्शनम्॥
यादृशं तस्य मानुष्यं रूपमासीत्पुरातनम् ॥१९॥
किञ्चित्तस्य तु सादृश्यं तत्रापि प्रतिपद्यते॥
भुक्त्वा स भोगदेहेन यथाकालं त्रिविष्टपम् ॥२०॥
कर्मण्यल्पावशेषे तु त्रिदिवाद्विनिपात्यते॥
त्रिदिवात्पतितं तस्य भोगदेहं तु राक्षसाः ॥२१॥
भक्षयन्ति तदा भूमौ विकृता भीमदर्शनाः॥
पापे तिष्ठति चेत्स्वर्गे तेन भुक्त तथा द्विज ॥२२॥
तदा द्वितीयं गृह्णाति भोगदेहं तु पापिनम्॥
भुक्त्वा पापं तु ते पश्चात्तेन भुक्तं त्रिविष्टपम् ॥२३॥
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते॥
पुण्ये तिष्ठति चेत्पापं तेन भुक्तं तदा भवेत् ॥२४॥
तस्मिन्सम्भक्षिते देहे शुभं गृह्णाति विग्रहम्॥
कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ॥२५॥
युक्तस्तु नरकाद्याति तिर्यग्योनिमसंशयम्॥
तत्राप्यशेषतः पापं न तदश्नाति भार्गव॥
ततोऽवशेषं मानुष्यं भुंक्तेऽसौ कृतलक्षणः ॥२६॥
रज्जुर्यथा स्याद्बहुतन्तुबद्धा विकर्षणं शक्तिमनी गुरूणाम्॥
स्वर्गाय पुण्यं नरकाय पापं तथा नृणां स्यादिह भार्गवाग्र्य ॥२७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोगदेहवर्णनन्नाम त्रयोदशोत्तरशततमोऽध्यायः ॥११३॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP