खण्डः २ - अध्यायः १६१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
परशुराम उवाच॥
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम्॥
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥१॥
पुष्कर उवाच॥
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे॥
प्रागुदक्प्रवणे देशे शान्त्यागारं तु कारयेत् ॥२॥
तं तमत्यन्तविस्तीर्णं नानावस्त्रविभूषितम्॥
पुनर्वसौ गते चन्द्रे तत्र यायान्नराधिपः ॥३॥
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ॥
अभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥४॥
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत्॥
गन्धमण्डलकैर्मुख्यैर्यथास्थानं पुरोहितः ॥५॥
आवाहनं ततः कुर्यात्स्नातास्तत्र च येऽपि ते॥
देवादीनां तु सर्वेषां ब्राह्मणैः सहिता द्विज ॥६॥
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा॥
देववत्पूजनं कुर्यात्तथा नृपपुरोहितौ ॥७॥
एवं संपूजनं कृत्वा सोपवासास्तु ते त्रयः॥
स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥८॥
ततो नैर्ऋतकं कर्म प्रदेशे तु पुरोहितः॥
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥९॥
श्रुत्वा दशगुणानत्र स्नापयेत्तं नराधिपम्॥
पूर्वमेव तथा स्नानं सिद्धार्थोत्साधितं तथा ॥१०॥
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित्॥
आज्यं तेजः समुद्दिष्टमाज्यं तेजोहरं परम् ॥११॥
आज्यं सुराणामाहारमाज्ये लोकः प्रतिष्ठितः॥
तेनान्तरिक्षं दिव्यं वा धत्ते कल्मषनाशनम् ॥१२॥
सर्वे तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु॥
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम् ॥१३॥
गच्छेत्तं तु पुरस्कृत्य सांवत्सरपुरोहितौ॥
स्नानवेदी तु कर्तव्या लाजाकुसुममण्डिता ॥१४॥
चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता॥
चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत् ॥१५॥
वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा॥
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥१६॥
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नृपैः॥
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः ॥१७॥
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत्॥
कुम्भाष्टकं तु कर्तव्यमष्टाविंशतिरेव वा ॥१८॥
अथवाष्टशतं राम वृद्धिरेषा गुणोत्तरा॥
ततोपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः ॥१९॥
शूलेन मृन्मयं भिंद्याच्छत्रुं क्रोधसमन्वितः॥
राज्ञस्तु कलशं दत्त्वा स्वयं सांवत्सरस्ततः ॥२०॥
अभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम्॥
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥२१॥
जीवां विश्वेश्वरीं पाठां समंगामभयां तथा॥
सहां च सहदेवां च पूर्णकोशां शतावरीम् ॥२२॥
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत्॥
ब्राह्मी क्षेमामजां चैव सर्वबीजानि काञ्चनम् ॥२३॥
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा॥
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम् ॥२४॥
एवं स्नातो घृते दृष्ट्वा वदनं तर्पणं तथा॥
मङ्गलालभनं कृत्वा धौतवासाः समाहितः ॥२५॥
अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक्॥
तेषामेव ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ॥२६॥
ओङ्कारपूतं जुहुयाद् घृतं बहु पुरोहितः॥
आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं ततः ॥२७॥
राजचिह्नार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम्॥
अनुलेपनमादद्याद्गन्धद्वारेति मन्त्रतः ॥२८॥
शुभं वसनमादद्याच्छ्रीसूक्तेनाभिमंत्रितम्॥
श्रियं धातर्मयि देहि मंत्रः सुमनसां भवेत ॥२९॥
रायस्पोषेति च तथा मन्त्रेलङ्करणे स्मृतः॥
ततोनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ॥३०॥
केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत्॥
वह्नेरुत्तरदिग्भागे ततः प्रागुक्तकर्मणाम् ॥३१॥
सिंहासनं न्यसेत्पृष्ठे भव्यास्तरणसंयुतम्॥
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥३२॥
वृषस्य वृषदंशस्य करेश्च पृषतस्य च॥
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥३३॥
ध्रुवा द्यौरिति मन्त्रेण नृपं तत्रोपवेशयेत॥
दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥३४॥
तयोर्हस्तगतावग्रे दर्भौ संग्रथयेद्द्विजः॥
ततः पुरोधा जुहुयाद्ब्राह्मैर्मन्त्रैर्घृतं शुचिः ॥३८॥
रौद्रवैष्णव वायव्यशाक्रसौम्यैः सवारुणैः॥
बार्हस्पत्यैस्ततः कुर्यात्तंत्रमुत्तरसंजकम् ॥३६॥
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम्॥
यान्तु देवगणाः सर्वे सानुगाः सपरिच्छदाः ॥३७॥
आदाय पार्थिवात्पूजां नगरागमनाय च॥
ततस्तु पूजयेद्राजा सांवत्सरपुरोहितौ ॥३८॥
धनेन ब्राह्मणानां च ततो दद्याच्च दक्षिणाम्॥
मङ्गलालभनं कृत्वा खड्गपाणिर्गृहाद्व्रजेत्॥
शान्तिघोषेण महता राजा कुञ्जरगस्ततः ॥३९॥
शांतिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशनी च॥
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च ॥४०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने घृतकम्बलशान्तिकथनो नामैकषष्ट्युत्तरशततमोऽध्यायः ॥१६१॥
N/A
References : N/A
Last Updated : December 21, 2022
TOP