संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३५

खण्डः २ - अध्यायः ०३५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच ॥
स्त्रीणां पूज्यतमा लोके देवतास्त्वं प्रकीर्तय॥
तासां कालं विधानं च फलं पूजनतस्तथा ॥१॥
पुष्कर उवाच॥
श्रियः सम्पूजनं कार्यं स्त्रीभिस्तु सततं गृहे॥
पुप्पार्घमाल्यनैवेद्यधूपदीपानुलेपनैः ॥२॥
गृहसम्मार्जनं राम तथा तस्योपलेपनम्॥
पुष्पोपहारकरणं सुधाशुक्लत्वमेव च ॥३॥
सर्वमेतद्विजानीयाच्छ्रियः सम्पूजनं द्विज॥
स्नानानुलेपनं यच्च गन्धवर्णावधारणम् ॥४॥
सुवर्णता च नारीणां श्रियः सम्पूजनाद्भवेत्॥
अष्टमीषु च सर्वासु पूजनीयाप्यशोकिका ॥५॥
गन्धमाल्यनमस्कारधूपदीपादिभिस्तथा॥
तस्मिन्नहनि या भुङ्क्ते नक्तं तैलविवर्जितम् ॥६॥
भवत्यथ विशोका सा यत्रयत्राभिजायते॥
अष्टमीषु च सर्वासु न चेच्छक्नोति भार्गव ॥७॥
प्रोष्ठपद्यां व्यतीतायां या स्यात्कृष्णाष्टमी द्विज॥
तस्यामवश्यं कर्त्तव्या देव्याः पूजा यथाविधि ॥८॥
अपामिव त्रिलोकेषु प्रकृतिः स्त्रीषु चोच्यते॥
या प्रेरयति कर्माणि लोकेषु द्विजसत्तम ॥९॥
तस्यां सम्पूजनं कार्यं शुक्लां पञ्चदशीं तथा॥
माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना ॥१०॥
रक्तवस्त्रप्रदानेन दीपदानेन चाप्यथ॥
वैदलैश्च तथा भक्ष्यैर्भोज्यैश्चोष्यैस्तथैव च ॥११॥
पूजयित्वा च तां देवीं भोक्तव्यं निशि भार्गव॥
यदि पञ्चदशीं सर्वां न शक्नोति कदाचन ॥१२॥
देव्याः सम्पूजनं कार्यमवश्यमपि कार्तिके॥
उपार्तिं पूजयेद्या तु सा तु नारी पतिव्रता ॥१३॥
सदा धर्मरता साध्वी लोके भवति भार्गव॥
नाशुभे च मतिस्तस्याः कदाचिदपि जायते ॥१४॥
एकादशीं तथा कृष्णां फाल्गुने मासि भार्गव॥
शुद्धे देवस्य कर्त्तव्या पूजा धर्मभृतां वर ॥१५॥
पूजनाच्छन्दोदेवस्य तनयं गुणवर्जितम्॥
न प्राप्नोति तथाऽप्नोति गुणवन्तमसंशयम् ॥१६॥
गन्धमाल्यादिभिर्भक्त्या तथा वै वास्तुदेवताम्॥
एकादशीं तथा प्राप्य चैत्रशुक्लस्य पूजयेत् ॥१७॥
संपूज्य तां महाभाग गृहभङ्गो न जायते॥
शुक्लाष्टमीं तु सम्प्राप्य मासि भाद्रपदे तथा ॥१८॥
दूर्वाप्रतानं लुप्पेत्तदुत्तराशाभिगामिनम्॥
पूजयेद्गृहमानीय गन्धमाल्यानुलेपनैः ॥१९॥
फलमूलैस्तथा राम धूपदीपौ विवर्जयेत्॥
अग्निपक्वं तथा सर्वं न निवेद्यं कथञ्चन ॥२०॥
भोक्तव्यं च तथा राम वह्निपाकविवर्जितम्॥
दूर्वांकुरस्थां सम्पूज्य विधिना यौवनश्रियम् ॥२१॥
यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते॥
सोपवासा तु या नारी कृष्णपक्षस्य कार्तिके ॥२२॥
द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम्॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥२३॥
नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः॥
भोक्तव्यं च न धर्मज्ञ दोग्धव्या नैव चार्जुने ॥२४॥
गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा॥
धेनुं तां यदि विप्राय प्रददाति यथाविधि ॥२५॥
स्वर्गलोकमथासाद्य न ततो विनिवर्तते॥
कार्तिके च तथा मासि कृत्तिकायां च पूजनम् ॥२६॥
कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः॥
भक्ष्यैश्च परमान्नैश्च कुल्माषैः पर्पटैस्तथा ॥२७॥
शक्त्या वस्त्रैश्च धर्मज्ञ महारञ्जनरञ्जनैः॥
गुडेन मधुना चैव सितया लवणेन च ॥२८॥
आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः॥
सर्वैश्च विविधैरन्नैर्गन्धैर्नानाविधैस्तथा ॥२९॥
पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः॥
सह चन्द्रमसा राम तेन सौभाग्यमश्नुते ॥३०॥
नारी च रूपलावण्ये धर्मे चाग्र्यां तथा मतिम्॥
अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते ॥३१॥
लवणस्य तुलां कृत्वा महारञ्जनरंजिते ॥
वस्त्रे वस्त्रेण तेनाथ सालङ्कारां सितच्छविम् ॥३२॥
कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत्॥
ग्राहयेद्ब्राह्मणं तां च प्राप्ते चन्द्रोदये तथा ॥३३॥
अनेन कर्मणा नारी सौभाग्यं महदश्नुते॥
पुरुषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते॥
कृत्तिकाप्रतिपादे तु तासां कृत्वैव पूजनम् ॥३४ ॥।
या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम्॥
सप्त जन्मान्तराण्येव सौभाग्यं रूपमेव च ॥३५॥
स्वर्गे तु भोगानाप्नोति सह भर्त्रा तु सा शुभा ॥३६॥
प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्तिकीम्॥
कार्तिकं कार्तिकीं राम गृहभित्तौ समालिखेत् ॥३७॥
उपद्वारं गृहाद्बाह्यं नानावर्णैस्तु वर्णकैः॥
गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत् ॥३८॥
पीठखड्गासनाद्यत्र शकटोलूखलादिकम्॥
ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः ॥३९॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
इक्षुणेक्षुविकारैर्वा विशेषेण च पूजयेत् ॥४०॥
तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ॥
शुक्तिनेत्रं न्यसेत्क्षीरे तच्च दद्याद्द्विजातये ॥४१॥
ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम्॥
अनयोः पूजनाद्राम गृहभङ्गं न चाप्नुयात् ॥४२॥
पतिव्रता महाभाग दीर्घमाप्नोति जीवितम्॥
कार्तिके च तथा मासि सार्धं चन्द्रमसा सदा ॥४३॥
रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज॥
सर्वैरविधवाचिह्नैर्लवणेन च भूरिणा ॥४४॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा ॥४५॥
सौभाग्यं परमाप्नोति कृत्वैतत्परमाङ्गना॥
शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता ॥४६॥
पूजयेत्सोपवासा च कामदेवमतन्द्रिता॥
पट्टवर्णकविन्यासं तस्य भार्या तथा पतिम् ॥४७॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
गुडेन मधुना चैव सितया चार्द्रकेण च ॥४८॥
लवणेन रसैश्चान्यैर्गन्धैः सस्यैः पृथक्पृथक्॥
भक्ष्यैर्नाविधैश्चैव कुंकुमार्द्रेण वाससा ॥४९॥
गन्धतोयाम्बुपूर्णेन द्रुमपल्लवशालिना॥
पूर्णकुम्भेन भव्येन माल्यकण्ठेन भार्गव ॥५०॥
कामदेवाय नो दद्याद्यदम्लं किञ्चिदेव तु॥
ततश्च पश्चाद्धोक्तव्यं सर्वमम्लविवर्जितम् ॥५१॥
सर्वान्कामानवाप्नोति कामपूजाविधायिनी॥
अथ चेन्नैव शक्नोति सर्वां राम त्रयोदशीम् ॥५२॥
चैत्रशुक्लेन सर्वासां फलमाप्नोत्यसंशयम्॥
तस्मात्सर्वप्रयत्नेन चैत्रशुक्लत्रयोदशीम् ॥५३॥
कामस्य पूजा कर्तव्या सर्वकामप्रदायिनी॥
कामदेवं समभ्यर्च्य कार्यमात्माभिपूजनम् ॥५४॥
कुंकुमाङ्कैस्तथा वस्त्रैर्गन्धमाल्यविभूषणैः॥
भर्तारं पूजयेत्पश्चान्नारी तु कृतमण्डना ॥५५॥
कुकुमांकेन वस्त्रेण गन्धमाल्यैर्मनोहरैः॥
पुरुषोऽपि समभ्यर्च्य कामदेवमसंशयम् ॥५६॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा॥
तथा शुक्लचतुर्थीषु गौरीपूजा सदा भवेत् ॥५७॥
स्नाताभिः सोपवासाभिः सूर्यस्योदयनं प्रति॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥५८॥
गुडेन सितया चापि मधुना चार्द्रकेण च॥
सर्वैश्चाविधवाचिह्नैर्लवणेन च भूरिणा ॥५९॥
चतुर्थीद्वितये पूज्या सर्वशक्त्या विशेषतः॥
आषाढेऽप्यथवा मासि माघे चाप्यथवा द्विज ॥६०॥
चतुर्णामपि कुण्डानां मध्ये सूर्यांशुसेविनी॥
आषाढे सोपवासा तु तृतीयायां तथा वसेत् ॥६१॥
न तस्या दुर्लभं लोके किञ्चिद्भवति भार्गव॥
माघेऽप्युपोषिता मासि रात्र्यन्ते तुहिनोत्करैः ॥६२॥
शुक्लीकृत्याखिलान्यङ्गान्यध्यास्ते शयनं यया॥
ततश्च शीततोयेन पश्चात्स्नानं समाचरेत् ॥६३॥
सापि कामानवाप्नोति यान्राम मनसेच्छति॥
पतिव्रता सदा लोला सुभगा रूपसंयुता ॥६४॥
धर्मप्रिया च भवति गौरीपूजनतत्परा॥
आषाढे दाडिमं पुष्पं मधौ कर्पाससम्भवम् ॥६५॥
निवेद्य सर्वमार्यायै सौभाग्यं महदश्नुते॥
शक्राणी च तथा पूज्या मासि भाद्रपदे भवेत् ॥६६॥
स्त्रीणां गौरीविधानेन सर्वकामप्रदा हि सा॥
प्रोष्ठपदस्य मासस्य चतुर्थ्यां द्विजसत्तम ॥६७॥
शक्राणीपूजनं कृत्वा नाकपृष्ठे महीयते॥
पूजातिथिषु सर्वासु राम ब्राह्मणपूजनम् ॥६८॥
कर्तव्यं यच्च नैवेद्यं देयं तत्सुभगासु च॥
अनभ्यर्च्य तथा गौरीं गौरीदीपं प्रपश्यति ॥६९॥
दौर्भाग्यं महदाप्नोति वर्जितं तस्य दर्शनम्॥
गौरीपूजनकामा स्त्री तस्मिन्नहनि या द्विज ॥७०॥
स्नानमुष्णाम्बुना कुर्यात्सापि सौभाग्यमश्नुते॥
सम्पूज्य विधिना गौरीं यत्रयत्राभिजायते ॥७१॥
रूपलावण्यसौभाग्ययुक्ता भवति चाप्यथ॥
नित्यं चाविधवा राम तथैव च पतिव्रता ॥७२॥
एताः पूज्यतमा स्त्रीषु दैवतास्ताः प्रकीर्तिताः॥
अतः परं तु या कुर्यात्सतीमार्गविवर्जनम् ॥७३॥
हिंसात्मकमनिर्दिष्टमशुद्धं वा द्विजोत्तम॥
देवताराधनं सा तु चिरं नरकमृच्छति ॥७४॥
ततस्तु चाप्यनायुष्यं ग्रहभूतविवर्धनम्॥
हिंसात्मका तु या नारी देवताराधने रता ॥७५॥
मूलकर्मरता भर्त्रा सा विवाह्या भृगूत्तम॥
पौंश्चल्यादपि नारीणां राम हिंसा विवर्जिता ॥७६॥
स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया॥
निर्दया राक्षसी राम पिशाची वा द्विजोत्तम ॥७७॥
अथवा सर्वमुत्सृज्य पतिपूजनतत्परा॥
केशवाराधनं कुर्याच्छ्रियश्च पुरुषर्षभ ॥७८॥
तेनैव सर्वमाप्नोति यत्किञ्चित्परमृच्छति॥
अफलं सर्वमेव स्याद्भर्त्रनुज्ञां विना कृतम् ॥७९॥
केशवाराधनं राम तथापि सफलं स्त्रियः॥
सर्वभूतानि गोविन्दो भर्ता नान्यस्तु योषितः॥
भर्त्रनुज्ञां विना तस्मात्ततः पूजा विधीयते ॥८०॥
नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः॥
नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र ॥८१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : December 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP