खण्डः २ - अध्यायः ०४७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच ॥
नित्यं नैमित्तिकं काम्यं शान्तिकर्म निबोध मे॥
पञ्चमीषु च सर्वासु श्रीधरं पूजयेद्भृशम् ॥१॥
श्रियश्च पूजनं कार्यं हयराज्ञस्तथैव व॥
रामोच्चैःश्रवसो नित्यं गन्धमाल्यानुलेपनैः ॥२॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा॥
शरद्वसन्तयोः कार्यमेकदन्तस्य पूजनम् ॥३॥
प्रतिपत्पञ्चमी षष्ठी सप्तमी द्वादशी तथा॥
प्रशस्तास्तिथयो राम सूर्यवारो विशेषतः ॥४॥
कृत्तिकां रोहिणीं भाग्यं चार्यम्णमश्विनीं तथा॥
त्वाष्ट्रं सावित्रमादित्यं वायव्यं च भृगूत्तम ॥५॥
नक्षत्राणि प्रशस्तानि शुक्लपक्षस्तथैव च॥
उद्यानेषु विचित्रेषु नदीनां पुलिनेषु च ॥६॥
देवतायतनं राम पूजनं तस्य कारयेत्॥
अर्घधूपनमस्कारदीपपुष्पान्नसम्पदा ॥७॥
कुल्माषोल्लोपिकाभक्ष्यमद्यमांससुरासवैः॥
ओदनैः परमान्नेन फलैः कालोद्भवैः शुभैः ॥८॥
नृत्य गीतेन वाद्येन शङ्खशब्दैस्तथैव च॥
सावित्रैश्च तथैवाज्यं जुहुयाज्जातवेदसि ॥९॥
ॐकारपूर्वं च तथा रेवन्ताय पुनःपुनः॥
द्विजातिपूजनं कार्यं माल्यमोदकचन्दनैः ॥१०॥
दक्षिणाभिश्च धर्मज्ञ यथावदनुपूर्वशः॥
नारीषु वर्जयेत्सर्वं रेवन्तस्य निवेदितम् ॥११॥
एवं सम्पूजितो दद्यात्तुरङ्गमशतान्यपि॥
बलं तेजस्तथारोग्यं तुरङ्गाणां च भार्गव ॥१२॥
अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां नरोत्तम॥
तुरङ्गमाणां कर्तव्यं शान्तिकं तन्निबोध मे ॥१३॥
दिगीशानीं विनिष्कृष्य ग्रामाद्देशे मनोरमे॥
प्रागुदक्प्रवणे राम स्थण्डिलं परिकल्पयेत् ॥१४॥
नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज॥
पूजयेत्प्रयतो विद्वान्गन्धमाल्यानुलेपनैः ॥१५॥
धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा॥
समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत् ॥१६॥
समन्ततस्तथार्द्राभिर्वस्त्रैश्चाप्यहतैस्तथा॥
घटान्सर्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि ॥१७॥
विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान्॥
ततः समुपधायाग्निं जयप्रभृतिभिः पुनः ॥१८॥
हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम्॥
ततः सम्पूजनीयास्तु गन्धमाल्यैस्तुरङ्गमा ॥१९॥
सन्नद्धपुरुषारूढाः सुसन्नद्धास्तुरङ्गमाः॥
सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम् ॥२०॥
त्रिः परिक्रामतो वह्निं क्ष्वेडोत्कृष्टनिनादितैः॥
शङ्खवाद्यरवोन्मिश्रैर्नेतव्याः स्वगृहं ततः ॥२१॥
रसानि तानि वासांसि गौः कांस्यं कनकं तथा॥
दक्षिणायै प्रदातव्यं कर्तुर्द्विजवरोत्तम ॥२२॥
कर्मणानेन भवति प्रभूतं राम वाहनम्॥
हृष्टपुष्टं च धर्मज्ञ गदामयविवर्जितम् ॥२३॥
नित्यमेतत्तवोद्दिष्टं शृणु नैमित्तिकं तथा॥
अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे ॥२४॥
प्रकृतेश्च विपर्यासे तथा भृगुकुलोद्भव॥
हयचारे शुभे देशे स्थण्डिलं परिकल्पयेत् ॥२५॥
विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम्॥
श्रियं च देवीं तत्रैव केसरेषु च देवताः ॥२६॥
ब्रह्माणं शङ्करं सोममादित्यं च तथाश्विनौ॥
रेवन्तमुच्चैःश्रवसं दिक्पालाँश्च दलेष्वपि ॥२७॥
सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा॥
दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः ॥२८॥
प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः॥
तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः ॥२९॥
तथा प्रतिसरासूत्रैः पताकाभिश्च भार्गव॥
तस्यै वोत्तरतो वेदिं कल्पयित्वा यथाविधि ॥३०॥
ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक्॥
ततोऽग्निहवनस्यानु कांस्यं गां काञ्चनं तथा ॥३१॥
देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च॥
कर्मैतत्सर्वरोगघ्नं सर्वबाधाविनाशनम् ॥३२॥
उपोषितेन कर्तव्यं ब्राह्मणेन यथाविधि॥
उपोषितस्तदा तिष्ठेद्यजमानोऽपि भार्गव ॥३३॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ॥
उपोषितौ सदा पौष्णे यजमानपुरोहितौ ॥३४॥
अश्विनर्क्षे सदा स्नानं कुर्युर्यन्मे निबोधत॥
अकालमूलौ द्वौ कुम्भौ मधूककुसुमोत्कटौ ॥३५॥
अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत्॥
उत्तमं पूजयेद्विद्वान्नासत्यौ शशिनं तथा ॥३६॥
अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम्॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥३७॥
ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मृदा॥
प्रणतेन ततो विद्वान्नासत्याभ्यां निवेदयेत् ॥३८॥
धूपमश्वशफं दद्याद्दैवतानां तथैव च॥
यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक् ॥३९॥
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव॥
स्वाहान्तेनाथ शतशो मन्त्रपूतं घृतं द्विज ॥४०॥
अश्वलोम तथा धार्यं फलमूले तथैव च॥
एकत्र त्रिवृतं कृत्वा मणिर्धार्यस्तु पूर्ववत् ॥४१॥
अलंघयन्नश्विनतिं सदैव स्नानं च कुर्यात्प्रयता मनुष्यः॥
अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्वीर्यबलोपपन्नान् ॥४२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : December 08, 2022
TOP