संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११९

खण्डः २ - अध्यायः ११९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
नामानि नरकाणां च यातना विविधास्तथा॥
भगवञ्छ्रोतुमिच्छामि पुंसां नरकगामिनाम् ॥१॥
पुष्कर उवाच॥
तामिस्र मन्धतामिस्रं महारौरवरौरवौ॥
नरकं कालसूत्रं च महानरकमेव च ॥२॥
संजीवनं महावीचिं तपनं संप्रतापनम्॥
संघातं च सकाकोलं कश्मलं पूतिमृत्तिकम् ॥३॥
लोहशंकुं नृभीमं च मन्थानं शाल्मलिं नदीम्॥
असिपत्रवनं चैव लोहकारं तथैव च ॥४॥
पातालेषु महाबाहो त्रींस्त्रीन्वृद्धिक्रमेण तु॥
एकैकस्य तथैवाष्टौ दिक्षु चापि विदिक्ष्वपि ॥५॥
स्थितास्तथा ये विज्ञेया नरका घोरदर्शनाः॥
यान्त्येते पापकर्माणो नरा येषु भृगूत्तम ॥६॥
एकस्मिन्नरके केचित्क्रमादन्ये बहुष्वपि॥
यांत्येते मानवा राम पीड्यमानाः पुनःपुनः ॥७॥
नरकाणां नराणां तु यातनाकारिणश्च ये॥
घोररूपास्तु ते प्रोक्ता दृष्टमात्रभयावहाः ॥८॥
मार्जारोलूकगोमायुगृध्रश्येनखराननाः॥
गजाश्वोष्ट्रवराहाणां सिंहानां च तथा परे ॥९॥
गोधामहिषकाकानां मद्गुसारसयोस्तथा॥
उरभ्राजपतङ्गानां सर्पमूषकयोस्तथा ॥१०॥
अन्येषां चैव सत्त्वानां तथान्ये जठरा नराः॥
स्कन्दाननास्तथैवान्ये कबन्धाकारदर्शनाः ॥११॥
भीमानना भयकरा नानायुधधरास्तथा॥
उग्रवाचो दुराधर्षाः सर्पवृश्चिकवेष्टिताः ॥१२॥
तैलद्रोण्यां नरान्क्षिप्त्वा ज्वालयित्वा हुताशनम्॥
सुसमिद्धं नरान्कांश्चित्क्वाथयन्ति पुनःपुनः ॥१३॥
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान्॥
अयःपात्रेषु चैवान्यान्द्रवद्वह्निकणेष्वपि ॥१४॥
शूलेषु रोपितानन्याञ्शुष्काग्नावपरांस्तथा॥
उत्कृत्य विपचन्त्येतानन्यांश्छित्वा तथा परान् ॥१५॥
कशाभिस्ताडयन्त्यन्यांस्तथान्यानपि मानवान्॥
भोजयन्ति महाभाग वह्नितप्तानयोगुडान् ॥१६॥
पांसूनपि तथैवान्यान्वान्तमन्यत्र चापरम्॥
विष्ठामन्यत्र च कफं तथान्यत्र च कण्टकान् ॥१७॥
अन्यत्र वह्निसंकाशास्तथा भार्गव वालुकाः॥
पाययन्ति तथान्यत्र वह्निवर्णां च वारुणीम् ॥१८॥
अन्यत्र नारकाणां ते छिन्दन्त्यङ्गानि भागशः॥
पाटयन्ति तथान्यत्र करपत्रैः पुनःपुनः ॥१९॥
पीडयन्ति तथान्यत्र कृत्वा यन्त्रेषु नारकान्॥
उलूखलकृतानन्यान्मुसलैस्ताडयन्ति च ॥२०॥
कुम्भीगतांस्तथान्यत्र कुम्भीतः किञ्चिदुद्गतान्॥
घ्नन्ति मुद्गरकूटेन महतीं वेदनां गतान् ॥२१॥
त्वचमुत्कृत्य चान्यत्र शुनां नरकवासिनः॥
त्यजन्ति ते च भक्ष्यन्ते तीक्ष्णदन्तैर्मुहुर्मुहुः ॥२२॥
अन्धकारे तथान्यत्र भीमगन्धे भयावहे॥
अत्युष्णे तैश्च पात्यन्ते गर्भवाससमे जनाः ॥२३॥
काकैर्गोमायुभिः सर्पैर्वृश्चिकैर्मूषकैरपि॥
मक्षिकाभिश्च भक्ष्यन्ते तेषामन्यत्र शासनात् ॥२४॥
अन्यत्र शाल्मलिं घोरं संतप्तं तीक्ष्णकण्टकम्॥
सर्पकीटादिबहुलमारोप्यन्ते नराधमाः ॥२५॥
अन्यत्र च तथा घोरां सन्तप्तामयसः शिलाम्॥
आलिङ्गन्ते सुदुःस्पर्शा तेषामेव तु शासनात् ॥२६॥
अन्यत्रासेव्यवसतौ वसन्ति भयपीडिताः॥
तत्र तेषां तु नासाक्षिकर्णवक्त्रेषु मानद ॥२७॥
प्रविशन्ति महाभोगाः कृमयो मांसभोजिनः॥
क्षारनद्यां तथैवान्ये पात्यन्ते नारकान्मुहुः ॥२८॥
बहुशीतान्धकारे च पात्यन्ते नरके परे॥
रक्ततोयवहामन्ये प्रपद्यन्ते महानदीम् ॥२९॥
असिपत्रवने चान्ये कृष्यन्ते भीमदर्शनाः॥
तृष्णया क्षुधया चान्ये बाध्यन्ते तत्र मानवाः ॥३०॥
परान्नपानं लिप्सन्तस्ताड्यन्ते कूटमुद्गरैः॥
पाययन्ति तथान्यत्र परान्यमभटास्तथा ॥३१॥
तीव्रधूममधोवक्त्रान्बद्ध्वा वृक्षेषु मानद॥
त्वचोत्कर्तनमन्यत्र तिलशः क्रियते भटैः ॥३२॥
काष्ठान्यन्यत्र बध्यन्ते नारकाणां तथास्थिषु॥
कूटागारप्रमाणैश्च तथा देहैर्भयार्दिताः ॥३३॥
सूचीवक्त्रांस्तथान्यत्र याप्यन्ते क्षुधया भृशम्॥
सिच्यन्ते च तथान्यत्र तैलेन च गुडेन च ॥३४॥
सन्तप्तेन महाभाग भृशं दुःखप्रदायिनाम्॥
अन्यत्र जातपिटकाः स्रस्तजिह्वाः सुविह्वलाः ॥३५॥
घोरातपविनिक्षिप्ता भक्ष्यन्ते च पिपीलकैः॥
सूत्रेणान्यत्र छिद्यन्ते पादतः प्रभृति क्रमात् ॥३६॥
तिलशो भृगुशार्दूल नारकाः पर्वतोपमाः॥
यावच्च तेषां मूर्धानं तावदेव पुनःपुनः ॥३७॥
कृत्वा च पिष्टं पचनं पच्यन्तेऽन्ये तथा भृशम्॥
अयःपात्रेषु चान्यत्र तीक्ष्णशङ्कुभिरायसैः ॥३८॥
क्रियन्ते संयता घोरैः सन्तप्तेषु महाभुज॥
आपोथ्यन्ते तथान्यत्र विनिगृह्य शिलासु ते ॥३९॥
गर्तेषु ते मृदं दत्त्वा पूर्यन्ते मुसलैर्भृशम्॥
बद्धास्तम्भे तथान्यत्र क्षिप्यन्ते सायकैर्नराः ॥४०॥
शृङ्खलाभिश्च बध्यन्ते लोठ्यन्ते कण्टकेषु च॥
गन्धेनान्यत्र बोध्यन्ते विषमेण पुनःपुनः ॥४१॥
नारकैश्च तथा सत्त्वैर्नानावेषैर्भयानकैः॥
यातनाभिश्च बह्वीभिर्याप्यन्ते नरके भृशम् ॥४२॥
अन्योन्यस्य च मांसानि भक्षयन्त्यपरे तथा॥
हा तात मातेति तथा क्रन्दमानाः पुनःपुनः ॥४३॥
निन्दन्तः स्वानि कर्माणि ताड्यमानाश्च तैर्भटैः॥
यातनाभिश्च बह्वीभिर्याप्यन्ते भृगु नन्दन ॥४४॥
विमुक्तनारका ह्यन्ये वह्निमन्ये सुशीतलम्॥
विजानन्ति महाभाग सुखस्पर्शतमं तथा ॥४५॥
विमुक्तो नारकाच्छीतात्सुखोष्णं हिमसंचयम्॥
मन्यते सर्वमेवान्यत्सुखस्पर्शतमं तथा ॥४६॥
नरकेभ्यश्च शस्त्रेभ्यो विमुक्तो यो नराधमः॥
शस्त्राण्यन्यानि जातानि सुखस्पर्शसमानि च ॥४७॥
सुखदुःखे तु मानुष्ये त्रिदिवे केवलं सुखम्॥
नरके दुःखमेवोग्रं सततं भृगुनन्दन ॥४८॥
तृष्णा तत्र क्षुधा तत्र गन्धस्तीव्रो भयङ्करः॥
यातना विविधाः प्रोक्ता भयं तत्रातिदारुणम् ॥४९॥
दुर्गन्धिकंटकाकीर्णं तथा कुणपसंकुलम्॥
केशास्थिबहुलं भीमं नरकं दुःखमेव तु ॥५०॥
आर्तनादमहानादकाकक्रव्यादसंकुलम्॥
कृमिकीटपतङ्गाढ्यं पूयासृग्बहुलं तथा ॥५१॥
अन्योऽन्यक्लेशसंयुक्तमन्योऽन्यकर्षकारकम्॥
अन्योऽन्यताडकं घोरं तथाऽन्योन्यभयङ्करम् ॥५२॥
एवमेतेषु ते पापा नरकेषु समागताः॥
बहवः खलु याप्यन्ते मानवाः पापकारिणः ॥५३॥
यावत्तेषां न पापानि क्षयं यान्ति भृगूत्तम॥
तावत्ते न विमुच्यन्ते नरकाद् घोरदर्शनात् ॥५४॥
अत्यन्तभीमा नरकाः सुघोरा भयावहव्यालगणावकीर्णाः॥
भक्तिं वहन्तः पुरुषोत्तमस्य न यान्ति ते भार्गववंशमुख्य ॥५५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नरकयातनावर्णनन्नामैकोनविंशत्युत्तरशततमोध्यायः ॥११९॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP