संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१६

खण्डः २ - अध्यायः ०१६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव॥
ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ॥१॥
वंशत्वग्वंशचापं तु कर्तव्यं भृगुनन्दन॥
अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत ॥२॥
प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः॥
दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ॥३॥
तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी॥
मुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ॥४॥
स्वल्पा कोटिस्तु वार्क्षाणां शार्ङ्गलौहमयी द्विज॥
कामिनीभ्रूलताकारा कोटिः कार्या सुसंस्कृता ॥५॥
पृथग्वा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत्॥
शार्ङ्गं स्नायुचितं कार्यं रुक्मबिन्दुविभूषितम् ॥६॥
कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते॥
हस्तिभग्ना द्रुमा ये च विद्युद्दग्धास्तथा च ये ॥७॥
आरामदेवतावेश्मतापसाश्रमसंभवाः॥
श्मशानसंभवा ये च न ते कार्याः कथंचन ॥८॥
प्राणिनां यः सजात्येन शृङ्गी युधि निपातितः॥
तच्छृङ्गं वर्जयेच्चापं नित्यं शार्ङ्गे विचक्षणः ॥९॥
लोहानि राम चत्वारि शस्यन्ते चापकर्मणि॥
सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज ॥१०॥
काञ्चनं चापरत्नं तु सरत्नमपि कारयेत्॥
माहिषं शारभं शार्ङ्गं रौहीजं चापि कारयेत् ॥११॥
वार्क्षं चन्दनजं श्रेष्ठं वैतसं धान्वतं तथा॥
सालशाल्मलिकाशानां ककुभस्याञ्जनस्य च ॥१२॥
वंशस्य च महाभाग सर्वश्रेष्ठतमं विदुः॥
शरद्गृहीतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः ॥१३॥
वंशानामपि तच्छ्रेष्ठं यत्र गङ्गा महानदी॥
सालानामपि तच्छ्रेष्ठं गोमती यत्र भार्गव ॥१४॥
वितस्ताकूलजं श्रेष्ठं वेतसीनां तथैव व॥
एवं द्रव्यमयं कार्यं चापं लक्षणसंयुतम् ॥१५॥
ग्रहण लक्षणं चास्य भविष्यति च खड्गवत्॥
सुखग्राहं दृष्टिकान्तं शरमोक्षमुखं तथा ॥१६॥
श्लक्ष्णं श्लिष्टं सुसंस्थानं सारवन्तं सुसंहतम्॥
अवनामसुखं नित्यं पुंनामनवलोत्कटम् ॥१७॥
एतदीदृशकं श्रेष्ठं चापरत्नं विदुर्बुधाः॥
राज्ञा चापस्य कर्तव्या पूजा बाणवरस्य च ॥१८॥
नित्यं देवकुले राम खड्गस्य च विशेषतः॥
अयसश्चाथ वंशस्य शरस्याथ शरो भवेत् ॥१९॥
शरवंशौ ग्रहीतव्यौ शरत्काले भृगूत्तम॥
शराः किरातजाः श्रेष्ठाः काञ्चीपुरसमीपतः ॥२०॥
तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः॥
स्निग्धा निमग्नपर्वाणः सारवन्तः समाहिताः ॥२१॥
ऋजवो मधुवर्णाभाः सुजाताः शारदा दृढाः॥
स्नायुश्लिष्टाः सुनेत्राश्च सुपुङ्खाः कलवाससः ॥२२॥
तैलधौताश्च कर्तव्या रुक्मपुङ्खविभूषणाः॥
तथा विषमपर्वाणः फलैश्च व्रणवर्जितैः ॥२३॥
एक त्रिपुङ्खं कर्तव्यं राजहंसच्छदोत्तरम्॥
रुक्मपुङ्खसुवर्णाग्रमयःफलमनुत्तमम् ॥२४॥
स्नायुबद्धं बलं तस्य रुक्मबन्धं तु कारयेत्॥
वज्रैश्च लक्षणोपेतैश्चित्रितं तं तु कारयेत् ॥२५॥
ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नृपैः॥
तस्य पूजा सदा कार्या साभिषेकसमा भवेत् ॥२६॥
यात्रायामभिषेके च मङ्गलेषु च कर्मसु॥
सपताके तु तं चापं सपताकं तु कारयेत्॥
मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन ॥२७॥
ये चापरत्नं विनतं तु भूपाः सुवर्णरत्नोपचितं सदैव॥
बाणेन साकं परिपूजयन्ति भवन्ति ते राम विपन्नदुःखाः ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चापशरलक्षणं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP