संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३७

खण्डः २ - अध्यायः ०३७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥सत्यवानुवाच ॥
वनेऽस्मिन्षट्पदाकीर्णं सहकारं मनोहरम्॥
श्रोत्रघ्राणमुखं पश्य वसन्ते रतिवर्धनम् ॥१॥
वने सपुष्पं दृष्ट्वैषा रक्ता श्लोकं मनोहरम्॥
हसतीव मनः सेर्ष्यं त्वामिवायतलोचने ॥२॥
दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम्॥
पुष्पितैः किंशुकैर्युक्तां ज्वलितामिव सप्रभैः ॥३॥
सुगन्धिकुसुमामोदी वनराजिविनिर्गतः॥
करोति वायुर्दाक्षिण्यादावयोः क्लमनाशनम् ॥४॥
अप्युत्पलविशालाक्षि कर्णिकारैः सुपुष्पितैः॥
काञ्चनैरिव भात्येषा वनराजी मनोहरा ॥५॥
अतिमुक्तलताजालरुद्धमार्गवनस्थलीः॥
पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर भूषणा ॥६॥
मधुमत्तालिझाङ्कारव्याजेन वरवर्णिनि॥
चापयष्टिं करोतीव कामः पान्थजिघांसया ॥७॥
फुल्लचंपकसद्वक्त्रा पुंस्कोकिलविनादिनी॥
विभाति चारुतिलका त्वमिवैषा वनस्थली ॥८॥
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः॥
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥९॥
पुष्परेण्वनुलिप्ताङ्गः प्रियामनुसरन्वने॥
कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः ॥१०॥
मञ्जरीं सहकारस्य कान्ताचञ्च्वग्रखण्डिताम्॥
स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे ॥११॥
काकः प्रसूतां वृक्षाग्रे सामिषाग्रेण चञ्चुना॥
काकीं सम्पाययत्येष पक्षाच्छादित पुत्रकाम् ॥१२॥
भूभागं निम्नमासाद्य दयितासहितो युवा॥
नाहारमपि चादत्ते कामी कामं कपिञ्जलः ॥१३॥
कलविङ्कस्तु विरुतैः सप्रियो विटपे स्थितः॥
मुहुर्मुहुर्विशालाक्षि उत्कण्ठयति कामिनः ॥१४॥
क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह॥
भारेण नमयञ्शाखां करोति सफलामिव ॥१५॥
वनेभपिशितास्वादतृप्तो निद्रामुपागतः॥
शेते सिंहयुवा कान्ताचरणावरणाननः ॥१६॥
व्याघ्रयोर्मिधुनं पश्य शैलकन्दर संस्थितम्॥
ययोर्नेत्रप्रभालोकैर्गुहा भिन्नेव लक्ष्यते ॥१७॥
अय द्वीपी प्रियां लेढि जिह्वाग्रेण पुनःपुनः॥
प्रीतिमायाति महतीं लिह्यमानश्च कान्त्या ॥१८॥
उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम्॥
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ॥१९॥
भूमौ निपतिता कान्तं मार्जारी दर्शितोदरा॥
नखैर्दन्तैस्तुदत्येषा न च पीडयते तथा ॥२०॥
शशकः शशिका चोभे संसुप्ते पीडिते इमे॥
सँल्लीनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥२१॥
स्नातं सरसि पद्माढ्ये वारणं मदमन्थरम्॥
सम्भावयति तन्वङ्गि मृणालशकलैर्वशा ॥२२॥
कान्तपोत्रसमुत्खातैः कान्ता मार्गानुसारिणी॥
करोति कवलं मुस्तैर्वराही पोतकानने ॥२३॥
दृढाङ्गसन्धिर्महिषः कर्दमार्द्रतनुर्वने॥
अनुव्रजति धावन्तीं प्रियां बद्धचतुष्ककः ॥२४॥
पश्य चार्वङ्गि सारङ्गः त्वत्कटाक्षनिभं वने॥
सभार्यां मां तु पश्यन्तं कौतूहलसमन्वितम् ॥२५॥
पश्य पश्चिमपादेन रोही कण्डूयते मुखम्॥
स्नेहार्द्रभावः कषति भर्ता शृङ्गाग्रकोटिना ॥२६॥
दाडिमे चमरीं पश्य सितवालामगच्छतीम्॥
अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ॥२७॥
आतपे गवयः पश्य निविष्टो भार्यया सह॥
रोमन्थमास्ये कुर्वाणः काकं ककुदि धारयन् ॥२८॥
पश्याजं भार्यया सार्धं न्यस्ताग्रचरणद्वयम्॥
विपुले बदरीस्कन्धे तच्छदग्रासकाम्यया ॥२९॥
हंसं सभार्यं सरसि विचरन्तं सुनिर्मले॥
सुशुक्लस्येन्दुबिम्बस्य पश्यैनं सदृश श्रियम् ॥३०॥
सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः॥
करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरि ॥३१॥
मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः॥
इन्धनं न कृतं किञ्चित्तत्करिष्यामि सांप्रतम् ॥३२॥
त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता॥
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥३३॥
 ॥सावित्र्युवाच ॥
एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया॥
दूरे कान्त न गन्तव्यं बिभेमि गहने वने ॥३४॥
 ॥पुष्कर उवाच ॥
तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना॥
स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत् ॥३५॥
 ॥सत्यवानुवाच ॥
आयासेन ममानेन जाता शिरसि वेदना॥
तमश्च प्रविशामीव न च जानामि किञ्चन ॥३६॥
त्वदुत्सङ्गे शिरः कृत्वा निद्रोपहतलोचनः॥
पुष्कर उवाच॥
तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः ॥३७॥
पतिव्रता महाभागा ततस्सा राजकन्यका॥
ददर्श धर्मराजं तु स्वयं तं देशमागतम् । ३८॥
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम्॥
विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम् ॥३९॥
किरीटेनार्कवर्णेन कुण्डलाभ्यां विराजितम्॥
हारभारार्पितोरस्कं तथाङ्गदविभूषितम् ॥४०॥
तथानुगम्यमानं च कालेन सह मृत्युना॥
स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ॥४१॥
अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम्॥
आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ॥४२॥
सावित्र्यपि वरारोहा त्यक्त्वा तं गतजीवितम्॥
अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता ॥४३॥
तामुवाच यमो गच्छ यथागतमनिन्दिते॥
और्ध्वदैहिककार्येषु युक्ता भर्तुः समाचर ॥४४॥
नानुगन्तुमसौ शक्यस्त्वया लोकान्तरं गतः॥
पतिव्रतासि तेन त्वं मुहूर्तमनुपश्यसि ॥४५॥
गुरुशुश्रूषणाद्भद्रे तथा सत्यवतो महत्॥
पुण्यं समर्जितं येन नयाम्येनमहं स्वयम् ॥४६॥
एतावदेव कर्तव्यं पुरुषस्य विजानतः॥
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि ॥४७॥
गुरुत्रितयमेतच्च सदा सत्यवता वने ॥४८॥
पूजितं पूजितस्स्वर्गस्तदानेन चिरं शुभे॥
तपसा ब्रह्मचर्येण त्वग्निशुश्रूषया तथा ॥४९॥
पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषणेन च॥
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ॥५०॥
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ॥५१॥
माता पृथिव्या मूर्तिश्च भ्राता वै मूर्तिरात्मनः॥
यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ॥५२॥
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ॥५३॥
तेष्वेव त्रिषु तुष्टेषु तपः सत्यं समाप्यते॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥५४॥
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत॥
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ॥५५॥
त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः॥
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ॥५६॥
गुरुराहवनीयस्तु अग्नित्रेता गरीयसी॥
त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकाञ्जयते गृही ॥५७॥
स हि दिव्येन वपुषा देववद्दिवि मोदते॥
इमं लोकं मातृभक्तः पितृभक्तस्तु मध्यमम् ॥५८॥
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ॥५९॥
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् ॥६०॥
तनुं निवेदयेत्तेभ्यो मनो वचनकर्मभिः॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ॥६१॥
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते॥
गुरुपूजारतिर्भर्ता त्वं च साध्वी पतिव्रता ॥६२॥
विनिवर्तस्व धर्मज्ञे ग्लानिर्भवति तेऽधुना॥
सावित्र्युवाच॥
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम् ॥६३॥
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥६४॥
अमितस्य हि दातारं भर्तारं का न पूजयेत॥
नीयते यत्र भर्ता मे स्वयं वा यत्र गच्छति ॥६५॥
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम॥
पतिमादाय गच्छन्तमनुगन्तुमहं यदा ॥६६॥
त्वां देव न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम्॥
मनस्विनी तथा का च वैधव्याक्षरदूषिता ॥६७॥
मुहूर्तमपि जीवेत मण्डनार्हाप्यमण्डिता॥
यम उवाच॥
पतिव्रते महाभागे परितुष्टोऽस्मि ते शुभे ॥६८॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम्॥
सावित्र्युवाच॥
विनष्टचक्षुषो राज्यं चक्षुषा सह कामये॥
च्युतराज्यस्य धर्मज्ञ श्वशुरस्य महात्मनः ॥६९॥
 ॥यम उवाच॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम्॥
ममोपरोधस्तव च क्लमः स्यात्तथाध्वना तेन तव ब्रवीमि ॥७०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP