खण्डः २ - अध्यायः ०३६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम्॥
पतिव्रतानां धर्मज्ञ पूज्यास्तस्यापि तास्सदा ॥१॥
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम्॥
यथा विमोक्षितो भर्ता मृत्युपाशावृतः स्त्रिया ॥२॥
मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा॥
अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम् ॥३॥
सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः॥
सिद्धार्थकैर्हूयमाना सावित्री प्रत्यहं द्विज ॥४॥
शतसंख्यैश्चतुर्थ्यां तु मासाद्दशदिने गते॥
काले तु दर्शयामास स्वां तनुं मनुजेश्वरे ॥५॥
सावित्र्युवाच॥
राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम्॥
मद्दत्तां यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान् ॥६॥
पुष्कर उवाच ॥एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव॥
जगामादर्शनं देवी खे यथा राम चञ्चला ॥७॥
मालव्या नाम तस्यास्ति राज्ञः पत्नी पतिव्रता॥
सुषाव तनयां काले सावित्रीमेव रूपतः ॥८॥
सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः॥
सावित्र्येव भवेदेषा जगाद नृपतिर्द्विजान् ॥
कालेन यौवनं प्राप्तां ददौ सत्यवते पिता॥
नारदस्तु ततः प्राह राजानं दीप्ततेजसम् ॥१०॥
क्षीणायुरेष वर्षेण भविष्यति नृपात्मजः॥
प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः ॥११॥
तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम॥
सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम् ॥१२॥
नारदस्य तु वाक्येन दूयमानेन चेतसा॥
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने ॥१३॥
राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः॥
तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम् ॥१४॥
चतुर्थेऽहनि मर्तव्यं यदा सत्यवता द्विज॥
श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा ॥१५॥
चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने॥
चारुपुष्पफलाहारं सत्यवान्प्रययौ वनम् ॥१६॥
श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा॥
सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम् ॥१७॥
चेतसा दूयमानेन गूहमाना च तद्भयम्॥
वने पप्रच्छ भर्तारं द्रुमांश्च समृगांस्तथा ॥१८॥
आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मपलाशनेत्राम्॥
सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने नृवीरः ॥१९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षट्त्रिंशत्तमोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : December 08, 2022
TOP