खण्डः २ - अध्यायः ०७३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच॥
कुर्याद्दण्डप्रणयनं प्रायश्चित्तमकुर्वताम्॥
नृणां राजा ततो ब्रूहि प्रायश्चित्तविधिं मम ॥१॥
पुष्कर उवाच॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः॥
कामचारकृतेऽप्येतन्मतं मे श्रुतिदर्शनात् ॥२॥
प्रायश्चित्तैः शमं याति पापं कृतमसंशयम्॥
राजदण्डाच्छमं याति प्रायश्चित्तमकुर्वताम् ॥३॥
प्रायश्चित्तविहीना ये राजभिश्चाप्यवासिताः॥
नरकं प्रतिपद्यन्ते तिर्यग्योनिं तथैव च ॥४॥
मानुष्यमपि चासाद्य भवन्तीह तथांकिताः॥
प्रायश्चित्तमतः कार्यं कल्मषस्यापनुत्तये ॥५॥
राजक्रुद्धातुरान्नं च न भुञ्जीत कदाचन॥
तथैवाह्वायकस्यान्नं पदा स्पृष्टं च कामतः ॥६॥
महापातकिना स्पृष्टमवलीढं पतत्रिणा॥
त्र्यृबीमपक्वं यश्चापि स्पृष्टं यच्चाप्युदक्यया ॥७॥
गणान्नं गणिकान्नं च विद्विषां यज्जुगुप्सितम॥
स्तेनस्य चैव तीक्ष्णस्य वार्धुषेर्गायनस्य च ॥८॥
दीक्षितस्य कदर्यस्य बद्धस्य निगडैरपि॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दांभिकस्य च ॥९॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः॥
अनर्चितं वृथा मांसमवीरायाश्च योषितः ॥१०॥
द्विषदन्नं च दासान्नमुग्रान्नं चाप्यचाक्षुषम्॥
पिशुनानृतिनोश्चान्नमस्त्रविक्रयिणस्तथा ॥११॥
रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे॥
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥१२॥
परिवित्तेश्च दुष्टस्य बन्दिनः कितवस्य च॥
कुण्डगोलकयोश्चैव स्त्रीजितस्य तथैव च ॥१३॥
कर्मारस्य निषादस्य रङ्गावतरकस्य च॥
सुवर्णकर्तुवेनस्य चैलनिर्णेजकस्य च ॥१४॥
मिथ्याप्रव्रजितस्यान्नं तैलिकस्य तथैव च॥
तथैव वृषलस्यान्नं ब्राह्मणेनानिमन्त्रितम् ॥१५॥
एषामन्यतमस्यान्नममत्यात्त्वा त्र्यहं क्षिपेत॥
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥१६॥
महापातकयुक्तस्य सूतिकस्य तथैव च॥
भुक्त्वान्नं चर्मकारस्य मत्या कृच्छ्रं चरेद्द्विजः ॥१७॥
चण्डालश्वपचान्नं च भुक्त्वा चान्द्रायणं चरेत॥
अन्तश्चतुर्थिप्रेतान्नं गवाघ्रातं तथैव च ॥१८॥
शूद्रोच्छिष्टं लघूच्छिष्टं सूतिकान्नं तथैव च॥
तप्तकृच्छ्रं तु कुर्वीत तस्य पापस्य शान्तये ॥१९॥
भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः॥
भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रं विधीयते ॥२०॥
वैश्याशौचे तथा भुक्त्वा तप्तकृच्छ्रं समाचरेत्॥
शूद्राशौचे द्विजो भुक्त्वा तथा चान्द्रायणं चरेत् ॥२१॥
अशौचे यस्य यो भुक्त्वा सोऽप्यशुद्धस्तथा भवेत्॥
तावद्यावदशौचं तु तस्य राम प्रकीर्तितम् ॥२२॥
तस्याशौचव्यपगमे प्रायश्चित्तं समाचरेत्॥
भुक्त्वोत्तमस्य चाशौचे क्षपेत दिवसं तथा ॥२३॥
मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात्॥
अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥२४॥
द्विदिनं क्षत्त्रियस्तिष्ठेदेकाहं वैश्य एव च॥
नक्ताशी च तथा शूद्रः पञ्चगव्येन शुध्यति ॥२५॥
भुक्त्वाप्यथ कषायांश्च पीत्वामेध्यान्यपि द्विजः॥
तावद्भवत्यप्रयतो यावदन्नं व्रजत्यधः ॥२६॥
विड्वराहखरोष्ट्राणां गोमायुकपिकाह्वयोः॥
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥२७॥
शुष्काणि जग्ध्वा मांसानि भौमानि कवकानि च॥
अज्ञातं चैव सूनास्थं चैतदेव व्रतं चरेत् ॥२८॥
क्रव्यादसूकरोष्ट्राणां गोमायोः कपिकाकयोः॥
गोनराश्वखरोष्ट्राणां भोक्ता पञ्चनखाश्च ये ॥२९॥
मांसं च कौञ्जरं भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति॥
ग्रामकुक्कुटच्छत्राकौ भुक्त्वा चान्द्रायणं चरेत् ॥३०॥
केशकीटावपन्नेऽपि पिबेद्ब्रह्मसुवर्चलाम्॥
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति ॥३१॥
संकल्पिते तथा भुक्त्वा त्रिरात्रोपोषणं भवेत्॥
व्रतचारी तथा भुक्त्वा मधुमांसं च भार्गव ॥३२॥
लशुनं गृञ्जनं चैव पालण्डुं मद्यमेव च॥
लशुनादिसमं यच्च गन्धेन मनुजोत्तम ॥३३॥
भुक्त्वा चान्द्रायणं कुर्यान्मासं क्रव्यभुजस्तथा॥
लोहितान्वृक्षनिर्यासान्कुस्थानप्रभवांस्तथा ॥३४॥
शेलुं गव्यं च पेयूषं विषं श्लेष्मातकं मृदम्॥
वृथा कृसरसंयावपायसापूपशष्कुलीः ॥३५॥
गवां च महिषीणां च वर्जयित्वा तथाप्यजाम॥
सर्वक्षीराणि वर्ज्यानि तेषां चैवाप्यनिर्दशम् ॥३६॥
स्यंदनेऽमेध्यभक्षाया विवत्सायाश्च वर्जयेत्॥
दधिवर्ज्यं च शुक्तानि सर्वाण्येव विवर्जयेत् ॥३७॥
शुभैः पुष्पफलैर्यानि भक्तैरभियुतानि च॥
विष्किराञ्जालपादांश्च रक्तपादांस्तथैव च ॥३८॥
सर्वशुष्कांश्च चूडालान्प्रतोदांश्च विवर्जयेत्॥
वर्तिको वर्तिका चेति तित्तिरश्च कपिञ्जलः ॥३९॥
भक्ष्यो मयूरश्च तथा पक्षिणां ये विवर्जिताः॥
शशकः शल्लको गोधा खड्गः कूर्मस्तथैव च ॥४०॥
भक्ष्याः पञ्चनखाः प्रोक्ताः परिवेषाश्च वर्जिताः॥
पाठीनान्रोहितान्मत्स्याँल्लोहतुण्डांश्च भक्षयेत् ॥४१॥
राजीवांश्च सशल्कांश्च भक्ष्यानाहुर्मनीषिणः॥
अतोऽन्यान्वर्जयेत्सर्वांस्तथा वै जलचारिणः ॥४२॥
एतेषां भक्षणाद्राम त्रिरात्रौ क्षपणं भवेत्॥
चक्रवाकं प्लवं हंसं टिट्टिभं मद्गुमेव च ॥४३॥
काकोलं च शुकं भासं दात्यूहं सारिकां तथा॥
बकश्येनबलाकांश्च भुक्त्वा षड्रात्र माचरेत् ॥४४॥
उपवासस्तथा कार्यः सूनामांसाशने भवेत्॥
अजाविकानुरोहांश्च पृषतान्माहिषांस्तथा ॥४५॥
रङ्कुन्यंकूंस्तथैणांश्च गवयांश्चैव भक्षयेत्॥
भुक्त्वा मांसं ततोऽन्यस्य त्र्यहं तिष्ठेद्बुभुक्षितः ॥४६॥
यवगोधूमजं सर्वं पयसश्चैव विक्रियाः॥
रागषाडवचुक्रादीन्सस्नेहं यच्च किञ्चन ॥४७॥
एतद्विना पर्युषितं भुक्त्वा चोपवसेद्दिनम्॥
मद्यभाण्डगता मोहात्पीत्वा वापो द्विजोत्तमः ॥४८॥
शङ्खपुष्पाश्रितं क्षीरं पिबेत्तु दिवसत्रयम्॥
सुराभाण्डगता पीत्वा सप्तरात्रं तथा पिबेत् ॥४९॥
शूद्रोच्छिष्टात्तथा पीत्वा पञ्चरात्रं तथा पिबेत्॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ॥५०॥
स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्॥
अग्निहोत्रापविद्धाग्निर्ब्राह्मणः कामचारतः ॥५१॥
चान्द्रायणं चरेन्मासं वीरमप्यासनं हितम्॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥५२॥
महान्ति पातकान्याहुः संयोगश्चैव तैः सह॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥५३॥
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ॥५४॥
वर्जितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्॥
निक्षेपस्यापहरणं नराऽश्वरजतस्य च ॥५५॥
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्॥
रेतःसेकस्स्वयोनीषु कुमारीष्वन्त्यजासु च ॥५६॥
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः॥
गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयः ॥५७॥
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च॥
परिवर्तितानुजेन परिवेदनमेव च ॥५८॥
तयोर्मानं च कन्यायास्तयोरेव च याजनम्॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ॥५९॥
तडागारामदाराणामपत्यस्य च विक्रयः॥
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥६०॥
भृतादध्ययनादानमविक्रेयस्य विक्रयम्॥
सर्वाकरेष्वधीकारो महायन्त्र प्रवर्तनम् ॥६१॥
हिंस्रौषधिस्त्रियाजीवी क्रिया याचनकर्म च॥
इन्धनार्थमशुष्काणां द्रुमाणां चैव पातनम् ॥६२॥
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा॥
अनाहिताग्निता स्तेयमगम्यास्त्रीनिषेवणम् ॥६३॥
स्त्रीशूद्रविट्क्षत्त्रिवधो नास्तिक्यञ्चोपपातकम्॥
ब्राह्मणस्य रुजा कृत्यं घ्रातिरघ्रेयमद्ययोः ॥६४॥
जैह्मं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम्॥
श्वखरोष्ट्रमृगेभानामजाव्योश्चैव मारणम् ॥६५॥
संकीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ॥६६॥
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्॥
कृमि कीटवयोहत्यामन्यानुगतभोजनम् ॥६७॥
फलैधकुसुमस्तेयमधैर्यं चपलात्मता॥
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ॥६८॥
यैर्यैर्व्रतैरपोहेत तानि सम्यङ्निबोधत॥
ब्रह्महा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ॥६९॥
भिक्षेताथ विशुद्ध्यर्थमुपासीनो वृषध्वजम्॥
लक्षं शस्त्रभृतां वा स्याद्विद्विषामिच्छयात्मनः ॥७०॥
प्राश्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः॥
यजेत वाश्वमेधेन स्वर्जितागोसवेन च ॥७१॥
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा॥
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ॥७२॥
ब्रह्महत्यापनुत्त्वर्थं मितभुङ् नियतेन्द्रियः॥
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥७३॥
धनं वा जीवनायालं गृहं वा सपरिच्छदम्॥
व्रतैरेतैरपोहेत महापातकितान्द्विज ॥७४॥
उपपातकसंयुक्तो गोघ्नो मासं यवानदेत्॥
कृतपापो वा निवसेच्चर्मणा तेन संवृतः ॥७५॥
चतुर्थकालमश्नीयादक्षारलवण मितम्॥
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥७६॥
दिवाऽनुगच्छेत्ता गाश्च तिष्ठन्नूर्ध्वमपः पिबेत्॥
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं चरेत् ॥७७॥
तिष्ठंतीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत्॥
आसीनासु तथासीनो नियतो वीतमत्सरः ॥७८॥
आतुरामभिषिक्तां च चौरव्याघ्रादिभिर्भयैः॥
पतित ङ्कलीनां वा सर्वप्राणैर्विमोक्षयेत् ॥७९॥
उष्णैर्वर्षातिशीतैर्वा मारुते वाति वा भृशम्॥
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥८०॥
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले॥
खादमानां न शंसेत पिबन्तं चैव वत्सकम् ॥८१॥
वृषभैकादशा गास्तु दध्याद्धि चरितव्रतः॥
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥८२॥
बन्धने रोधने वापि योजने च गवां रुजा॥
भवेद्वा मरणं यत्र निमित्ते तत्र लिप्यते ॥८३॥
पादमेकं चरेद्गोष्ठे द्वौ पादौ बन्धने चरेत् ॥
योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥८४॥
कान्तारेष्वथ दुर्गेषु विषमेषु गुहासु च॥
यदि तत्र विपत्तिः स्यादेकः पादो विधीयते ॥८५॥
बाधामरणदोषेषु तथैवार्धं विनिर्दिशेत्॥
दमने वाहने रोधे शकटस्य च योक्त्रणे॥८६॥
नद्यां शकलपाशेषु मृते पादौ समाचरेत्॥
व्यापन्नानां बहूनां तु बन्धने रोधनेऽपि वा॥८७॥
भिषङ् मिथ्याचरंश्चेह द्विगुणं गोव्रतं चरेत्॥
शृङ्गभङ्गेऽस्थिभङ्गे वा लांगूलच्छेदनेऽथवा॥८८॥
यावकं तु पिबेत्तावद्यावत्स्वस्था तु गौर्भवेत्॥
एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ॥८९॥
पादंपादं तु हत्यायां चरेयुस्ते पृथक्पृथक्॥
यन्त्रेण गोश्चिकित्सार्थे मूढगर्भविमोक्षणे ॥९०॥
यदि तत्र विपत्तिः स्याद्दोषस्तत्र न विद्यते॥
औषधं स्नेहमाहारं दद्याच्च ब्राह्मणादिषु॥९१॥
दीयमाने विपत्तिः स्याद्दातुर्दोषो न विद्यते॥
एतदेव व्रतं कुर्युरुपपातकिनस्तथा ॥९२॥
अवकीर्णी विशुद्ध्यर्थं चान्द्रायणमथापि वा॥
अवकीर्णी तु कालेन सप्तमेन चतुष्पथे ॥९३॥
पाकयज्ञविधानेन यजते निभृतं निशि॥
हुत्वाग्नौ विधिवद्धोमांस्ततस्तु समितित्यृचम् ॥९४॥
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः॥
कामतो रेतसः सेके व्रतस्थस्य द्विजन्मनः ॥९५॥
आक्रमं च व्रतस्याहुर्धर्मज्ञाः सत्यवादिनः॥
एतस्मिन्नेव सिद्धार्थे वसित्वा गर्दभाजिनम् ॥९६॥
सप्तागारं चरेद्भैक्ष्यं स्वकर्मपरिदेवयन्॥
तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेव कालिकम् ॥९७॥
उप स्पृशंस्त्रिषवणमब्देन स विशुध्यति॥
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥९८॥
राजन्यवैश्यौ चेजाना आत्रेयीमेव च स्त्रियम्॥
उक्त्वा चैवानृतं साक्ष्ये प्रतिवद्य गुरूँस्तथा॥९९॥
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम्॥
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ॥१००॥
तया सकाये निर्दग्धे मुच्यते किल्बिषात्ततः॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव ॥१०१॥
पयो घृतं वा मरणाद्गोशकृद्रसमेव वा॥
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥१०२॥
सुरापानापनुत्त्यर्थं चीरवासा जटी ध्वजी॥
सुरा वै मलन्नानां पाप्मा च मलमुच्यते ॥१०३॥
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥१०४॥
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः॥
यक्षरक्षःपिशाचानां मद्यं मांसं सुराशनम् ॥१०५॥
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः॥
माध्वीकमैक्षवं टाकं कौलं खार्जूरपानसम् ॥१०६॥
मृद्वीकारसमार्द्वीके मेरेयं नारिकेलजम्॥
असेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च ॥१०७॥
यस्य कामगतं ब्रह्म मद्येनाप्लाव्यते सकृत्॥
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥१०८॥
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिर्णयम्॥
सुवर्णस्तेयकृद्विप्रो राजानमभिशस्य तु ॥१०९॥
स्वकर्म ख्यापन्ब्रूयान्मां भवानपि शास्त्विति॥
गृहीत्वा मुसलं राजा सकृद्दद्यात्तु तं स्वयम् ॥११०॥
वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा॥
तपसा त्वपनुत्सुस्तु सुवर्णस्तेयजं मलम् ॥१११॥
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम्॥
गुरुतल्पोऽभिभाष्यैनं तल्पे स्वप्यादयोमये ॥११२॥
सूर्मीं ज्वलंतीमाश्लिष्य मृत्युना तु विशुध्यति॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय स्वाञ्जलौ ॥११३॥
नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः॥
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ॥११४॥
प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः॥
चान्द्रायणं तु त्रीन्मासानभ्यसेन्नियतेन्द्रियः ॥११५॥
हविष्येण यवाग्वा च गुरुतल्पापनुत्तये॥
जातिभ्रंशकरं कर्म कृत्वान्यतरमिच्छया ॥११६॥
चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया॥
शंकरायात्र कृत्यासु चासंशोधनमैन्दवम् ॥११७॥
मलिनीकरणीयेषु तप्तः स्याद्यावकं त्र्यहम्॥
तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥११८॥
वैश्येऽष्टमेंशो ह्यन्यत्तु शूद्रे ज्ञेयस्तु षोडश॥
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ॥११९॥
वृषभैकसहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥१२०॥
वसेद्दूरतरे ग्रामाद्वृक्षमूलनिकेतनम्॥
एतदेवाचरेदब्दं प्रायश्चित्तं द्विजोत्तमः ॥१२१॥
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम्॥
एतदेव व्रतं कृत्स्नं षण्मासाञ्छूद्रहा चरेत् ॥१२२॥
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः॥
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव वा ॥१२३॥
श्वगोधोलूक काकांश्च शूद्रहत्याव्रतं चरेत्॥
पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ॥१२४॥
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वा त्रिवृतं जपेत्॥
अभ्रीं कालायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ॥१२५॥
पलालभारकं षण्ढं सोमकं चैव माषकम्॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरे ॥१२६॥
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा द्विहायनम्॥
हत्वा हंसं बलाकां च वकं बर्हिणमेव च ॥१२७॥
वानरं श्येनभासौ वा स्पर्शयेद्ब्राह्मणाय गाम्॥
वासो दद्याद्धयं हत्वा पञ्चनीलान्वृषान्गजम् ॥१२८॥
अजं मेषमनड्वाहं खरं हत्वैकहायनम्॥
क्रव्यादां हरिणीं हत्वा धेनुं दद्यात्पयस्विनीम् ॥१२९॥
अक्रव्यादं वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्॥
जीवकार्मुकवत्सादीन्पृथग्दद्याद्विशुद्धये ॥१३०॥
चतुर्णामपि वर्णानां नारीं हत्वा न रागतः॥
वर्णानामानुपूर्व्येण त्रयाणामविशेषतः ॥१३१॥
प्रमाप्य चाप्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत॥
धनेन वधनिर्णेकं सर्पादीनामशक्नुवन् ॥१३२॥
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये॥
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥१३३॥
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्॥
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ॥१३४॥
पूर्णे वा तदनस्थ्नां तु शूद्रहत्याव्रतं चरेत्॥
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ॥१३५॥
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ॥१३६॥
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्॥
कृष्णजानामौषधीनां जातानां च स्वयं वने ॥१३७॥
वृथारम्भेण गच्छेद्गां दिनमेकं पयोव्रतः॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ॥१३८॥
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः॥
धान्यानि धनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ॥१३९॥
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति॥
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥१४०॥
कूपवापीजलानां तु शुद्धिश्चान्द्रायणं स्मृतम्॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः ॥१४१॥
चरेत्सान्तपनं कृच्छ्रं तं निर्यात्यात्मशुद्धये॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥१४२॥
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्॥
तृणकाष्ठद्रुमाणां तु शुष्कान्नस्य गुडस्य च ॥१४३॥
चैलचर्माऽमिषाणां च त्रिरात्रं स्यादभोजनम्॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥१४४॥
अयस्कांस्योपलानां च द्वादशाहं कणान्नभुक्॥
कार्पासकीटकोर्णानां द्विशफैकशफस्य च ॥१४५॥
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ॥१४६॥
अगम्यगमनीयेन व्रतैरेभिरपानुदेत्॥
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वान्ययोनिषु ॥१४७॥
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च॥
पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ॥१४८॥
मातुश्च भ्रातुस्तनयां गत्वा चाद्रायणं चरेत्॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान् ॥१४९॥
ज्ञातयो नोपयमनाः पितुश्च ह्युपयन्नधः॥
अमानुषीषु पुरुष उदक्यां वामयोनिषु ॥१५०॥
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत्॥
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥१५१॥
गोयानेषु दिवा चैव सवासाः स्नानमाचरेत्॥
चण्डालान्त्यजस्त्रीयोगाद्भुक्त्वा च प्रतिगृह्य च ॥१५२॥
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं च गच्छति॥
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ॥१५३॥
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्॥
सा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ॥१५४॥
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥१५५॥
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ॥१५६॥
पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः॥
संवत्सरेण पतति पतितेन सहाचरन् ॥१५७॥
याजनाध्यापनाद्दानादुक्तिपानाशनासनात्॥
यो येन पतितेनैषां संसर्गं याति मानवः ॥१५८॥
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥१५९॥
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ॥
दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥१६०॥
अहोरात्रमुपासीरन्न शौचं बान्धवैः सह॥
निवर्तयेरन्तस्मात्तु संभाषणसहासने ॥१६१॥
दायादस्य प्रदानं च यात्रामेव च लौकिकीम्॥
ज्येष्ठभागं निवर्तेत ज्येष्ठावाप्तं च यद्वसु ॥१६२॥
ज्येष्ठांशं प्राप्नुयाच्चापि यवीयान्गुणतोऽधिकः॥
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् ॥१६३॥
तेनैव सार्धं प्राप्येयुः स्नात्वा पुण्ये जलाशये॥
सत्स्वप्सु तं घटं प्राप्य प्रविश्य भवनं स्वकम् ॥१६४॥
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत्॥
एनमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥१६५॥
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके॥
एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्समाचरेत् ॥१६६॥
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत कर्हिचित्॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ॥१६७॥
शरणागतहंतॄश्च स्त्रीहंतॄश्च न संवसेत्॥
येषां द्विजानां सावित्री नानुच्येत यथाविधि ॥१६८॥
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत्॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥१६९॥
ब्राह्मणाश्च परित्यक्ता येषां मध्ये तदादिशेत्॥
यद्गर्हितेनार्जयन्ति ब्राह्मणाः कर्मणा धनम । ॥१७०॥
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ॥१७१॥
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात्॥
उपवासकृशं तं तु गोव्रजात्पुनरागतम् ॥१७२॥
प्रणतं परिपृच्छेयुः सौम्य सौम्येच्छसीति किम्॥
सत्यमुक्त्वा तु विप्रेभ्यो वितरेद्यवसं गवाम्॥! १७३॥
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम॥
व्रात्यानां याजनं कृत्वा परेषामंत्यकर्म च ॥१ ७४॥
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुध्यति॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥१७५॥
संवत्सरं यताहारस्तत्पापमपगच्छति॥
श्वशृगालोरगैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥१७६॥
गवाश्वोष्ट्रवराहैश्च प्राणायामेन शुद्ध्यति॥
षष्ठान्नकालमशनं संहिताजाप एव च ॥१७७॥
होमश्च शाकलो नित्यमपङ्क्त्यानां विशोधनम्॥
उष्ट्रयानं समारुह्य खरयानं च कामतः ॥१७८॥
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति॥
विना भिन्नाप्सु चाद्यन्तः शरीरं संनिवेशयेत् ॥१७९॥
सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥१८०॥
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्॥
हुङ्कारं ब्राह्मणस्योक्त्वा त्वंकारं तु गरीयसः ॥१८१॥
स्नात्वानश्नन्नहश्चैकमभिवाद्य प्रसादयेत्॥
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ॥१८२॥
विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत्॥
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ॥१८३॥
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते॥
शोणितं यावतः पांसून्संगृह्णाति द्विजन्मनः ॥१८४॥
तावन्त्यब्दसहस्राणि तत्कर्ता नरकं व्रजेत्॥
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥१८५॥
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम्॥
चण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥१८६॥
सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनम्॥
चान्द्रायणं पराकं वा द्विजानां तु विशोधनम् ॥१८७॥
प्राजापत्यं तु शूद्राणां शेषं तदनुसारतः॥
गुडं कुसुम्भं लवणं तथा धान्यानि यानि च ॥१८८॥
कृत्वा गृहे ततो द्वारि तेषां दद्याद्धुताशनम्॥
मृण्मयानां तु भाण्डानां त्याग एव विधीयते ॥१८९॥
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते॥
यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत् ॥१९०॥
शुष्कान्नभोजिनः पादमित्याह भगवान्मनुः॥
कूपे ता नव संतार्य स्पर्शसंकल्पदूषिताः ॥१९१॥
शुद्धेयुरुपवासेन पञ्चगव्येन चाप्यथ॥
यस्तु संस्पृश्य चाण्डालमश्नीयाद्वा त्वकामतः ॥१९२॥
द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा॥
वर्णसंकरसंकीर्णाश्चण्डालादिजुगुप्सिताः ॥१९३॥
भुक्त्वा पीत्वा तथा तेषां षड्रात्रेण विशुध्यति॥
अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः ॥१९४॥
व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव च॥
चण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ॥१९५॥
द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम्॥
उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ॥१९६॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति॥
उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ॥१९७॥
त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः॥
क्षत्त्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ॥१९८॥
स्पृष्टः सवर्णेनाचामेदमेध्यं स्पृशते यदि॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥१९९॥
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके॥
पक्वान्नेन गृहीतेन मूत्रोच्चारं करोति वै ॥२००॥
अनिधायैव तद्द्रव्यं कृत्वांगे उत्तमे स्थितम्॥
शौचं कृत्वा यथान्यायमुपविश्य यथाविधि ॥२०१॥
अन्नमभ्युक्षयेच्चापि उद्धृत्यार्कस्य दर्शयेत्॥
अर्काभावेऽप्यथाग्नेश्च बस्तस्याथ प्रदर्शयेत् ॥२०२॥
त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिमवाप्नुयात्॥
म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम् ॥२०३॥
भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम्॥
पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ॥२०४॥
कृच्छ्रस्यार्धे ब्राह्मणस्तु पुनः संस्कारमर्हति॥
पादोनान्ते क्षत्रियस्तु अर्धार्धे वैश्य एव च ॥२०५॥
पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुध्यति॥
उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥२०६॥
अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति॥
मूत्रं कृत्वा व्रजेन्मार्गं स्मृतिभ्रंशाज्जलं पिबेत् ॥२०७॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति॥
( मूत्रोच्चारं द्द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ॥२०८॥
मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशुध्यति॥)
परित्यक्तमहायज्ञा प्रव्रज्याविच्युताश्च ये ॥२०९॥
अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते॥
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥२१०॥
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः॥
उपानहममेध्यं वा चास्य संस्पृशते मुखम् ॥२११॥
पुत्रिकागोमयौ तस्य पञ्चगव्यं विशोधनम्॥
वापन विक्रयं चैव नीलवृत्त्युपजीवनम् ॥२१२॥
पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात्॥
( स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥२१३॥
वृथा तस्य महायज्ञा सूत्रसूत्रस्य धारणात्॥)
नीलरक्तं यदा वस्त्रं द्विजोंगेषु हि धारयेत् ॥२१४॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति॥
नीलदारु यदा भज्येद्ब्राह्मणस्य तु पादयोः ॥२१५॥
शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत्॥
वापितं यत्र नीलं तु तावदेवाशुचिर्मही ॥२१६॥
प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत्॥
अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ॥२१७॥
चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम्॥
त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ॥२१८॥
उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला॥
यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ॥२१९॥
चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम्॥
शवं स्पर्शयिता श्वानं सद्यः स्नानेन शुध्यति ॥२२०॥
ना स्पृष्ट्वाऽस्थि तु सस्नेहं स्नात्वा विप्रो विशुध्यति॥
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥२२१॥
रथ्याकर्दमतोयेन नाभिस्पृष्टो भवत्यधः॥
मृत्तोयैश्चर्चयेदङ्गं ततः शुद्धिमवाप्नुयात् ॥२२२॥
वान्तं विविक्तः स्नात्वा तु घृतं पीत्वा विशुध्यति॥
क्षुरकर्म ततः कृत्वा स्नानेनैव विशुध्यति ॥२२३॥
अपाङ्क्तेयैस्तु यः पङ्क्त्यां भुंक्ते कश्चिद्द्विजोत्तमः॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥२२४॥
चन्द्रार्कग्रहणे भुक्त्वा द्विजश्चान्द्रायणं चरेत्॥
ब्रह्मचारी शुनादष्टस्त्र्यहं सायं पयः पिबेत् ॥२२५॥
गृहस्थो वा त्रिरात्रं तु चैकाहं त्वग्निहोत्रवान्॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥२२६॥
बाह्वोश्च त्रिगुणं ज्ञेयं मूर्धनि स्याच्चतुर्गुणम्॥
उद्ग्रन्थमृतकं प्रेतं यः स्पृशेद्ब्राह्मणः क्वचित् ॥२२७॥
तस्य शुद्धिं विजानीयात्तप्तकृच्छ्रेण नित्यशः॥
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ॥२२८॥
तस्य प्रेतक्रियां कृत्वा तप्तकृच्छ्रेण शुध्यति॥
इन्द्रियेषु प्रविष्टं स्यादमेध्यं यस्य कस्य चित् ॥२२९॥
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति॥
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैर्मया ॥२३०॥
अनाविष्कृतपापांश्च मन्त्रैर्होमैश्च साधयेत्॥
ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥२३१॥
पापकृन्मुच्यते पापात्तथा दानेन चापरे॥
यथा यथानरो धर्मं स्वयं कृत्वा न भाषते ॥२३२॥
तथा तथा च येनैव तस्मात्पापात्प्रमुच्यते॥
कृत्वा पापं हि स्मर्तव्यं तस्मात्पाप्त्प्रमुच्यते ॥२३३॥
यथायथा मनस्तस्य दुष्कृतं कर्म गर्हति॥
तथातथा शरीरं तत्तेनाधर्मेण मुच्यते ॥२३४॥
नैतत्कुर्यां पुनरिति निवृत्यां प्रयतेन्नरः॥
एवं संचिन्त्य मनसा प्रेत्यकर्मफलोदयम् ॥२३५॥
मनोवाक्कर्मभिर्न्नित्यं शुभं कर्म समाचरेत्॥
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ॥२३६॥
तस्माद्धि मुच्यते नित्यं द्वितीयं न समाचरेत्॥
यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम्॥
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥२३७॥
गुरुलघुतां तु विचार्य यथावद्येषु मयागमनं च तवोक्तम्॥
तेषु न चेत्सहनिश्चितबुद्धिर्विप्रवरैः कुशलैः सुधिया वा ॥२३८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्ताध्यायो नाम त्रिसप्ततितमोऽध्यायः ॥७३॥
N/A
References : N/A
Last Updated : December 09, 2022
TOP