संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ०६१ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ०६१ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ०६१ Translation - भाषांतर पुष्कर उवाच॥राजधर्मव्रतं श्रेष्ठं कृत्वा पुरुषविग्रहम्॥पूरुषान्विनियुञ्जीत चोत्तमाधमकर्मसु ॥१॥ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा॥शतग्रामाधिपं चापि तथैव विषयेश्वरम् ॥२॥तेषां भागविभागश्च भवेत्कर्मानुरूपतः॥नित्यमेव तथा कार्यं तेषां चारैः परीक्षयेत् ॥३॥ग्रामदोषान्समुत्पन्नान्ग्रामेशः प्रशमं नयेन्॥अशक्तौ देशपालस्य स तु गत्वा निवेदयेत् ॥४॥श्रुत्वा तु देशपालोपि तत्र युक्तिमुपाचरेत्॥सोप्यशक्तः शतेशाय यथावद्विनिवेदयेत् ॥५॥शतेशो विषयेशाय सोपि राज्ञे निवेदयेत्॥अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् ॥६॥राजा सर्वात्मना कुर्याद्विषये राम रक्षणम्॥वित्तमाप्नोति धर्मज्ञ विषयाच्च सुरक्षितात् ॥७॥रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः॥परचक्रोपमर्देषु वित्तवानेव मुच्यते ॥८॥वित्तवानेव सहति सुदीर्घमपि विग्रहम्॥बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिपः ॥९॥अन्ने प्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम्॥धनवान्धर्ममाप्नोति धनवान्काममश्नुते ॥१०॥यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बन्धवाः॥यस्यार्थः स पुमाँल्लोके यस्यार्थः सोपि पण्डितः ॥११॥अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः॥विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥१२॥विशेषो नास्ति लोकेषु पतितस्याधनस्य च॥पतितानां न गृह्णन्ति दरिद्रो न प्रयच्छति ॥१३॥धनहीनस्य भार्यापि नैव स्याद्वशवर्तिनी॥गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत् ॥१४॥बान्धवा विनिवर्तन्ते धनहीनात्तथा नरात्॥यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ॥१५॥दारिद्र्यमरणे चोभे केषांचित्सदृशे मते॥सत्यं हासाद्दरिद्रस्य मृतः श्रेयान्मते मम ॥१६॥कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने॥धर्मेणैव ततः कुर्यान्नाधर्मेण कथंचन ॥१७॥धनैरधर्मसम्प्राप्तैर्यद्दृढं हि पिधीयते॥तदेव याति विस्तारं विनाशाय दुरात्मनाम् ॥१८॥सुकृतस्य पुराणस्य बलेन बलिनां वर॥यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः ॥१९॥तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा॥विनश्यन्ति समूलास्ते सपुत्रधनबान्धवाः ॥२०॥नरकेषु तथा तेषां यातना विविधाः स्मृताः॥बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ॥२१॥नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा॥यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् । २२॥गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा॥प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ॥२३॥किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः॥सुरक्षिताः प्रजास्तस्य स्वर्गस्तस्य गृहोपमः ॥२४॥अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम्॥राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥२५॥धर्मो नाम महाभाग सम्पद्रक्षण तत्परः॥अरक्षितस्तथा सर्वं पापमाप्नोति भार्गव ॥२६॥नैव किञ्चिदवाप्नोति पुण्यभाक्पृथिवीपतिः॥आपन्नमपि धर्मिष्ठं प्रजा रक्षत्यथापदि॥ २७॥तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीक्षिता॥सुभगैश्चाथ दुर्वृत्तराजवल्लभतस्करैः ॥२८॥भक्ष्यमाणाः प्रजा रक्ष्या कायस्थैश्च विशेषतः॥रक्षितास्तद्भयेभ्यस्तु प्रजा राज्ञां भवन्ति ताः ॥२९॥अरक्षिता सा भवति तेषामेवेह भोजनम्॥साधुसंरक्षणार्थाय राजा दुष्ट निबर्हणम् ॥३०॥तृणानामिव निर्माता सदा कुर्याज्जितेन्द्रियः॥शास्त्रोक्तं बलिमादद्याद्धर्मं तत्तस्य जीवितम् ॥३१॥तस्य सन्त्यजनं राजा न समृद्धोपि कारयेत्॥आकाराणि च सर्वाणि शुल्कं शास्त्रोदितो बलिः ॥३२॥दण्डं विनयनाद्राज्ञो धर्म्यं तत्तस्य जीवितम्॥धर्ता कराणां सर्वेषां प्रभुरुक्तो महीपतिः ॥३३॥निधिं पुराणं संप्राप्य केशवं तु प्रवेशयेत्॥अर्थं ब्राह्मणसात्कुर्याद्धर्मकामो महीपतिः ॥३४॥निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा॥जगतोस्य समग्रस्य प्रभुरुक्तो द्विजोत्तमः ॥३५॥निधिं ज्ञात्वा पुराणं तु क्षत्रविट्शूद्रयोनयः॥निवेदयेयुर्भूपाय राजा लब्ध्वापि तं निधिम् ॥३६॥चतुर्थमष्टमं चांशं तथा षोडशमं द्विज॥वर्णक्रमेण विसृजेदाख्यातं धर्म कारणम् ॥३७॥तेऽपि लब्ध्वा तदा तेन संविभज्य द्विजोत्तमान्॥शेषेण कुर्युः कामार्थौ विदितौ पृथिवीपतेः ॥३८॥प्रकाशविभवो लोके यस्य राज्ञः स भूपतिः॥अप्रकाशधनो यस्तु नरकं तस्य मन्दिरम् ॥३९॥ममेदमिति यो ब्रूयान्निधिं सत्येन मानवः॥तस्याददीत नृपतिर्भागमब्राह्मणस्य तु ॥४०॥चतुर्विंशतिकं राम द्वादशं षष्ठमेव च॥क्षत्रियाश्च तथा वैश्याः शूद्राश्च भृगुनन्दन ॥४१॥अनृतं च वदन्दण्ड्यः स्ववित्तस्यांशमष्टकम्॥प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ॥४२॥अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत्॥ममेदमिति यो ब्रूयादनुयुक्तो यथाविधि ॥४३॥संपाद्य रूपं द्रव्यादीन्स्वामी तद्द्रव्यमर्हति॥अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥४४॥वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति॥निधिवद्भागमादद्यात्प्रनष्टाधिगतान्नृपः ॥४५॥बालदायादिकं रिक्थं तावद्राजा तु पालयेत्॥यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ॥४६॥बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च॥पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥४७॥जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः॥ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥४८॥सर्वेषामेव वर्णानां चौरैरपहृतं धनम्॥तत्प्रमाणं स्वकात्कोशाद्दातव्यमविधारयन् ॥४९॥ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा॥चौररक्षाधिकारिभ्यो राजापि तदवाप्नुयात् ॥५०॥अहृते च तथा वित्ते हृतमित्येव वादिनम्॥निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ॥५१॥न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः॥प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥५२॥स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज॥शुल्कांशं परदेशाच्च निबोध गदतो मम ॥५३॥क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम!॥ज्ञात्वा तु कल्पयेत्तत्र शुल्कांशं पृथवीपतिः ॥५४॥तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः॥पुण्यच्छेदश्च नैव स्यात्स्वदेशे पृथवीपतेः ॥५५॥व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज॥विंशांशभागमादद्युर्दण्डनीया अतोन्यथा ॥५६॥दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु॥तदतिक्रमतो द्रव्यं राजगामि विधीयते ॥५७॥दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा॥स्त्रीणां प्रव्रजितानां च तारशुल्कं विवर्जयेत् ॥५८॥भिन्नकर्षापणं शुल्कं न ग्राह्यं पृथिवीक्षिता॥तारेषु दाशदोषेण नष्टं दाशात्प्रदापयेत् ॥५९॥दैवदोषविनष्टं च नष्टं यस्यैव तस्य तत्॥शूकधान्येषु षड्भागं शिंबिधान्येष्वथाष्टकम् ॥६०॥राजा बल्यर्थमादद्याद्देशकालानुरूपकम्॥राजांशभागमादद्याद्राजा पशुहिरण्ययोः ॥६१॥गन्धौषधिरसानां च पुष्पमूलफलस्य च॥पत्रशाकतृणानां च वत्सरेण च चर्मणाम् ॥६५॥वैदलानां च भांडानां सर्वस्याश्ममयस्य च॥षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम् ॥६३॥तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत्॥न च क्षुधावसीदेत श्रोत्रियो विषये वसन् ॥६४॥यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा॥तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥६५॥श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत्॥रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम् ॥६६॥संरक्ष्यमाणो राज्ञा यः कुरुते धर्म संग्रहम्॥तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥६७॥कर्म कुर्युर्नरेन्द्रस्य मासेनैकं च शिल्पिनः॥भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥६८॥स्नातानुलिप्ताश्च विभूषिताश्च वेश्याङ्गनावारविवर्तितेन॥संवीतगात्रः पृथिवीश्वरस्य सदाभ्युपासां परितस्त्रिकुर्युः ॥६९॥इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने राजधर्मवर्णनोनामैकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : December 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP