खण्डः २ - अध्यायः ११६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
आयुषि कर्मणि क्षीणे संप्राप्ते मरणे नृणाम्॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥१॥
शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै॥
भिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥२॥
शैत्यात्प्रकुपितो वायुश्छिद्रमन्विष्यते ततः॥
द्वे नेत्रे च तथा कर्णौ द्वौ तु नासापुटौ तथा ॥३॥
ऊर्ध्व तु सप्त च्छिद्राणि सप्तकं वदनं तथा॥
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणाम् ॥४॥
अधः पायुरुपस्थं च छिद्रद्वयमुदाहृतम्॥
छिद्रद्वयेन तेनाथ म्रियन्तेऽशुभकारिणः ॥५॥
मूर्धानं योगिनां भित्त्वा जीवो व्रजति भार्गव॥
अथवा स्वेच्छया राम येन चेच्छन्ति योगिनः ॥६॥
अन्तकाले तु संप्राप्ते प्राणापानेष्ववस्थितः॥
तमसा संवृते ज्ञाने संवृतेषु च मर्मसु ॥७॥
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना॥
स जीवश्चाल्यमानस्तु कर्मभिस्तैः पुरातनैः ॥८॥
अष्टाङ्गां प्राणवृत्तिं तां शनैश्च्यावयते द्विज॥
शरीरं प्रजहात्यस्मान्निश्वासस्तु भवेत्ततः ॥९॥
च्यवन्तं जायमानं वा प्रविशन्तं च योनिषु॥
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा ॥१०॥
स तु देहपरित्यागकाले प्राप्ते तदानघ॥
तत्क्षणादेव गृह्णाति शरीरमतिवाहिकम् ॥११॥
ऊर्ध्वं भजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्॥
आकाशवायुतेजांसि द्वे चाधो भृगुनन्दन ॥१२॥
सलिलं च महाभाग तथैव च वसुन्धरा॥
एवं पञ्चत्वमापन्नः पुरुषस्त्वभिधीयते ॥१३॥
एवं पञ्चत्वमापन्ने तद्देहमतिवाहिकम्॥
भयानकैर्महाघोरैर्नानावेषधरैस्तथा ॥१४॥
उच्चैस्तस्य तदा बद्धं कालपाशेन सत्वरम्॥
नीयते कालपुरुषैर्याम्यं मार्गं सुदुस्तरम् ॥१५॥
तप्ताम्बरीषसंकाशं त्वयोगुणनिभं महत्॥
संतप्तसिकतं घोरं ताम्रपर्णनिभं तथा ॥१६॥
षडशीतिसहस्राणि योजनानां महीतलम्॥
यमस्य तु पुरी राम घोरा संयमनी स्मृता ॥१७॥
नीयते तेन मार्गेण तादृशेन तु तां पुरीम्॥
आकृष्यमाणं पुरुषैर्याम्यैर्घोरैर्महीतले ॥१८॥
पीडामनुभवँस्तत्र म्रियते न च मानद॥
अत्यर्थविषमः प्रोक्तः स मार्गो घोरदर्शनः॥
विश्वरूपधरो राम भुवि शीतावृतो महान्॥
हिमप्रपातबहुलश्चातिशीतः सुदुस्तरः ॥२०॥
अन्धकारवृते दुर्गे गर्भवासोपमस्तथा॥
अग्निसंस्पर्शवदनैः काककाकोलजम्बुकैः ॥२१॥
मक्षिकादंशमशकैरावृतः सर्पवृश्चिकैः॥
भक्ष्यमाणोऽपि तैर्जन्तुर्भक्ष्यते चापि राक्षसैः ॥२२॥
उत्कृत्योत्कृत्य सहसा न च प्राणैर्वियुज्यते॥
मुद्गरैश्चूर्ण्यते घोरैस्तुद्यते लोहकण्टकैः ॥२३॥
क्षुधया तृषया चैव घोरया चापि पीड्यते॥
दह्यमानोऽतिघोरेण सैकतेन च नीयते ॥२४॥
एवं संयाप्यमानस्तु प्राप्यते यममन्दिरम्॥
दशभिः स मुहूर्तैस्तु पन्थानमतिदुस्तरम् ॥२५॥
प्राप्नोति भीमनिर्घोषं दुर्गन्धिभयदर्शनम्॥
तत्कालं सुमहद्वेत्ति पुरुषो देवमायया ॥२६॥
पापानुरूपं तत्कालं तस्य तत्राभिजायते॥
कस्यचिद्विशतं कालं कस्यचिच्छतसम्भवम् ॥२७॥
क्षुत्तृष्णासम्भवाश्चैव भवन्त्यथ महाभयाः॥
दण्डपिण्डस्य धर्मज्ञ प्रेतत्वमुपजायते ॥२८॥
प्रेत लोके स वसति ततः संवत्सरं नरः॥
सोदकुम्भमतोन्नाद्यं बान्धवैस्तस्य दीयते ॥२९॥
दिनेदिने यद्धर्मज्ञ तद्भुङ्क्ते नात्र संशयः॥
न दीयते तु यस्यैतत्स तु तत्र यथा स्वयम् ॥३०॥
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव तु॥
स्वयमेव न दत्तं तु तथा दाता न विद्यते ॥३१॥
न चास्त्युदकदाता च स तु तत्परितप्यते॥
बान्धवैस्तूदकं दत्त तत्र तत्रास्य जायते ॥३२॥
नदी शीतजला नाम बहुपानीयसंयुता॥
मासिमासि च यच्छ्राद्धं तस्य तत्र प्रदीयते ॥३३॥
तेन तृप्तिमवाप्नोति परमां नात्र संशयः॥
मानुष्येण तु मासेन पितृलोके दिनं स्मृतम् ॥३४॥
प्रेतलोके तु दिवसो मानुष्येण विधीयते॥
तस्माद्दिनेदिने देयं प्रेतायान्नं तु वत्सरम् ॥३५॥
एवं स याप्यमानस्तु प्राप्नोति यममन्दिरम्॥
ततः पश्यत्यसौ देवं पापात्मा घोरदर्शनम् ॥३६॥
चित्रगुप्तस्ततस्तस्य ज्ञात्वा कर्म यथाविधम्॥
आज्ञापयति धर्मज्ञ शुभं वा यदि वाशुभम् ॥३७॥
ततः श्मशानिका नाम देवा याम्या भयावहाः॥
शीतवातातपोपेतं तदा रक्षन्ति मानवम् ॥३८॥
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः॥
प्रेत पिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ॥३९॥
भोगदेहमिति प्रोक्तं क्रमादेव न संशयः॥
प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ॥४०॥
श्मशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते॥
तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥४१॥
ततः सपिण्डीकरणे बान्धवैश्च कृते नरः॥
पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥४२॥
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा॥
ततः स कालं वसति कर्मणामनुरूपतः ॥४३॥
अर्वाक् सपिण्डीकरणं यस्य संवत्सरात्कृतम्॥
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम् ॥४४॥
यैरिष्टं विविधैर्यज्ञैः पूजितो यैश्च केशवः॥
प्रेतलोकं न ते यान्ति तथा ये समरे हताः ॥४५॥
श्मशानिकानां देवानां भवन्ति वशगा न ते॥
प्रेतलोकं प्रपद्यन्ते तथा घोरं भयावहम् ॥४६॥
एवं याम्येन मार्गेण यान्ति पापा नराधमाः॥
आरामसदनं यान्ति तथैव द्रुमरोपकाः ॥४७॥
शीतलेन तु मार्गेण फलपुष्पवता सुखम्॥
छत्रदाश्च सुखं यान्ति मार्गेण ससुखेन ते ॥४८॥
यानमश्वतरीयुक्तमास्थायोपानहप्रदाः॥
विमानैर्यानदा यान्ति तथा शय्यासनप्रदाः ॥४९॥
गृहदाः सविहारन्तु यान्ति तृप्ता जलप्रदाः॥
भक्ष्यैर्भोज्यैस्तथा तृप्ता यान्ति भोजनदायिनः ॥५०॥
दीपप्रदाः प्रकाशेन यान्ति मार्गेण ते सुखम्॥
पूज्यमाना यमभटैर्यान्ति भक्ता जनार्दनम् ॥५१॥
नास्ति तेषां भयं किञ्चिदिहलोके परत्र च॥
ते तृप्ताः सर्वकामैश्च तरसा यान्ति मानवाः ॥५२॥
बुद्धिं समास्थाय तु सात्त्विकीं ये भक्ताः सुरेशस्य जनार्दनस्य॥
तेषां गतिस्तत्र तु यत्र राम श्वेताः पुमांसो गतसर्वपापाः ॥५३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने यममार्गवर्णनन्नाम षोडशोत्तरशततमोध्यायः ॥११६॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP