खण्डः २ - अध्यायः १५१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥राम उवाच ॥
अजस्रं कर्म मे ब्रूहि राज्ञां राजीवलोचन॥
यच्च कार्यं नरेन्द्राणां तधा च प्रतिवत्सरम् ॥१॥
॥पुष्कर उवाच ॥
द्विमुहूर्तावशेषायां रात्रौ निद्रां त्यजेन्नृपः॥
वेणुवीणामृदङ्गानां पटहानां च निःस्वनैः ॥२॥
बन्दिनां निःस्वनैश्चैव तथा मङ्गलवादिनाम्॥
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि ॥३॥
विज्ञायन्ते न ये लोके तदीया इति केनचित्॥
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ॥४॥
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्॥
दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः ॥५॥
स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम्॥
सौषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः ॥६॥
सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः॥
अग्न्यागारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा ॥७॥
हुतान् सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम्॥
दुःस्वप्नशमनं कर्म तत्र कुर्यात्पुरोहितः ॥८॥
स्वयं चौपसदे वह्नौ पवित्रां जुहुयान्नृपः॥
तर्पयेदुदकैर्देवान्पितॄनथ यथाविधि ॥९॥
दद्याद्द्विजातये धेनुं सवत्सां च सकाञ्चनाम्।
शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः ॥१० ॥।
अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलंकृतः॥
दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि ॥११॥
आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ॥
दीयमाने च दुर्गन्धे पतिते च भयं भवेत् ॥१२॥
विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात्॥
सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत् ॥१३॥
ततस्तु शृणुयाद्राजा सांवत्सरमुखोद्गतम्॥
दिवसे तिथिनक्षत्रे सर्वाशुभविनाशनम् ॥१४॥
भिषजां च वचः कुर्यात्ततस्त्वारोग्यवर्धनम्॥
मङ्गलालम्भनं कृत्वा ततः पश्येद्गुरून्नृपः ॥१५॥
कृत्वाशीर्गुरुभिः पश्चाद्राजा गच्छेत्समन्ततः॥
तत्रस्थान्ब्राह्मणान्पश्येदमात्यान्मन्त्रिणस्तथा ॥१६॥
प्रकृतीश्च महाभाग प्रतीहारनिबोधतः॥
तत्रेतिहासश्रवणं कुर्यात्किञ्चिदतन्द्रितः ॥१७॥
ततः कार्यार्थिनां कुर्याद्यथाधीः कार्यनिर्णयम् ॥१८॥
व्यवहारांस्ततः पश्येत्समो भूत्वारिमित्रयोः॥
त्यक्त्वा सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः ॥१९॥
यत्रास्य कश्चित्तं मन्त्रं शृणुयान्न कथञ्चन॥
एकेन सह तं कुर्यान्न कुर्याद्बहुभिः सह ॥२०॥
न च मूर्खैर्न चानामैस्तथा नाधार्मिकैर्नृपः॥
मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न धावति ॥२१॥
राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः॥
नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्त्वमन्त्रवत् ॥२२॥
मंत्रे सुनिश्चिते सिद्धिः कथिता पृथिवीक्षिताम्॥
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥२३॥
कृतान्येव विजानाति स राजा पृथिवीपतिः॥
पृथक् च मन्त्रिभिर्मन्त्रं कृतं वै संहितैः पुनः ॥२४॥
विचार्यमात्मनः साधु पश्चात्तत्र समाश्रयेत्॥
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः ॥२५॥
क्षिप्रं विनाशमायाति तडागमिव काजलम्॥
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता ॥२६॥
आकारैरिङ्गितैः प्राज्ञा मन्त्रं जानन्ति पण्डिताः॥
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः ॥२७॥
राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति॥
त एनं मृगयासक्तं धारयन्ति विपश्चितः ॥२८॥
स्त्रीषु माने तथाक्षेषु वृथा ज्यायांश्च भार्गव॥
करप्रणयने सक्तं हिंसायां च नराधिपम् ॥२९॥
तथा परोक्षनिन्दायां बलवद्विग्रहेऽपि च॥
अन्येषु चाप्यनर्थेषु प्रसक्तं वारयन्ति तम् ॥३०॥
मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः॥
रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ ॥३१॥
अन्येषु चैव शस्त्रेषु नियुद्धेषु ततः परम्॥
पद्भ्यामुद्वर्तितः स्नातः पश्येद्विष्णुं सुपूजितम् ॥३२॥
हुतं च पावकं पश्येद्विप्रान्पश्येत्सुपूजितान्॥
स्वामिनो दक्षिणाभिश्च पूजितान्भृगुनन्दन ॥३३॥
ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः॥
सुवासा भोजनं कुर्याद्गीतं च शृणुयात्तदा ॥३४॥
आप्तं परीक्षितं वह्नौ मृगपक्षीङ्गितैस्तथा॥
पूर्वं परीक्षितं चान्यैर्जांगुल्या चाभिमन्त्रितम् ॥३५॥
विषघ्नांश्च मणीन्राजा धारयन्नौषधींस्तथा॥
भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेषतः ॥३६॥
शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत्॥
कोष्ठागारायुधागारान्प्रति चाग्र्यं च वाहनम् ॥३७॥
योधांश्च दृष्ट्वा चान्वास्या ततः सन्ध्या च पश्चिमा॥
कार्याणि चिन्तयित्वा च प्रेषयित्वा ततश्चरान्॥
अन्तःपुरचरो भूत्वा लघु भुक्त्वा तथा हितम् ॥३८॥
सवेणुवीणापटहस्वनेन सेवेत निद्रां कृतपूर्वरक्षाम्॥
एतद्यशस्यं हि नराधिपानामाजस्रिकं ते कथितं विधानम् ॥३९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने आजस्रिको नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥१५१॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP