संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८७

खण्डः २ - अध्यायः ०८७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः॥
द्वे च वैश्यस्तथा कामं भार्यैकामपि चान्त्यजः ॥१॥
ब्राह्मणी क्षत्रिया वैश्या शूद्री विप्रस्य कीर्तिताः॥
क्रमेण कामसक्तस्य विवाहाः परिकीर्तिताः ॥२॥
विवाहमुत्क्रमात्कृत्वा नरकं प्रतिपद्यते॥
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ॥३॥
असवर्णा तु या नारी रत्यर्थे सा प्रकीर्तिता॥
आधानं तस्य धर्मार्थं न प्रशंसन्ति साधवः ॥४॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम्॥
वैश्या प्रतोदमादद्याद्दशां चैवान्त्यजा तथा ॥५॥
उत्कृष्टवेदनेऽप्येतद्विधानं परिकीर्तितम्॥
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥६॥
न कन्याविकयं कार्यं कदाचिदपि केनचित्॥
केशविक्रयिणो यान्ति नरकानेक विंशतीन् ॥७॥
अपत्यविक्रयात्तस्य निष्कृतिर्न विधीयते॥
कन्याप्रजीवनात्किंचिन्नोपजीवति यः पुमान् ॥८॥
न तच्छुल्कं समुद्दिष्टमानृशंस्यं हि तत्कृतम्॥
कन्यादानं शचीयागो विवाहोऽथ चतुर्थिका ॥९॥
विवाहमेतत्कथितं राम कर्मचतुष्टयम्॥
दत्तामपि हरेत्कन्यां वरश्चेद्दोषभाग्भवेत् ॥१०॥
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतितेऽपतौ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥११ ॥
मृते तु देवरे देया तदभावे यदृच्छया॥
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयम् ॥१२॥
रोहिणी चेति वरुणं भगणः शस्यते सदा॥
नैकगोत्रां च वरयेन्नैकार्षीयां च भार्गव ॥१३॥
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा॥
वरयेल्लक्षणोपेतां सदा लोकद्वयेच्छया ॥१४॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥१५॥
आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु॥
तज्जः पुनात्युभयतः पुरुषानेकविंशतीन् ॥१६॥
दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्तितः॥
तज्जः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान् ॥१७॥
शुल्केन चासुरं विद्यात्स तु धर्मादृते मतः॥
परस्परेच्छया राम कन्यकावरयोस्तथा ॥१८॥
गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥१९॥
प्राजापत्यस्तथा ब्राह्मः समवर्णेषु पूज्यते॥
दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित् ॥२०॥
गान्धर्वराक्षसौ श्रेष्ठौ क्षत्त्रियस्यैव भार्गव॥
पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ॥२१॥
वैवाहिकेन्दौ कुर्वीत कुम्भकारमृदा शचीम्॥
सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ॥२२॥
तां नयेत्सरसस्तीरं नदीतीरमथापि वा॥
सर्वभूषणसंपन्ना सर्वास्त्वविधवाः स्त्रियः ॥२३॥
कौसुंभरक्तवसनाः सर्वाः स्युः शस्त्रपाणयः॥
माल्यानुलेपनैर्भक्ष्यैर्दीपैर्धूपैस्तथैव च ॥२४॥
कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्चैव शक्तितः॥
ततः शूर्पेण ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ॥२५॥
संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम्॥
वाद्यगीतेन महता द्विजवाचनकेन च ॥२६॥
गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिंदिताम्॥
त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ॥२७॥
वन्दनीयोद्वाहसमये तत्र कालं निबोध मे॥
प्रसुप्ते केशवे राम न तु कार्यं कथञ्चन ॥२८॥
न पौषे न तथा चैत्रे न चार्ककुजवासरे॥
कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्लस्य भार्गव ॥२९॥
तथा रिक्ततिथौ नैव न विष्टौ करणे तथा॥
न शुक्रेऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ॥३०॥
शशांकेऽन्यग्रहाश्चैव विवाहो न प्रशस्यते॥
अर्कार्किभौमयुक्ते भे व्यतीपातहते तथा ॥३१॥
दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते॥
तथा शिखिशिखाध्वस्ते सैंहिकेययुते तथा ॥३२॥
वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम॥
सौम्यं पित्र्यं च वायव्यं सावित्रं रौहिणं तथा ॥३३॥
उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च॥
मूहूर्ताश्च तथैतेषां शुभा अभिजिता सह ॥३४॥
मानुष्याख्यस्तथा लग्नो मानुष्याख्यस्तथांशकः॥
अमानुष्याख्ये लग्नेऽपि मानुष्याख्येंशको हितः ॥३५॥
तृतीये च तथा षष्ठे दशमैकादशाष्टमे॥
अर्कार्किभौमतनयाः प्रशस्ता न कुजोष्टमः ॥३६॥
सप्तान्त्याष्टमवर्ज्येषु शेषाः शस्ता ग्रहोत्तमाः॥
तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥३७
संकल्पविधिना कार्यो विवाहस्तदनन्तरम्॥
वैवाहिकेऽह्नि कर्तव्यास्तथैव च चतुर्थिके ॥३८॥
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः॥
अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ॥३९॥
पर्ववर्ज्यं सदा गच्छेत्स्त्रीणां वा संस्मरन्वरम्॥
सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ॥४०॥
परस्परातिक्रमणं दंपत्योः परिवर्जयेत्॥
निष्कारणं तथा राम न कार्यमधिवेदनम् ॥४१॥
अप्रजा रोगिणी मूढा तथा च कलहप्रिया॥
कन्याप्रजा तथा या च या चैवाप्रियवादिनी ॥४२॥
एताः खल्वधिवेत्तव्या गृहकार्यपराङ्मुखीः॥
अधिविन्ना विशेषेण पालनीया सुतं भवेत् ॥४३॥
धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत्॥
धर्माधर्मौ समौ राम दम्पत्योरुभयात्मकौ ॥४४॥
पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य॥
धर्मार्थकामान्सततं द्विजेन्द्र तान्रक्षयेत्सम्यगथानया स्वान् ॥४५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्ताशीतितमोध्याम् ॥८७

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP