खण्डः २ - अध्यायः ०१०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
नागाः प्रशस्ता धर्मज्ञ प्रमाणेनाधिकास्तु ये॥
दीर्घहस्ता महोच्छ्वासा स्वासनाश्च विशेषतः ॥१॥
निगूढवंशा मध्वाक्षा मूढा मूढोष्ठमस्तकाः॥
विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये ॥२॥
येषां चैव कराः पादा दीर्घा लाङ्गूलमेव च॥
दक्षिणं चोन्नतं दीप्तं बृंहितं जलदोपमम् ॥३॥
अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः॥
कर्णौ च विपुलौ येषां सूक्ष्मबिन्दुयुतत्वचः। ४॥
ते प्रशस्ता महाभाग ये तथा सप्तसुस्थिताः॥
दन्तच्छदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः ॥५॥
शृङ्गारवालव्यजनं वर्द्धमानाङ्कुशास्तथा॥
ते धार्या न तथा धार्या वामना मत्कुणादयः ॥६॥
हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गजाः॥
अपाकलाश्च कुब्जाश्च सद्दन्ता ये च भार्गव ॥७॥
कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः॥
अस्रुस्पृशश्च कूटाश्च शठाश्च विकटाश्च य ॥८॥
राम उवाच॥
वामनाद्यश्च ये नागाः प्रोक्ता निन्दितलक्षणाः॥
तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज ॥९॥
॥पुष्कर उवाच॥
आयामेन न संपूर्णो योतिह्रस्वो भवेद्गजः॥
वामनस्तु समाख्यातो मत्कुणो दन्तवर्जितः ॥१०॥
दशां चतुर्थीं संप्राप्य वर्धते यस्य न द्विजौ॥
स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ॥११॥
अपाकलो विशालेन दन्तेनैकेन वारणः॥
संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः ॥१२॥
प्रमाणहीनतन्नाभिः स कुब्जो वारणाधमः॥
अत्युन्नतांसः सद्दन्तः कुदन्तः स्यान्नतो बहिः ॥१३॥
वामदन्तोन्नतो नागो वामकूटश्च कथ्यते॥
दन्तौ वक्त्रस्पृशौ यस्य सोऽस्रुस्पृक्कथितो गजः ॥१४॥
एकदन्तस्तथा नागः कूट इत्यभिधीयते॥
पादयोः सन्निकर्षः स्याद्यस्य नागस्य गच्छतः ॥१५॥
स शठोध्वनि युद्धे च लक्षणज्ञैर्न्न पूजितः॥
अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम् ॥१६॥
विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः॥
राम उवाच॥
श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम् ॥१७॥
यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः॥
॥पुष्कर उवाच॥
वर्णं सत्त्वं बलं रूपं कान्तिस्संहननं जवम्॥
सप्तैतानि सदा यस्य स गजः सप्तसुस्थितः ॥१८॥
येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुंजः पिटकोऽथवापि॥
ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥५९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : December 06, 2022
TOP