संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ०५१ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ०५१ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ०५१ Translation - भाषांतर पुष्कर उवाच॥दुर्गमायुधसंघातं कुञ्जरास्तुरगास्तथा॥पुरुषैश्च विना राम सर्वमेतदपार्थकम् ॥१॥तस्मात्प्रयत्नं कुर्वीत पुरुषाणां समर्जने॥तेषां चैवान्तरज्ञाने मूलमेतद्यतः श्रियः ॥२॥सुसहायार्थसम्पन्न बलं यस्य महीपतेः॥संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ॥३॥सकृद्येन कृतं पापं तस्य राजा न विश्वसेत्॥पापं तु सुकरं तस्य सुकृतश्चास्य दुष्करम् ॥४॥यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते॥तथा चलितवृत्तस्तु वृत्तशेषं न रक्षति ॥५॥राजा न वेशयेत्कार्ये जनो यो नास्तिको भवेत्॥आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं द्विज ॥६॥अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः॥कृष्णता राहुसंसर्गात्किन्न सूर्यस्य वा भवेत् ॥७॥अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः॥विचिकित्सुर्ध्रुवं राम पश्चादपि निवर्तते ॥८॥कार्यं बुद्ध्वा त्वकार्याणि यः करोति नराधमः॥अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ॥९॥लोकः सर्वो महाभाग परलोकनिबन्धनः॥निरपेक्षस्य तत्रान्या का गतिः स्यान्निबन्धने ॥१०॥महापातकिनो येऽपि तेभ्योऽपि च महत्तरः॥पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ॥११॥आस्तिकानां च साधूनां संग्रहः शस्यते सदा॥ते सहाया नरेन्द्राणां तथा ये राम पण्डिताः ॥१२॥न पण्डितो मतो राम बहुपुस्तकधारणात्॥परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥१३॥अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्॥रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥१४॥शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः॥प्रभूतनागाश्वबलोत्कटानां करोत्यरीणां कदनं रणेषु ॥१५ ॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : December 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP