संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२५

खण्डः २ - अध्यायः १२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
ॐकारपूर्विका नाम महाव्याहतयः स्मृताः॥
सर्वकल्मषनाशिन्यः सर्वकर्मप्रदास्तथा ॥१॥
आज्याहुतिसहस्रेण देवमाराधयेद्द्विज॥
मनसः कांक्षितं राम मनसेप्तितकामदम् ॥२॥
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये॥
धान्यैः सिद्धार्थकैश्चैव सर्वकामकरं तथा ॥३॥
औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते॥
दश चैवान्नकामस्य पयसा शान्तिमिच्छतः ॥४॥
अपामार्गसमिद्भिश्च कामयन्कनकं बहु॥
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि च ॥५॥
जातीपुष्पाणि जुहुयाद्वामार्थी तिलतण्डुलम्॥
वशीकर्मणि शाखोटवाशापामार्गमेव च ॥६॥
वसासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव॥
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ॥७॥
सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विजः॥
सहस्रशस्तु जुहुयात्प्रजावशगतो भवेत् ॥८॥
वस्त्रकामस्य पुष्पाणि दूर्वा व्याधिविनाशनी॥
ब्रह्मवर्चसकामस्य वामाग्रं च विधीयते ॥९॥
प्रत्यङ्गिरेप्सुर्जुहुयात्तुषकण्टकभस्मभिः॥
विद्वेषणे च पक्षाणि काककौशिकयोस्तथा ॥१०॥
कापिलं तु घृतं हुत्वा तथा चन्द्रग्रहे द्विज॥
वचाचूर्णेन संपीतांस्तानानीय च तां वचाम् ॥११॥
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः॥
सूर्योदयेऽर्काभिमुखं पुत्रकामो जपेन्नरः ॥१२॥
एकादश्यां गुग्गुलं लौहं बैल्वं खादिरमेव वा॥
द्विषन्तन्त्वां बधानीति निखनेद्रिपुवेश्मनि ॥१३॥
उच्चाटनमिदं कर्म शत्रूणां कथितं तव॥
शक्रं ध्रुवं भूपतये महाव्याहृतिभिर्भवेत् ॥१४॥
सूर्यस्त्वेति तथा मन्त्रं ज्ञेया प्रत्यङ्गिरा परा॥
एतेनौदुम्बरैरिध्मैर्देवं वर्षापयेद्ध्रुवम् ॥१५॥
अहोरात्रं जले जप्त्वा चक्षुष्मानित्ययं द्विज॥
प्रणष्टचक्षुर्धर्मज्ञ योगमाप्नोति चक्षुषः ॥१६॥
उपप्रयन्तमित्येतद्धुत्वा विप्रो महानसे॥
अनुवाकं महाभाग नित्यसन्नेन युज्यते ॥१७॥
तनूपाग्नेऽसि इति च दूर्वा हुत्वा रुजान्वितः॥
व्याधिमोक्षमवाप्नोति नात्र कार्या विचारणा ॥१८॥
इहैव तेभ्यः पतितं गृहीत्वा गोमयं द्विज॥
घृताज्यमधुसंयुक्तं हुत्वा धेनुं तु तां लभेत् ॥१९॥
एष ते रुद्रभागेति हुत्वा राम गवेधुकाम्॥
अर्धर्चेन तथाप्नोति धनं नास्त्यत्र संशयः ॥२०॥
अर्धर्चेन द्वितीयेन क्षेत्रमध्ये बलिं हरेत्॥
मूषिकाशलभोत्पाते सुरामांसासवादिभिः ॥२१॥
भेषजमिति मन्त्रेण दध्याज्यमधुहोमकः॥
चतुष्पदानां सर्वेषामुपसर्गं विनाशयेत् ॥२२॥
त्र्यम्बकं यजामहेति होमः सर्वार्थसाधकः॥
कन्यानाम गृहीत्वा च कन्यालाभकरः परः ॥२३॥
भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते॥
धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे ॥२४ ॥
शून्ये शिवालये वापि शिवात्कामानवाप्नुयात्॥
हुत्वा च गुग्गुलं राम स्वयं पश्यति शङ्करम् ॥२५॥
अकृत्या इति चैवाष्टौ ऋचो हुत्वा घृतादिभिः॥
अन्वहं त्वापदां नाशं स्वकुले कुरुते धुवम् ॥२६॥
भवत्युत्तरवादी च जप्त्वा च विदसीत्यृचम्॥
अग्नेस्तनोरिति तथा हुत्वा च तिल तण्डुलैः ॥२७॥
सहस्रशस्तु धर्मज्ञ भवेत्सर्वातिथिर्नरः॥
युञ्जते मन इत्येतदनुवाकं तु वैष्णवम् ॥२८॥
सायं प्रातः समासीत दीर्घमायुरवाप्नुयात्॥
दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत् ॥२९॥
विष्णोरराटमित्येतत्सर्वबाधाविनाशनम्॥
रक्षोघ्नं च यशस्यं च तथैव विवर प्रदम् ॥३०॥
अयन्नो यज्ञ इत्येतत्संग्रामे विजयप्रदम्॥
इदमापः प्रवहत स्नाने पापापनोदनम् ॥३१॥
दैवांश इति दैवेतदभिचारेषु योजयेत्॥
व्याधिघातः समिद्भिस्तु राजिकासृग्विषैस्तथा ॥३२॥
यक्ष्माहीति तथा हुत्वा बहिर्निर्गम्य मानवः॥
उपश्रुतिं तु गृह्णीयात्सा तस्यावितथा भवेत् ॥३३॥
अग्ने पवस्वेति हुतं ब्रह्मवर्चसकारकम्॥
उदुत्यं चित्रमित्यस्य कर्म व्याहतिवद्भवेत् ॥३४॥
यस्मान्नरादभ्यधिको नरो भवितुमिच्छति॥
स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम् ॥३५॥
भवत्यभ्यधिकस्तस्माद्विद्यया यशसा श्रिया॥
तथा होमादनेनैव दासलाभमवाप्नुयात् ॥३६॥
विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम्॥
कन्याग्रे निखनेद्द्वारि ततस्सास्मै प्रदीयते ॥३७॥
देवस्येति तरीतेन हुतेनैवान्नवान्भवेत्॥
वाजस्यसति चैतेन हुत्वाज्यं सप्तभिर्द्विजः ॥३८॥
यदेव जुहुयात्पश्चात्तदेवाक्षयमाप्नुयात्॥
अग्ने अच्छेति जुहुयाद्धनकामो द्विजोत्तमः ॥३९॥
तिलैर्यवैश्च धर्मज्ञस्तथापामार्गतण्डुलैः॥
सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विजः ॥४०॥
तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत्॥
पौर्णमास्यां तथा हुत्वा मेघं राजानमित्यपि ॥४१॥
उपस्थानं तथा कृत्वा दत्त्वा चान्नं द्विजन्मने॥
सोमयाजी भवेद्राम नात्र कार्या विचारणा ॥४२॥
एष ते निर्ऋतेत्याभिरभिचारककर्मणा॥
गृहान्नैर्ऋत्यके भागे हुत्वा स्नात्वा नदीजले ॥४३॥
कापिलाद्गोमयान्नित्यं पञ्चगव्याभिषेचितम्॥
कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः ॥४४॥
रुद्राणां च तथा जप्यं सर्वाघविनिषूदनम्॥
सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम् ॥४५॥
अजाविकानामश्वानां कुञ्जराणां तथा गवाम्॥
मनुष्याणां नरेन्द्राणां बालानां योषितामपि ॥४६॥
ग्रामाणां नगराणां च देशानामपि भार्गव॥
अनिद्रुतानां धर्मज्ञ व्याधितानां तथैव च ॥४७॥
मरणे समनुप्राप्ते रिपुजे च तथा भये॥
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥४८॥
कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति॥
सक्तुयावकभैक्ष्याशी नक्तं मनुजसत्तम ॥४९॥
बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया॥
मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ॥५०॥
सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम्॥
हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ॥५१॥
गुग्गुलोः कणिकाभिस्तु सौभाग्यं विन्दते ध्रुवम्॥
कृत्वाष्टपत्रं कमलं तन्मध्ये शशिनं लिखेत् ॥५२॥
लवणेन ततस्तस्य पूजां कृत्वा यथाविधि॥
सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ॥५३॥
जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः॥
देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ॥५४॥
जीमूतस्यैव भवति मन्त्रं जयकरं द्विज॥
पयस्वतीति पयसा तथा हुत्वा सहस्रशः ॥५५॥
ब्रह्मवर्चसमाप्नोति दध्ना वा भृगुनन्दन॥
दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ॥५६॥
तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु॥
बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ॥५७॥
स्वस्ति न इन्द्रेत्येतं च सर्वबाधाविनाशनम्॥
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ॥५८॥
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलम्॥
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ॥५९॥
बहित्वदन्यदित्येतत्कर्म व्याहृतिवद्भवेत्॥
भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ॥६०॥
हंसः शुचिषदित्येतज्जपंस्तोयेऽघनाशनम्॥
चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ॥६१॥
देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते॥
जप्त्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ॥६२॥
वसन्तेति च हुत्वाज्यमादित्याद्धनमाप्नुयात्॥
शिवो भवस्वाग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ॥६३॥
याम्येन इति चैतच्च तस्करेभ्यो भयावहम्॥
दंष्ट्राभ्यामिति चैतच्च व्रीहिभिर्जुहुयान्नरः ॥६४॥
यो अस्मभ्यमरातीयान्हुत्वा कृष्णतिलैर्नरः॥
सहस्रशोऽभिचारात्तु मुच्यते विकृतिं द्विजः ॥६५॥
अन्नेनान्नपतेत्वेतद्धुत्वा चान्नमवाप्नुयात्॥
सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवेत् ॥६६॥
मनः स्वतीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात्॥
रोपयेत वचां राजा चन्द्रे ग्रस्ते जलाशये ॥६७॥
या ओषधय इत्येतज्जपंस्तामुद्धरेत्पुनः॥
तिरात्रोपोषितः कूर्चां कृत्वा तां ताम्रभाजने ॥६८॥
तेनैव मन्त्रितां चन्द्रं दृष्ट्वा मासं सदा जपेत्॥
सकापिलघृतक्षीरे पीत्वा श्रुतिधरो भवेत् ॥६९॥
एतमेवौषधीपाने सदा मन्त्रं जपेद्द्विज॥
सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ॥७०॥
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता॥
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥७१॥
इह गावः प्रजायध्वं मन्त्रोऽयं पुष्टिवर्धनः॥
हुतस्तु सर्पिषा दध्ना पयसा पायसेन वा ॥७२॥
शतं व इति चैतेन हुत्वा पर्णफलानि वै॥
आरोग्यं चिरमाप्नोति दीर्घमाप्नोति जीवितम् ॥७३॥
ओषधीः प्रतिमोदध्वं जपेत्कर्मकवत्सदा॥
लवने बीजवापे वा विशेषात्सिद्धिमाप्नुयात् ॥७४॥
सर्वौषधीः समानीय सर्वव्रीहियुतास्ततः॥
क्षेत्रमध्ये द्विजो हुत्वा कृषिमाप्नोति पुष्टिदाम् ॥७५॥
अपामार्गं यवं धान्यमोषधीरिति मातरः॥
गोकामश्चाश्वकामो वा तं कामं शीघ्रमाप्नुयात् ॥७६॥
ओषधीः समजन्तेति हुत्वा चाज्येन मानवः॥
भयमाप्नोति नैवेह यातुधानभवं क्वचित् ॥७७॥
ग्रन्थावतीति चैतेन पायसं जुहुयाद्द्विज॥
सर्वत्र शान्तिमाप्नोति नात्र कार्या विचारणा ॥७८॥
सीरां युञ्जति इत्येतद्धुत्वा कृषिमवाप्नुयात्॥
उच्छुग्मा इति चैतेन बन्धनस्थो विमुच्यते ॥७९॥
युवा सुवासा एतेन वासांस्याप्नोत्यसंशयम्॥
यस्मिँश्चापः स्थितः काष्ठे तद्गृहीत्वा विचक्षणः ॥८०॥
सायं यक्ष्मेति मन्त्रेण शत्रोस्तु निखनेत्पदे॥
कुष्ठी भवति चाषस्य पक्षं गृध्रस्य वा पुनः ॥८१॥
सहस्रमन्त्रितं कृत्वा शत्रोः प्रतिकृतिं ततः॥
तेन बद्ध्वा ततो मृत्युं शत्रुः प्राप्नोत्यसंशयम् ॥८२॥
शत्रुं तु नाशयत्याशु सर्वातङ्कविनाशनम्॥
प्रपतन्तीति च ऋचा जुहुयादोषधीर्द्विज ॥८३॥
मिष्टान्नभागी भवति भाण्डानां चैव रक्षिता॥
मा मा हिंसीति चाज्येन हुतं रिपुविनाशनम् ॥८४॥
कान्तारमध्वरस्येति मधुसैन्धवसंयुताम्॥
सौभाग्यकामो जुहुयात्स्त्रियो वा पुरुषस्य वा ॥८५॥
होमो द्रप्सश्च स्कन्देति वश्यकामस्य शस्यते॥
नमोस्तु सर्पेभ्य इति पायसं सघृतं नरः ॥८६॥
नागस्थानेति जुहुयात्सुवर्णं प्राप्नुयाद्बहु॥
कृणुष्व पाज इत्येतदभिचारविनाशनम् ॥८७॥
अग्ने तिष्ठेति जुहुयाद्द्रव्याः खल्वभिचारकाः॥
शत्रोर्नाम गृहीत्वा तु शत्रुं कुर्यात्तदा वशे ॥८८॥
दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मन्त्रतः॥
ग्रामे जनपदे वापि मरकं तु शमं नयेत् ॥८९॥
रोगार्तो मुच्यते रोगात्तथा दुःखात्तु दुःखितः॥
औदुम्बर्यस्तु समिधो मधुमान्नो वनस्पतिः ॥९०॥
हुत्वा सहस्रशो राम धनमाप्नोति मानवः॥
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ॥९१॥
योगादिति तथा हुत्वा देवं वर्षापयेद्ध्रुवम्॥
अपः पिबन्निति तथा हुत्वा दधिघृतं मधु ॥९२॥
प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरम्॥
अग्निर्देवतेति तथा यवमुष्ट्ययुतं द्विज ॥९३॥
हुत्वा श्रद्धेयवाक्यस्तु सर्वत्रैवाभिजायते॥
अयं पुरेति जुहुयादनुवाकेन मानवः ॥९४॥
घृतपूर्णानि पद्मानि सहस्रं भृगुनन्दन॥
कन्यां तां समवाप्नोति यामसौ मनसेप्सति ॥९५॥
श्रियमाप्नोति च तथा धनमाप्नोत्यनुत्तमम्॥
नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनम् ॥९६॥
सर्वशान्तिकरं प्रोक्तं महापातकनाशनम्॥
रक्षोघ्नं च यशस्यं च श्रीरायुःपुष्टिवर्धनम् ॥९७॥
अभ्यवोचदित्यनेन रक्षा स्याद्व्याधितस्य तु॥
सिद्धार्थकानां क्षेपेण पथि चैतत्सदा पठेत् ॥९८॥
क्षेमेण स्वगृहानेति सर्वबाधाविवर्जितः॥
असौ यस्ताम्र इत्येतत्पठेन्नित्यं दिवाकरम् ॥९९॥
उपतिष्ठेत धर्मज्ञ सायंप्रातरतन्द्रितः॥
अन्नमक्षय्यमाप्नोति दीर्घमायुश्च विन्दति ॥१००॥
प्रमुञ्चन्तो न इत्येतत्षड्भिरायुधमन्त्रणम्॥
रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ॥१०१॥
मानो महान्त इत्येतद्बालानां शान्तिकारकम्॥
नमो हिरण्यबाहवे इत्यनुवाक् हर्षकारकम्॥
राजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ॥१०२॥
नमो वः किरिकेभ्यश्च पद्मलक्षे हुते नरः॥
राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा॥
बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ॥१ ०३ ।
इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः॥
शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ॥१०४॥
अनेनैव तु मन्त्रेण दूर्वाहोमेन मानवः॥
सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ॥१०५॥
वरारोहेण इध्मानां याते रुद्रशिवा-तनूः॥
हुत्वाऽयुतं तु धर्मज्ञं पुत्रमाप्नोत्यभीप्सितम् ॥१०६॥
असंख्याताः सहस्राणि मन्त्रैस्तदभिचारकम्॥
नमोऽस्तु रुद्रेभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ॥१ ०७॥
रक्तोष्णीषो रक्तवासा रक्तमाल्यानुलेपनः॥
अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ॥१ ०८॥
प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन॥
कृत्यामुत्थापयेज्जातां रक्तकुम्भेन पूजयेत् ॥१ ०९॥
पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत॥
आशुः शिशान इत्येतदायुधानां च रक्षणम् ॥११०॥
संग्रामे कथितं राम सर्वशत्रुविनाशनम्॥
इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ॥१११॥
स्नातस्तोयेऽयुतं जप्त्वा हुत्वा दशशतं ततः॥
साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सितम् ॥११२॥
वाजश्च मेति जुहुयात्सहस्रं पञ्चभिर्द्विज॥
आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ॥११३॥
मनोभवस्वेति गृहे तथा हुत्वा विचक्षणः॥
वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ॥११४॥
अग्न आयूंषि चैतेन हुत्वेवाज्यमतन्द्रितः॥
सहस्रशस्तु धर्मज्ञ वशं नाप्नोति केनचित् ॥११५॥
अपाम्फेनेति लाजाभिर्हुताभिर्जयमाप्नुयात्॥
भद्रा इतीन्द्रियैर्हीनो जपन्स्यात्सकलेन्द्रियः ॥११६॥
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम्॥
अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥११७॥
ब्रह्मराजभ्यामिति च कर्मारम्भेषु वै जपेत्॥
सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्नुते ॥११८॥
नूनपादोसुर इति न्यग्रोधे द्विजसत्तम॥
अशोकपुष्पान्सघृताञ्जुहुयाल्लक्षसंमितान् ॥११९॥
ततो दानवकन्यां तु स्वयमेवेह पश्यति॥
अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ॥१२०॥
ददाति सा ततो रुक्मं तूष्णीं तत्रेच्छया भवेत्॥
अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ॥१२१॥
बिलं प्रवेशयेद्राम नात्र कार्या विचारणा॥
शून्यायतनमासाद्य माषमिश्रमथौदनम् ॥१२२॥
कया नश्चित्र इत्येतज्जपंस्तु जुहुयान्नरः॥
हुते शतसहस्रे तु तस्य विद्याधरः स्वकाम् ॥१२३॥
सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति॥
संवत्सरोशीत्यनया घृतं हुत्वा विचक्षणः ॥१२४॥
यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः॥
केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ॥१२५॥
ऐन्द्राग्नं वर्म इत्येतद्रणे सन्नाहबन्धनम्॥
धननागेति मन्त्रश्च धनुर्ग्रहणिकः परः ॥१२६॥
वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिमन्त्रणे॥
मन्त्रश्चाहिरिवेत्येतत्तृणमन्त्रः प्रकीर्तितः ॥१२७॥
युञ्जतीति तथाश्वानां योजने मन्त्र उच्यते॥
आशुः शिशान इत्येतद्गात्रालम्भनमुच्यते ॥१२८॥
विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः॥
आजंघन्तीति चाश्वानां ताडनीय उदाहृतः ॥१२९॥
यः सेना अभीत्वरीति परसैन्यमुखो जपेत्॥
डुण्डुभ इति वाप्येतड् डुण्डुभीताडने भवेत् ॥१३०॥
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयो भवेत्॥
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥१३१॥
रथमुत्पादयेच्छ्रीघ्रं संग्रामे विजयप्रदम्॥
आकृष्णेति तथैतस्य कर्म व्याहतिवद्भवेत् ॥१३२॥
युवं च्यवानमेतच्च भयेषु भयनाशनम्॥
घृताहुतिसहस्रेण नात्र कार्या विचारणा ॥१३३॥
मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते॥
स राज इति चैतेन देवताराधनं नरः ॥१३४॥
कुयाद्भार्गव सर्वत्र होमजप्यैर्यथेप्सितम्॥
शिवसङ्कल्पजप्येन समाधिं मनसो लभेत् ॥१३५॥
पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्॥
हुत्वा शीघ्रमवाप्नोति श्रियं ते पद्ममालिनीम् ॥१३६॥
उभावपि त इत्येतद्रूपकामस्य शस्यते॥
यदाबध्नन्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ॥१३७॥
सहस्रकृत्वः कनकं धारयेद्रिपुनाशनम्॥
गुह्यकानां च सर्वेषां तथा निर्वहणं परम् ॥१३८॥
इमं जीवेभ्य इति च सीतालोष्टं चतुर्दिशम्॥
क्षिपेद्गृहे तदा तस्य न स्याच्चोरभयं निशि ॥१३९॥
परी मे गामनेषतेति वशीकरणमुत्तमम्॥
हर्तुमप्यागतस्तस्य वशीभवति मानवः ॥१४०॥
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति॥
यस्य धर्मस्य वशगः सोऽस्य शीघ्रं भविष्यति ॥१४१॥
शन्नोमिति त इत्येतत्सदा सर्वत्र शान्तिदम्॥
मनसः काममाकूतिः पुष्टिकामस्य शस्यते ॥१४२॥
चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम्॥
षट्केन च तथा होमः सर्वदेवप्रसादनः ॥१४३॥
औदार्येणोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते॥
विवृतं चैतदाज्येन हुतं शूलापहं भवेत् ॥१४४॥
गणानां त्वा गणपतिं होम कृत्वा चतुष्पथे॥
वशे कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ॥१४५॥
वैकङ्कतेध्महोमे च समास्त्वाग्न इतीत्यपि॥
यशसा योगमाप्नोति विपुलं नात्र संशयः ॥१४६॥
अग्निर्मूर्धेतिमन्त्रेण हुत्वैवाज्यं हुताशने॥
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा ॥१४७॥
एवं हि देवतालिङ्गैस्तथा राम यथा स्वकैः॥
हुतैः प्रसादयेदिष्टां देवतां नात्र सशयः ॥१४८॥
हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने॥
शन्न आपश्च धन्वन्याः सर्वपापहराः स्मृताः ॥१४९॥
शन्नो देवीरभिष्टये चेति शान्तिकरः परः॥
एकचक्रेति मन्त्रेण हुतेनाज्येन भार्गव ॥१५०॥
ग्रहेभ्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः॥
याज्यानुवाकौ वृक्षाणां समाग्ने वर्च इत्यपि ॥१५१॥
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा॥
गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः ॥१५२॥
गाः समाप्नोति धर्मज्ञ नात्त्र कार्या विचारणा॥
उदुत्तमं वरुण इति जुहुयाद्भृगुनन्दन ॥१५३॥
नदीवाहतडागेषु सुकृतेषु द्विजोत्तम॥
संवदत्तां हिरण्यकोशं रूपं कृत्वा तथैव च ॥१५४॥
प्रवादसां सेति चैव गृहे यज्ञो विधीयते॥
देवेभ्यो वनस्पत इति ब्रह्मयज्ञो विधीयते ॥१५५॥
रात्रीयख्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्तिताः॥
शमे शमीकं शम्याकामश्वत्थं प्लक्षमेव च ॥१५६॥
उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्॥
यां कुर्याद्दर्भपिंजूलां दूर्वां प्राचीनगामिनीम् ॥१५७॥
सीतां लोष्टं सुवर्णं च तथा वल्मीकमृत्तिकाम्॥
सं वः सृजामीति द्वाभ्यां बीजान्यप्सु विनिक्षिपेत् ॥१५८॥
या ओषधय इत्येतदनुवाकं ततो जपेत्॥
अपामिवेद्विति ततः प्रोक्षणं तु विधीयते ॥१५९॥
इन्नोभयमितीत्येतच्चाष्टर्चं जुहुयाद्द्विजः॥
यद्देवा देवहेडनमृचस्तिस्रस्तथैव च ॥१६० ॥
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः॥
सर्वोत्पातप्रशमनं कर्मैतत्परिकीर्तितम् ॥१६१॥
गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम्॥
सर्वपापप्रशमनी सर्वकर्मकरी तथा ॥१६२॥
एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ॥
अतः परं वच्मि नृवीर साम्नां तन्मे शृणुष्वायतलोहिताक्ष ॥१६३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥१२५॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP