संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५२

खण्डः २ - अध्यायः १५२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
राजा तु जन्मनक्षत्रे प्रति मासं समाचरेत्॥
जन्मनः क्षालनं कर्म यत्तत्पूर्वं मयेरितम् ॥१॥
पुष्पस्नानं ततः कुर्यात्प्रतिमासं नराधिपः॥
संक्रान्तौ पूजयेत्सूर्यं बालमिन्दुं तथैव च ॥२॥
ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात्॥
अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ॥३॥
पूजयेच्चतुरो मासान्प्रसुप्तं मधुसूदनम्॥
प्रोष्ठपादामले रक्षेत्पूजयेच्च शतक्रतुम् ॥४॥
नवम्यामाश्वयुच्छुक्ले भद्रकालीं च पूजयेत्॥
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा ॥५॥
संवत्सरात्कोटिहोमं कुर्याच्च घृतकेवलम्॥
राज्यसंवत्सरग्रन्थौ कुर्यात्तद्रुद्रपूजनम्॥
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि॥
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समाग्रां वसुधां प्रशास्ति ॥७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सांवत्सरिक वर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥१५२॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP