संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००७

खण्डः २ - अध्यायः ००७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
राज्ञाग्र्यमहिषी कार्या सर्वलक्षणपूजिता॥
विनीता गुरुभक्ता च ईर्षाक्रोधविवर्जिता ॥१॥
राज्ञः प्रियहितासक्ता चारुवेशा प्रियंवदा॥
भृताभृतजनज्ञा च भृतानामनुवेक्षिणी ॥२॥
अभृतानां जनानां च भृतिकर्मप्रवर्तिनी॥
रागद्वेषवियुक्ता च सपत्नीनां सदैव या ॥३॥
भोजनासनपानेन सर्वेषामनुवेक्षिणी॥
सपत्निपुत्रेष्वपि या पुत्रवत्परिवर्तते ॥४॥
मन्त्रिसंवत्सरामात्यान्या च पूजयते सदा॥
ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी ॥५॥
कृताकृतज्ञा राज्ञश्च विदिता मण्डलेष्वपि॥
परराजकलत्रषु प्रीयमाणा मुदा युता ॥६॥
दूतादिप्रेषणकरी राजद्वारेषु सर्वदा॥
तद्द्वारेण नरेद्राणां कार्यज्ञा च विशेषतः ॥७॥
एवंगुणगणोपेता नरेन्द्रेण सहानघा॥
अभिषेच्या भवेद्राज्ये राज्यस्थेन नृपेण वा ॥८॥
एवं यदा यस्य भवेच्च पत्नी नरेन्द्रचन्द्रस्य महानुभावा॥
वृद्धिं व्रजेत्तस्य नृपस्य राष्ट्रं सचारकं नात्र विचारणास्ति ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अग्र्यमहिषीलक्षणं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP