संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७२

खण्डः २ - अध्यायः ०७२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम्॥
यस्य सम्यक्प्रणयनात्स्वर्गभाक्पार्थिवो भवेत् ॥१॥
त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत्॥
कृष्णलानां तथा षष्ट्या कर्षार्धं राम कीर्तितम् ॥२॥
सुवर्णश्च विनिर्दिष्टो राम षोडशमाषकः॥
निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ॥३॥
ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम्॥
ताम्रकर्षापको राम प्रोक्तः कार्षापणो बुधैः ॥४॥
पणानां द्वे शते सार्धे प्रथमं साहसः स्मृतः॥
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ॥५॥
बालदायादकं रिक्थं तावद्राजानुपालयेत्॥
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ॥६॥
वेश्यापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च॥
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥७॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः॥
ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥८॥
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्॥
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥९॥
ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि॥
सम्पाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति ॥१०॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः॥
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥११॥
प्रनष्टाधिगतं रिक्थं तिष्ठेदर्थैरधिष्ठितम्॥
यांस्तत्र चौरान्गृह्णीयाद्घातयेत्कुञ्जरेण तान् ॥१२॥
ममेदमिति यो ब्रूयादसत्येना तथा निधिम्॥
तस्य दण्डं हरेद्राजा स्ववित्तस्याष्टमांशकम् ॥१३॥
चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते॥
तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु ॥१४॥
यो यावन्निह्नु तार्थं मिथ्या यो वा वदेत्ततः॥
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं धनम् ॥१५॥
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः॥
प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत् ॥१६॥
यत्स्वामिनाननुज्ञातमाधिं भुङ्क्ते विचक्षणः॥
अवध्यमूलं कर्तव्यं तस्य दण्डं महीक्षिता॥
वसा - - - - -तथा धर्मो न हीयते ॥१७॥
यो निक्षेपं याचयति यश्च निक्षिप्य याचते॥
तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं धनम् ॥१८॥
उपदाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः॥
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥१९॥
यो याचितकमादाय न तद्दद्याद्यथाक्रमम्॥
स निगृह्य बलाद्दाप्यो दण्डो वै पूर्वसाहसम् ॥२०॥
अज्ञानाद्यः पुमान्कुर्यात्परद्रव्यस्य विक्रयम्॥
निर्दोषो ज्ञानपर्यन्तं चौरवद्वधमर्हति ॥२१॥
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति॥
दण्ड्यः समूलं सकलं धर्मज्ञेन महीक्षिता ॥२२॥
द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजनम्॥
हिरण्यमाषकं दण्ड्यः पापे नास्ति ह्यतिक्रमः ॥२३॥
आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे॥
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ॥२४॥
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ॥२५॥
भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्॥
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥२६॥
अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु॥
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम्॥
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥२७॥
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्॥
सोन्तर्दशाहात्तत्साम्याद्दद्याश्चैवाददीत च ॥२८॥
परेण तु दशाहस्य न दद्यान्नैव दापयेत्॥
आददद्विददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥२९॥
यस्तु दोषवतीं कन्यां त्वनाख्याय प्रयच्छति॥
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥३०॥
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः॥
स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् ॥३१॥
यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति॥
उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥३२॥
वरो दोषानभिख्याप्य यः कन्यां वरयेदिह॥
दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥३३॥
प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति॥
दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥३४॥
सत्यंकारेण वाचा च युक्तं पर्यासमं शयम्॥
लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति ॥३५॥
वहेच्छुल्कं तु विक्रेता सत्यंकारं तु संत्यजेत्॥
द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः ॥३६॥
मूल्यैकदेशं दत्त्वा तु यदि क्रेता धनं त्यजेत्॥
दण्डयः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणात् ॥३७॥
द्रुह्याद्भृतस्तु यः पालं गृहीत्वा भक्तवेतनम्॥
स तु दण्ड्यः शतं राज्ञा सुवर्णं स्वाम्यरक्षिणा ॥३८॥
दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः॥
बद्धः कृत्वायसैः पाशैस्तस्य कर्मकरो भवेत् ॥३९॥
धनुश्चतुःपरीमाणं ग्रामस्य तु समन्ततः॥
द्विगुणं त्रिगुणं वापि नगरस्य तु कल्पयेत् ॥४०॥
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत्॥
छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् ॥४१॥
तत्रापरधृतं धान्यं महिष्यः पशवो यदि॥
न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥४२॥
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा॥
सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ॥४३॥
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ॥४४॥
पालस्त्वपालकी स्वामी विनाशे क्षत्त्रियस्य तु॥
भक्षयित्वोपविष्टासु द्विगुणं दण्डमर्हति ॥४५॥
वैराद्दशगुणं दण्डं विनाशात्क्षत्त्रियस्य तु॥
गृहं तडागमारामं क्षेत्रं बुद्ध्वा ह्यपाहरन्॥
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥४६॥
सीमाबन्धनकाले तु सीमाबन्धनकारिणाम्॥
तेषां संज्ञां दधानस्तु जिह्वाच्छेदनमाप्नुयात् ॥४७॥
अर्थेनापि च यो विद्यात्संविदं वापि गच्छति॥
उत्तमं साहसं दण्ड्य इति स्वायंभुवो ऽब्रवीत् ॥४८॥
स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः ॥४९॥
सर्वे पृथक्पृथग्दण्ड्या राज्ञा प्रथमसाहसम्॥
शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ॥५०॥
वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति॥
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्यापि शासने ॥५१॥
वैश्ये चाप्यर्धपञ्चाशच्छूद्रो द्वादशकोऽधमः॥
क्षत्त्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ॥५२॥
शूद्रः क्षत्रियमात्रस्य जिह्वाच्छेदनमाप्नुयात्॥
पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशासने ॥५३॥
शूद्रे चैवार्धपञ्चाशत्तथा धर्मो न हीयते॥
वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तम साहसम् ॥५४॥
शूद्राक्रोशे तथा वैश्यः शतार्धं दण्डमर्हति॥
सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः ॥५५॥
वादेषु वचनीयेषु तदेव द्विगुणं भवेत॥
एकजातिर्द्विजातिं तु वाचा दारुणया क्षिपन्॥
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥५६॥
नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः॥
निखन्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥५७॥
धर्मोपदेशधर्मेण द्विजानामस्य कुर्वतः॥
तप्तमासिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥५८॥
शृतं देशं च जातिं च कर्म शारीरमेव च॥
वितथं तु ब्रुवन्दण्ड्यो राज्ञा द्विगुणसाहसम् ॥५९॥
यस्तु पातकसंयुक्तैः क्षिपेद्वर्णान्तरौ विशः॥
उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥६०॥
राज्ञो निवेश्य नियमं प्रथमं यान्ति ये मिथः ॥६१॥
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु॥
प्रीत्या मयास्याभिहितं प्रमादेनाथवा वदेत्॥
भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ॥६२॥
काणं वाप्यथवा खञ्जमन्धं वापि तथाविधम्॥
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणावरम् ॥६३॥
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम्॥
आक्षारयच्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥६४॥
गुरुवर्ज्यं तु मार्गार्हे यो मार्गं न प्रयच्छति॥
स राज्ञा कृष्णलं दण्ड्यस्तस्य पापस्य शान्तये ॥६५॥
एकजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात्॥
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥६६॥
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः॥
अवसेचयतो मेढ्रमवशब्दयतो गुदम् ॥६७॥
महासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ॥६८॥
कृताङ्कः स विनिर्वास्यो ह्यङ्गं वास्य विकर्तयेत्॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन्॥
पादयोर्दण्डिकायां तु ग्रीवायां वृषणेषु वा ॥६९॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ॥७०॥
अस्थिभेत्ता च षण्णिष्कान्प्रमाप्यश्च प्रमापकः॥
अङ्गभङ्गकरस्यांगं तदेवापहरेन्नृपः ॥७१॥
दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा॥
अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ॥७२॥
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः॥
पञ्चाशत्तु भवेद्दण्डस्तथैव मृगपक्षिषु ॥७३॥
कृमिकीटेषु दण्डः स्याद्रजतस्य तु माषकम्॥
तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ॥७४॥
सस्वामिकानां मरके शेषाणां दण्डमेव तु॥
वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥७५॥
द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये॥
छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥७६॥
गुल्मवल्लीलतानां तु सुवर्णस्य च माषकम्॥
वृथा छेदे तृणस्यापि दण्डः कार्षापणं भवेत् ॥७७॥
त्रिभागं कृष्णलान्दण्डयः प्राणिनस्ताडने तथा॥
देशकालानुरूपेण मूल्यं राम! द्रुमादिषु ॥७८॥
तत्स्वामिनि तथा दद्याद्दण्डमुक्तं च पार्थिवे॥
यत्रातिवर्तते युग्यं वैगुण्याद्रजकस्य तु ॥७९॥
तत्र स्वामी भवेद्दण्ड्यो नाप्तश्चेद्व्याजको भवेत्॥
प्राणकश्च भवेदाप्तः प्राजको दण्डमर्हति ॥८०॥
नास्ति दण्डं च तस्यापि तथा त्राहीति जल्पतः ॥८१॥
द्रव्याणि यो हरेद्यस्य जानतोऽजानतोऽपि वा॥
स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ॥८२॥
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च तां प्रपाम्॥
स दण्डं प्राप्नुयान्माषं तच्च संप्रतिपादयेत् ॥८३॥
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बुधः॥
शेषेऽप्येकादशगुणं दण्डं तस्य प्रकल्पयेत् ॥८४॥
सुवर्णरजतादीनां चोत्तमानां च वाससाम्॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः॥
मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥८५॥
महापशूनां हरणे वस्त्राणामौषधस्य च॥
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥८६॥
गोषु ब्राह्मणसंस्थासु स्थूलकार्याविभेदने॥
अश्वापहारकश्चैव सद्यः कार्योर्धपादिकः ॥८७॥
सूत्रकार्पासकिल्वानां गोमयस्य गुडस्य च॥
दध्नः क्षीरस्य तक्रस्य पानीयस्य फलस्य च ॥८८॥
वेणुवैदलभाण्डानां लवणानां तथैव च॥
मृण्मयानां च सर्वेषां मृदो भस्मन एव च ॥८९॥
मद्यानां पक्षिणां चैव तैलस्य च घृतस्य च॥
मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम् ॥९०॥
अन्येषामेवमादीनां मत्स्यानामोदनस्य च॥
पक्वान्नानां च सर्वेषां तन्मूल्याद्द्विगुणो दमः ॥९१॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च॥
अल्पेषु परिपूर्णेषु दण्डः स्यात्पञ्चमाषकः ॥९२॥
परिपूर्णेषु धान्येषु शाकमूलफलेषु च॥
निरन्वये शतं दण्ड्यः सान्वये च शतं दमः ॥९३॥
येनयेन यथाङ्गेन स्तेनो नृषु विचेष्टते॥
तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ॥९४॥
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षु द्वे च मूलके॥
त्रपुसोर्वारुकौ द्वौद्वौ तावन्मानं फलेषु च ॥९५॥
तथा च सर्वधान्यानां मुष्टिग्राहेण भार्गव॥
शाकं शाकप्रमाणेन गृह्यमाणो न दुष्यति ॥९६॥
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च॥
तृणं च गोभ्यो दानार्थमस्तेयं मनुरब्रवीत् ॥९७॥
अदेववाटजं पुष्पं देवतार्थं तथैव च॥
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥९८॥
शृङ्गिणं नखिनं चापि दंष्ट्रिणं वा वधोद्यतम्॥
यो हन्यान्न स पापेन लिप्यते मनुजः क्वचित् ॥९९॥
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्॥
आततायिनमायान्तं हन्यादेवाविचारयन् ॥१००॥
नाततायिवधे दोषः कर्तुर्भवति कश्चन॥
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमर्हति ॥१०१॥
गृहक्षेत्राभिहर्तारं तथा पत्न्यभिगामिनम्॥
अग्निदं गरदं चैव तथा हस्तोद्यतायुधम् ॥१०२॥
अभिचारं च कुर्वाणं राजगामि च पैशुनम्॥
एते हि कथिता लोके धर्मज्ञैराततायिनः ॥१०३॥
परस्त्रियं न संभाषेत्तीर्थेऽरण्ये गृहेऽपि वा॥
नदीनां चैव संभेदे संग्रहणमवाप्नुयात् ॥१०४॥
न संभाषं सह स्त्रीभिः प्रतिषिद्धं समाचरेत्॥
प्रतिषिद्धस्तु संभाषः सुवर्णं दण्डमर्हति ॥१०५॥
नैष चारेणदारेषु विधिर्नात्मोपजीविषु॥
सज्जयन्ति मनुष्यैस्ते निगूढं विचरन्त्युत ॥१०६॥
किञ्चिदेव तु सख्यं स्यात्संभाषेताभिचारयन्॥
प्रेष्यासु चैव सर्वाभिरहः प्रव्रजितासु च ॥१०७॥
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति॥
सकामां दूषयाणस्तु प्राप्यः प्रथमसाहसम् ॥१०८॥
भिक्षुकोऽप्यथवा नारी योऽपि च स्यात्कुशीलवः॥
प्रविशेत्प्रतिषिद्धस्तु प्राप्नुयाद्द्विशतं दमम् ॥१०९॥
यश्च संचारकस्तत्र पुरुषः स तथा भवेत्॥
पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥११०॥
बलात्संदूषयन्यस्तु परभार्यां नरः क्वचित्॥
वधदण्डो भवेत्तस्य नापराधो भवेत्स्त्रियाः ॥१११॥
रजस्तृतीयं या कन्या स्वगृहे प्रतिपद्यते॥
अदण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम् ॥११२॥
स्वदेशे कन्यकां दत्त्वा तामादाय तथा व्रजन्॥
परदेशे भवेद्वध्यः स्त्रीचौरः स तथा भवेत् ॥११३॥
अद्रव्यां मृतपत्नीं तु संगृह्णन्नापराध्यति॥
सार्थां वै तां च गृह्णानो दण्डमुत्तममर्हति ॥११४॥
उत्कृष्टं या भजेत्कन्या देया तस्यैव सा भवेत्॥
जघन्यं सेवमानां च संयतां वासयेद्गृहे ॥११५॥
उत्तमां सेवमानस्तु जघन्यो वधमर्हति॥
जघन्यमुत्तमा नारी सेवमाना तथैव च ॥११६॥
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता॥
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥११७॥
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम्॥
वासयेत्स्वैरिणीं नित्यं सवर्णेनाभिदूषिताम् ॥११८॥
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात्॥
मासं च मलिना नित्यं सा ग्रासान्प्राप्नुयाद्दश ॥११९॥
ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोनयः॥
व्रजन्दाप्यो भवेद्राम दण्ड उत्तमसाहसम् ॥१२०॥
वैश्यागमे तु विप्रस्य क्षत्त्रियस्यन्त्यजागमे॥
मध्यमं प्रथमं वैश्यो दण्ड्यः शद्रागमे भवेत् ॥१२१॥
शूद्रः सवर्णाऽगमने शतं दण्ड्यो महीभुजा॥
वैश्यश्च द्विगुणं राम क्षत्त्रियस्त्रिगुणं तथा ॥१२२॥
ब्राह्मणश्च भवेद्दण्ड्यस्तथा राम चतुर्गुणम्॥
गुप्तास्वेव भवेद्दण्डमगुप्तास्वपि तत्स्मृतम् ॥१२३॥
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा॥
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥१२४॥
भागिनेयी तथा चैव राजपत्नी तथैव च॥
इत्यगम्यास्तु निर्दिष्टास्तासां तु गमने नरः ॥१२५॥
शिश्नस्योत्कर्तनं कृत्वा ततस्तु वधमर्हति॥
भ्रातृभार्यागमे पूर्वाद्दण्डस्तु वधमर्हति ॥१२६॥
चण्डालीं वा श्वपाकीं वा गच्छन्वधमवाप्नुयात्॥
तिर्यग्योनौ तु गोवर्ज्यं मैथुनं यो निषेवते ॥१२७॥
स पणं प्राप्नुयाद्दण्डं तस्याश्च यवसोदकम्॥
सुवर्णं च भवेद्दण्ड्यो गां व्रजन्मनुजोत्तम ॥१२८॥
वेश्यागामी भवेद्दण्ड्यो वेश्याशुल्कसमं पणम्॥
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥१२९॥
वेतनं द्विगुणं दद्याद्दण्डं च त्रिगुणं तथा॥
अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात् ॥१३०॥
तस्य दण्डं भवेद्राम सुवर्णस्य च माषकम्॥
नीत्वा भोगं न यो दद्याद्दाप्यो द्विगुणवेतनम् ॥१३१॥
राज्ञा च द्विगुणं दण्ड्यस्तथा धर्मो न हीयते॥
बहूनां व्रजतामेकां सर्वे तद्द्विगुणं दमम् ॥१३२॥
सर्वे पृथक्पृथग्राम दण्डं च द्विगुणं पणात्॥
न माता न पिता न स्त्री ऋत्विग्याज्यस्य सूनवः ॥१३३॥
अन्योन्याः पतितास्त्याज्यास्त्यागे दण्ड्यः शतानि षट्॥
पतिता गुरवस्त्याज्या न तु माता कदाचन ॥१३४॥
गर्भधारणपोषाभ्यां तेन माता गरीयसी॥
संदंशहीनौ कर्तव्यौ कूटाक्षोपधिदेविनौ ॥१३५॥
अधीयानमनध्याये दण्डः कर्षापणत्रयम्॥
अध्यापकश्च द्विगुणं तथाचारस्य लङ्घने ॥१३६॥
अन्तं सस्यभवे दण्डः सुवर्णस्य च कृष्णलम्॥
भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः ॥१३७॥
प्राप्तापराधास्ते दण्ड्या रज्वा वेणुदलेन वा॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन ॥१३८॥
अतोन्यथा यत्प्रहरेत्प्राप्तः स्याच्चौरकिल्बिषम्॥
द्यूतं समाह्वयं चैव यो निषिद्धं समाचरेत् ॥१३९॥
प्रच्छन्नं वा प्रकाशं वा स दण्ड्यः पार्थिवेच्छया॥
वासांसि फलके श्लक्ष्णे नेनिज्याद्रजकः शनैः ॥१४०॥
अतोऽन्यथा तु कुर्वीत दण्डस्स्याद्रुक्मकृष्णलम्॥
रक्षांस्यधिकृता राम प्रजेयं यैर्विलिप्यते ॥१४१॥
कार्यिकेभ्योऽर्थमादाय हन्युः कार्याणि कार्यिणाम्॥
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥१४२॥
ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कार्यिणाम्॥
निर्घृणाः क्रूरमनसः सर्वकार्योपरोधिनः ॥१४३॥
धनोष्मणा पच्यमानांस्तान्निःस्वान्कारयेन्नृपः॥
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ॥१४४॥
स्त्रीबालब्राह्मणघ्नांश्च वध्यांश्चासेविनस्तथा॥
अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ॥१४५॥
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत्॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥१४६॥
एतान्सर्वान्पृथग्विद्यान्महापातकिनो नरान्॥
महापातकिनो वध्या ब्राह्मणं तु विवासयेत् ॥१४७॥
कृतचिह्नं स्वकाद्देशाच्छृणु चिह्नक्रमं तथा॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ॥१४८॥
स्तेये तु श्वपदं विद्याद्ब्रह्महण्यशिराः पुमान्॥
असम्भाष्या ह्यसंलाप्या असम्पाद्या विशेषतः ॥१४९॥
त्यक्तव्याश्च तथा राम! ज्ञातिसम्बन्धिबान्धवैः॥
महापातकिनो वित्तमादाय नृपतिः स्वयम् ॥१५०॥
अप्सु प्रवेशयेद्दण्डं वरुणायोपपादयेत्॥
सहोढं न विना चौरं घातयेद्धार्मिको नृपः ॥१५१॥
सहोढं सोपकरणं घातयेदविचारयन्॥
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ॥१५२॥
भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत्॥
राष्ट्रेषु राष्ट्राधिपतेः समन्ताच्चैव दूषकान् ॥१५३॥
अभ्याघातेषु मध्यस्थाः क्षिप्रं शास्यास्तु चौरवत्॥
दस्युप्रपीडितानां हि पथि मोहादिदर्शने ॥१५४॥
शक्तितोनाभिधावन्तो निर्वास्याः सपरिच्छदाः॥
राज्ञः कोषापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ॥१९५॥
अरीणामुपजप्तॄँश्च घातयेद्विविधैर्वधैः॥
सन्धिं भित्त्वा तु ये चौर्यं राज्ञः कुर्वंति तस्कराः ॥१५६॥
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत्॥
तडाकभेदकं हन्यादप्सु शुद्धवधेन तु ॥१५७॥
यस्तु पूर्वं निवृत्तस्य तडाकस्योदकं हरेत्॥
आगमं वाप्यपां कुर्यात्स दाप्यः पूर्वसाहसम् ॥१५८॥
कोष्ठागारायुधागारदेवतागारभेदकान्॥
पापान्पापसमाचारान्घातयेच्छीघ्रमेव तान् ॥१५९॥
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि॥
स हि कार्षापणं दण्ड्यस्तममेध्यं च शोधयेत् ॥१६०॥
आपद्गतोऽथवा वृद्धो गर्भिणी बाल एव वा॥
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥१६१॥
प्रथमं साहसं दण्ड्यः यश्च मिथ्याचिकित्सकः॥
पुरुषे मध्यमं दण्ड्यस्तूत्तमे च तथोत्तमम् ॥१६२॥
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकान्॥
प्रतिकुर्युश्च तत्सर्वं दद्युः पञ्चशतानि च ॥१६३॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा॥
मणीनामपि भेदस्य दण्डः प्रथमसाहसः ॥१६४॥
समैश्च विषमं यो वै कुरुते मूल्यतोऽपि वा॥
समाप्नुयान्नरः पूर्वं समं वाधममेव वा ॥१६५॥
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत्॥
क्लिश्यन्तो यत्र दृश्यन्ते विकृताः पापचारिणः ॥१६६॥
प्राकारस्य तु भेत्तारं परिखानां च भेदकम्॥
द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ॥१६७॥
मूलकर्माभिचारेषु कर्तव्यो द्विगुणो दमः॥
अबीजविक्रयी दैवबीजोत्कृष्टस्तथैव च ॥१६८॥
मर्यादाभेदकश्चैव विकृतं वधमाप्नुयात्॥
सर्वसङ्करपापिष्ठं हेमकारं नराधिपः ॥१६९॥
अन्याये वर्तमानं तु लवशश्छेदयेच्छरैः॥
द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् ॥१७०॥
राजा पृथक्पृथक्कुर्याद्दण्डमुत्तमसाहसम्॥
द्व्यावदूषको यश्च प्रतिच्छन्दकविक्रयी ॥१७१॥
मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम्॥
शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ॥१७२॥
देवतानां सतीनां वै तूत्तमं दण्डमर्हति॥
एकस्य दण्डपारुष्ये बहूनां द्विगुणो दमः ॥१७३॥
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः॥
मध्यमं ब्राह्मणं राजा विषयाद्विप्रवासयेत् ॥१७४॥
लशुनं च पलाण्डुं च सूकरं ग्रामकुक्कुटम्॥
तथा पञ्चनखं सर्वं भक्ष्यादन्यत्र भक्षिणम् ॥१७५॥
विवासयेत्क्षिप्रमेव ब्राह्मणं विषयात्स्वकात्॥
अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम् ॥१७६॥
ब्राह्मणक्षत्त्रियविशां चतुस्त्रिद्विगुणं हितम्॥
यः साहसं कारयति स दद्याद्द्विगुण दमम् ॥१७७॥
यश्चेदमुक्त्वाहं दाता कारयेत्स चतुर्गुणम्॥
संदिष्टस्याप्रदातारं समुद्रगृहभेदकम् ॥१७८॥
पञ्चाशत्पणिको दंडस्तयोः कार्यो महीक्षिता॥
अस्पृश्येषु शतार्धन्तु मध्योऽधो योगकर्मकृत् ॥१७९॥
पुंस्त्वहर्ता पशूनां च दासीगर्भविनाशकृत्॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ॥१८०॥
अव्रजन्बाढमुक्त्वा च तथैव च निमन्त्रणात्॥
एते कार्षापणशतं सर्वे दण्ड्या महीक्षिता ॥१८१॥
दुःखोत्पादि गृहे द्रव्यं क्षिपन्दण्ड्यस्तु कृष्णलम्॥
पितापुत्रविरोधे तु साक्षिणां द्विशतो दमः ॥१८२॥
तुलाशासनमानानां कूटकृन्नाणकस्य च॥
एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥१८३॥
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम्॥
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥१८४॥
क्षेत्रवेश्मग्रामवननिवीतखलदाहकाः॥
राजपत्न्यभिगामी च दग्धव्याश्च कटाग्निना ॥१८५॥
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम्॥
पारदारिकचौरौ च मुञ्चतो दण्डमुत्तमम् ॥१८६॥
अभक्ष्येण द्विजं दूष्य दण्डमुत्तमसाहसम्॥
क्षत्रियो मध्यमं वैश्यः प्रथमं शूद्रमर्धिकम् ॥१८७॥
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा॥
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥१८८॥
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः॥
तमायातं पुनर्जित्वा दण्डद्येद्द्विगुणं दमम् ॥१८९॥
आह्वानकारी वध्यः स्यादनाहूतमथाह्वयन्॥
दण्डिकस्य यो हस्तादभियुक्तः पलायते ॥१९०॥
हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम्॥
प्रेष्यापराधात्प्रेष्यस्य स दण्डं दातुमर्हति ॥१९१॥
दण्डार्थं नियमार्थं च नीयमानस्तु बन्धनम्॥
पथि कश्चित्पलायेत दण्डमष्टगुणं भवेत् ॥१९२॥
अनिष्ठितविवादे तु नखरोमावतारणम्॥
कारयेद्यः स पुरुषो मध्यमं दण्डमर्हति ॥१९३॥
बन्धनं वाथवा वध्यं बलान्मोचयतो भवेत्॥
वध्ये विमोचिते वध्यो दण्ड्ये द्विगुणदण्डभाक् ॥१९४॥
दुर्मृष्टव्यवहाराणां सभ्यानां द्विगुणो दमः॥
ज्ञात्वा त्रिंशद्गुणं दण्डं प्रक्षेप्यमुदके भवेत् ॥१९५॥
अल्पे दण्डेधिकं कृत्वा विपुले चाल्पमेव च॥
ऊनाधिकं तु तद्दण्डं सद्यो दद्यात्स्वकाद्गृहात् ॥१९६॥
यावद्वध्यः स वध्येत तावद्वध्यस्य मोक्षणात्॥
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥१९७॥
वध्ये विवासयेद्राष्ट्रात्समग्रधनमक्षतम्॥
न जातु ब्राह्मणवधात्पापमप्यधिकं क्वचित् ॥१९८॥
यस्मात्तस्मात्प्रयत्नेन ब्रह्महत्यां विवर्जयेत्॥
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्॥
अयशोमहदाप्नोति नरकं चैव गच्छति ॥१९९॥
ज्ञात्वापराधं पुरुषं च राजा कालं तथा चानुमते द्विजानाम्॥
दण्ड्येषु दण्डं परिकल्पयेत पापस्य ये तच्छमनं न कुर्युः ॥२००॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० परशुरामं प्रति पुष्करोपाख्यानेषु दण्डप्रणयनन्नाम द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP