संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ०६५ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ०६५ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ०६५ Translation - भाषांतर पुष्कर उवाच॥एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः॥न चेमां विश्वसेज्जातु पुत्रमात्राविशेषतः ॥१॥न स्वपेत्स्त्रीगृहे रात्रौ विश्वासं कृत्रिमं भजेत्॥राजपुत्रस्य रक्षां च कर्तव्या पृथिवीक्षिता ॥२॥आचार्यैश्चास्य कर्तव्यं नित्यं युक्त्यैव रक्षणम्॥धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत् ॥३॥रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा॥शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्या प्रियंवदैः ॥४॥शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत्॥न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ॥५॥तथा च विनयेदेनं यथायौवनगं सुखे॥विषयैर्यैर्न कृष्येत सतां मार्गात्सुदुर्गमात् ॥६॥गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः॥बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम् ॥७॥अविनीतकुमारं हि कुलमाशु विशीर्यते॥अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ॥८॥आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महत्स्वपि॥मृगयापानमक्षांश्च वर्जयेच्च महीपतिः ॥९॥एतान्संसेवमानास्तु विनष्टाः पृथिवीक्षितः॥बहवो भृगुशार्दूल येषां संख्या न विद्यते ॥१०॥दिवास्वापं वृथावादं विशेषेण विवर्जयेत॥वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ॥११॥परोक्षनिन्दा च तथा वर्जनीया महीक्षिता॥अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत् ॥१२॥अर्थानां दूषणं चैकं तथा चार्थेन दूषणम्॥प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया ॥१३॥अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च॥अदेशकाले यद्दानमपात्रे दानमेव च ॥१४॥अर्थैस्तु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम्॥कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च ॥१५॥जेतव्यमरिषड्वर्गमाहुस्तु पृथिवीक्षिताम्॥एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः ॥१६॥कृत्वा भृत्यजयं राजा पौरजानपादाञ्जयेत्॥कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो जयेत् ॥१७॥बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः॥गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ॥१८॥पितृपैतामहं मित्रमाश्रितञ्च तथा रिपोः॥कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते ॥१९॥तथापि च गुरुः पूर्वं भवेत्तत्रापि चाश्रितम्॥स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च ॥२०॥कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते॥सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः ॥२१॥तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः॥षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः ॥२२ ॥अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरतेऽल्पधीः॥वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ॥२३॥न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते॥न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥२४॥काले मृदुर्यो भवति काले भवति दारुणः॥राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥२५॥भृत्यैः सह महीपालः परिहासं विवर्जयेत्॥भृत्याः परिभवन्तीह नृपं हर्षलसत्कथम् ॥२६॥व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत्॥लोकसंग्रहणार्थाय कृतकव्यसनी भवेत् ॥२७॥शौण्डीर्यस्य नरेन्द्रस्य नित्यमुत्क्षिप्तचेतसः॥जनो विरागमायाति सदा दुःसेव्यभावतः ॥२८॥स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः॥मध्येष्वपि महाभागः भ्रुकुटिं न समाचरेत् ॥२९॥भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा॥स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥३०॥अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः॥दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥३१॥रागे दर्पे च माने च द्रोहे पापे च कर्मणि॥अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ॥३२॥राज्ञा संवृतमन्त्रेण संभाव्यं द्विजसत्तम॥तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥३३॥कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः॥नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥३४॥मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः॥कर्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥३५॥मन्त्रवित्साधितो मन्त्रः संयतानां सुखावहः॥मन्त्रभेदेन बहवो विनष्टाः पृथिवीक्षितः ॥३६॥आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च॥नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः ॥३७॥न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा॥भवतीह महीभर्तुः सदा भार्गवनन्दन ॥३८॥नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह॥बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान्पृथक्पृथक् ॥३९॥मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनम्॥क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् ॥४०॥निश्चयश्च तथा मन्त्री कार्य एकेन सूरिणा॥भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् ॥४१॥एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते॥ब्राह्मणान्पर्युपासीत त्रय्यां राम मुनींश्च तान् ॥४२॥नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः॥वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ॥४३॥तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः॥समग्रां वशगां कुर्यात्पृथिवीं नात्र संशयः ॥४४॥बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः॥वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ॥४५॥त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम्॥आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ॥४६॥इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्॥जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४७॥यजेत राजा क्रतुभिर्बहुभिश्चाप्तदक्षिणैः॥धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥४८॥सांवत्सरिकैराप्तैश्च राष्ट्रादाहारयेद्बलिम्॥स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥४९॥आवृतानां गुरुकुलाद्द्विजानां पूजनं भवेत्॥नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ॥५०॥न तं स्तेना नाप्यमित्रा हरन्ति न च नश्यति॥तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥५१॥समोत्तमाधमै राजा ह्याहूताः पालयन्प्रजाः॥न निवर्तेत संग्रामात्क्षात्रं व्रतमनुस्मरन् ५२॥संग्रामेष्वनिवर्तित्वं प्रजानां परिपालनम्॥शुश्रूषा ब्राह्मणानां च राज्ञां निश्रेयसं परम् ॥५३॥कृपणानां च वृद्धानां विधवानां च योषिताम्॥योगं क्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥५४॥वर्णाश्रमव्यवस्था तु तथा कार्या विशेषतः॥स्वधर्मप्रच्युतान्राजा स्वधर्मे विनियोजयेत् ॥५५॥आश्रमेषु यथाकालं तैलभाजनभोजनम्॥स्वयमेव नयेद्राजा सत्कृतान्नवमन्य च ॥५६॥तापसे सर्वकार्याणि राज्यमात्मानमेव च॥निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत् ॥५७॥द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः॥शठाञ्ज्ञात्वा न सेवेत प्रतिबोधं तदा गतान् ॥५८॥नास्यच्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु॥गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥५९॥न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्॥विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥६०॥विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना॥बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ॥६१॥बकवच्चावलुम्पेत शशवच्च विनिष्पतेत्॥दृढप्रहारी च भवेत्तथा सूकरवन्नृपः ॥६२॥चित्राकारश्च शिखिवद्दृढभक्तस्तथान्धवत्॥भवेच्च मधुराभाषी शुककोकिलवन्नृपः ॥६३॥काकशंकी भवेन्नित्यमज्ञातवसतिं वसेत्॥नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् ॥६४॥वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम॥न गाहेज्जनसंबाधं न चाज्ञातं जलाशयम् ॥६५॥नापरीक्षितपूर्वैस्तु पुरुषैराप्तकारिभिः॥नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ॥६६॥नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुभवाससम्॥नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ॥६७॥ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः॥तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥६८॥यथा न स्यात्कृशीभावः प्रजानामनवेक्षया॥तथा राज्ञा विधातव्यं स्वराष्ट्रं परिरक्षता ॥६९॥मोहाद्राजा स्वराष्ट्रं यत्कर्षयत्यनवेक्षया॥सोऽचिराद्भ्रंशते राज्याज्जीविताच्च सबान्धवः ॥७०॥भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत्॥तथा राष्ट्रं महाभाग भृतं कर्ममहद्भवेत् ॥७१॥यो राष्ट्रमनुगृह्णाति राजा सुपरिरक्षति॥तं प्रजाश्चोपजीवन्ति विन्दते सुमहत्फलम् ॥७२॥दुह्याद्धिरण्यं धान्यं च मही राज्ञा सुरक्षिता॥नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ॥७३॥गोपिनो हि सदा कार्यः संविभागः प्रियाणि च॥अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च ॥७४॥सर्वं कर्मेदमायत्तं विधानं चैव पौरुषम्॥तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥७५॥एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु॥लोकानुरागप्रभवा हि लक्ष्मीर्लक्ष्म्या भवेच्चैव परश्च लोकः ॥७६॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०राम पुष्करसंवादे राजधर्मवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ॥६५॥ N/A References : N/A Last Updated : December 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP