खण्डः २ - अध्यायः १७६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥राम उवाच ॥
यात्राविधानमाचक्ष्व सर्वधर्मभृतांवर॥
जिगीषूणां नरेन्द्राणां सिद्धिकारणमुत्तमम् ॥१॥
पुष्कर उवाच॥
सप्ताहेन यदा यात्रा भविष्यति महीपतेः॥
तदा दिने तु प्रथमे पूजनीयो विनायकः ॥२॥
मोदकैरक्षतैर्दध्ना कुसुमैश्च तथा फलैः॥
गन्धर्वास्त्रैरलङ्कारैर्धूपैर्दीपैर्मनोहरैः ॥३॥
द्वितीयेऽन्हि ततः कार्यं सर्वदिक्पालपूजनम्॥
दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥४॥
शय्यां कुशाभिः कुर्वीत सितवस्त्रोत्तरच्छदाम्॥
विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥५॥
तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः॥
हरं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च ॥६॥
पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम्॥
नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥७॥
एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः॥
स्वयं दक्षिणपार्श्वे च मन्त्रमेतदुदीरयेत् ॥८॥
नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च॥
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥९॥
भगवन्देवदेवेश शूलभृद्वृषवाहन॥
इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥१०॥
यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः॥
हृदि न्यस्य कुशान्राज्ञः प्रयतस्तु पुरोहितः ॥११॥
ततः स्वप्ने शुभे दृष्टे यात्रा देया तु नान्यथा॥
तृतीयेऽहनि संप्राप्ते देवं दिङ्नाथमर्चयेत् ॥१२॥
एकमेव महाभाग दिननाथं तथा ग्रहम्॥
यां दिशं नृपतिर्गच्छेन्नाथं तस्यास्तथैव ताम् ॥१३॥
चतुर्थेऽहनि संप्राप्ते ग्रहयागो विधीयते॥
पञ्चमेऽहनि संप्राप्ते सर्वयागस्तथैव च॥
देवतानां स्वनगरे कृता यासां तथालयाः ॥१४॥
तासां संपूजनं कार्यं स्वपुरे ये तथा स्थिताः॥
तत्रैव रात्रौ भूतानां कर्तव्यं च तथार्चनम् ॥१५॥
एकवृक्षेषु चैत्येषु चत्वराट्टालकेषु च॥
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च ॥१६॥
नदीतीरेषु शैलेषु देवतायतनेषु च॥
तेषां संपूजनं कृत्वा स्वगृहे तान्समर्चयेत् ॥१७॥
तत्र कृत्वा ततो वाच्याः प्रमथा भूभुजा स्वयम्॥
वासुदेवस्य देवस्य तथा संकर्षणस्य च ॥१८॥
प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च॥
कीनाशशक्रवरुणधनेशानां तु ये गणाः ॥१९॥
वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये॥
ग्रहाणामथ ऋक्षाणां स्कन्दस्य च महाबलाः ॥२०॥
विनायकस्य देवस्य देवतानां गणाश्च ये॥
दैत्यानां राक्षसानां च सर्वेषामनुगाश्च ये ॥२१॥
महाबला महाकाया महासत्त्वा महाब्रताः॥
अणिमा महिमा प्राप्तिः प्राकाम्येन च संयुताः ॥२२॥
ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथोदये॥
यत्र कामावसायित्वात्तथा येषां च विद्यते ॥२३॥
एवमष्टगुणैश्वर्यसंयुता भीमविक्रमाः॥
नानासत्त्वशिरोग्रीवा नानाप्रहरणायुधाः ॥२४॥
नानाविरागवसना नानासत्त्ववपुर्धराः॥
तथा नानाविधाहारा महाचेष्टा महाबलाः ॥२५॥
भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः॥
प्रमथाः परिगृह्णन्तु उपकारं नमोऽस्तु वः॥
सपुत्रामात्यभृत्योऽहं सदारः शरणं गतः ॥२६॥
रक्षन्तु मां महाभागा गृहे युद्धे तथाध्वनि॥
चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ॥२७॥
स्वप्ने शुभाशुभं वापि कथयध्वं समाहिताः॥
विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम् ॥२८॥
विनिवृत्तेन दातव्यः स च यत्नेन भूभुजा॥
पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ॥२९॥
षष्ठेऽहनि जयस्नानं कर्तव्यं च तथा भवेत्॥
विधिरस्याभिषेकार्थः सर्व एव विधीयते ॥३०॥
ततो यात्रादिने प्राप्ते क्षौरकर्म विवर्जयेत्॥
मुद्रणं भेदनं चैव तथा च नखकृन्तनम् ॥३१॥
अभ्यङ्गं गृहकार्यं च क्रोधशोकौ च कङ्कतम्॥
यातव्यं येन तेनाथ तदुक्तं स्नानमाचरेत् ॥३२॥
स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः॥
चित्राभरणवान्राजा दूर्वापल्लवलाच्छनः ॥३३॥
पूजयित्वा महाभागं देवदेवं त्रिविक्रमम्॥
जुहुयाच्च तथा वह्नौ सुसमिद्धे पुरोहितः ॥३४॥
आयुष्यमभयं चैव तथा स्वस्त्ययनं गणम्॥
शर्मवर्मगणं चैव तथा प्रतिरथं शुभम ॥३५॥
शकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च॥
तथाग्निलक्षणोत्पत्तौ शुभे यायान्महीपतिः ॥३६॥
नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्तितम्॥
तदेव नृपतिः प्राश्य यात्रां विद्याद्यथाविधि ॥३७॥
अहृद्यं मक्षिकाकेशकीटयुक्तं विवर्जयेत्॥
दग्धे च वर्जयेद्यात्रां देया भवति चान्यथा ॥३८॥
ततस्तु राजलिङ्गानां चायुधानां तथैव च॥
नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत् ॥३९॥
दैववित्प्रयतो भूत्वा राजा वाथ पुरोहितः॥
तेषां संपूजनं कृत्वा दैवज्ञं सपुरोहितम् ॥४०॥
धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान्॥
ततः पुण्याहघोषेण द्विजानां हतकल्मषः ॥४१॥
मङ्गलालम्भनं कृत्वा मन्त्रमेतं निशामयन्॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥४२॥
लोकपालाः सगन्धर्वा नद्यः शैला मही द्विजाः॥
अग्निः स्वाहा स्वधा होमः स्कन्दो ब्रह्मा प्रजापतिः ॥४३॥
मुहूर्तास्तिथयो भानि वेदाः सायनवत्सराः॥
गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते ॥४४॥
जगत्सृजोऽथ या सिद्धिर्बभूव ब्रह्मणः पुरा॥
जगज्जिष्णोश्च या विष्णोः सिद्धिर्यासीत्त्रिविक्रमे ॥४५॥
असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या॥
सिद्धिस्त्रिदर्शवृद्ध्यर्थं त्रिपुरान्तकृतः पुरा ॥४६॥
शक्रे वृत्रवधे यावत्स्कन्दे देवारिसंक्षये॥
तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा ॥४७॥
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः॥
इति चोक्त्वा शुभां वाचं गृहीत्वा सशरं धनुः ॥४८॥
धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वयम्॥
तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम् ॥४९॥
पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम्॥
पदद्वात्रिंशकं गत्वा विष्णुप्राच्यादिषु त्वथ ॥५०॥
नागं रथं हयं चैव युञ्जाने चारुहेत्क्रमात॥
आरुह्य सुमना गच्छेद्वाद्यघोषेण भूरिणा ॥५१॥
स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत्॥
मङ्गलानि ततः पश्यन्स्पृञ्छृण्वञ्शनैर्व्रजेत् ॥५२॥
क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन॥
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥५३॥
ततः क्रमेण गच्छेच्च परदेशं महीपतिः॥
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥५४॥
त्रिरात्रमुषितो गच्छेद्भूयो नक्षत्रसम्पदा॥
यवसैन्धवतोयानां रक्षको विषदूषणात् ॥५५॥
परानभिमुखो गच्छेत्प्रभूतयवसैन्धवः॥
स्वैरचंक्रमणं शय्यां भाण्डप्रक्षेपणं तथा ॥५६॥
भोजन तं सुखं कुर्यात्प्रतिलोमं न चाचरेत॥
राजाप्यमित्रदेशे तु देशाचारं न लंघयेत् ॥५७॥
देवतापूजनं कुयार्न्नोच्छिंद्याद्दावमत्र तु॥
कुलस्त्रियं च तन्वीं च वृद्धां नैवापमानयेत ॥५८॥
कुलीनमभिनिन्देत्तु न वै नृपतिवंशजम्॥
न कर्णनासाच्छेदांश्च न तथा नेत्रभेदनम्॥
कालविन्मन्त्रिभिषजोर्वाक्यं कुर्यान्महीपतिः ॥५९॥
ततः क्रमात्प्राप्य पुरीं स्वकीयां बलिं तु दद्यादधिकां पुरोक्ताम्॥
कुर्यान्महीं यूपसुरालयांकां स्वर्लोकमिच्छन्पृथिवीं समग्राम् ॥६०॥
इति श्रीविप्णु० द्वि० मा० व० स० यात्राविधिनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥१७६॥
N/A
References : N/A
Last Updated : December 21, 2022
TOP