संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११०

खण्डः २ - अध्यायः ११०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
भगवञ्छ्रोतुमिच्छामि कर्म काम्यमहं नृणाम्॥
कृतेन येन कामानां नरो भवति भाजनम् ॥१॥
पुष्कर उवाच॥
सर्वेषामेव कामानामीश्वरो भगवान्हरिः॥
तस्य सम्पूजनादेव सर्वान्कामानुपाश्नुते ॥२॥
स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत्॥
शुक्लैः सम्पूज्य पुष्पैश्च सप्तमस्य बलिं हरेत् ॥३॥
रक्तपित्तान्नरो घोरान्मुच्यते नात्र संशयः॥
तैलक्षौद्रघृतैर्देवं स्नापयित्वा जनार्दनम् ॥४॥
भस्मत्रयेणानुलिप्य सम्पूज्य कुसुमैः सितैः॥
पञ्चमुद्गबलिं दद्यादतीसारात्प्रमुच्यते ॥५॥
संस्नाप्य पञ्चगव्येन दत्त्वा पञ्चानुलेपनम्॥
पञ्चसस्यबलिं दत्त्वा सुखं कुष्ठात्प्रमुच्यते ॥६॥
त्रिरसस्नापितं देवं त्रिसुगन्धेन लेपितम्॥
कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्विमुच्यते ॥७॥
स्नापयित्वा तु तैलेन त्रिभिरुष्णैर्विलेपयेत्॥
पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति ॥८॥
द्विस्नेहस्नपितं देवं शीतोष्णेनानुलेपितम्॥
पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम् ॥९॥
अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना॥
पञ्चवर्णानि पुष्पाणि तथा दत्त्वा यथाविधि ॥१०॥
धूपं च पञ्चनिर्यासं दत्त्वा चैवाप्यनुत्तरम्॥
ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत् ॥११॥
अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः॥
विष्णुं सहस्रमूर्धानं चराचरगुरुं हरिम् ॥१२॥
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति॥
घृतेन स्नापितं देवं चन्दनेनानुलेपयेत् ॥१३॥
पञ्चभिर्जलजैः पुष्पैस्ततः सम्पूजयेद्विभुम्॥
धूपं दद्यात्त्रिवारं च पञ्चगव्यं तथा बलिम् ॥१४॥
पञ्चगौडं तथा राम बद्धो मुच्येत बन्धनात्॥
त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत् ॥१५॥
त्रिशीतैः कुसुमैः पूज्यं धूपं दद्यात्त्रिशीतलम्॥
त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते १६॥
शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत्॥
धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम् ॥१७॥
गुरुप्रसादमाप्नोति नात्र कार्या विचारणा॥
यमलस्नापितं देवं यमलेनानुलेपितम् ॥१८॥
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत्॥
यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः ॥१९॥
सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात्॥
सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते ॥२०॥
त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात्॥
त्रिभिः फलैः स्नापयित्वा त्रिसारेणानुलेपयेत् ॥२१॥
त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम्॥
त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥२२॥
धूपयेन्महिषाक्षेण त्रिरक्तं च बलिं हरेत्॥
रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः ॥२३॥
त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम्॥
पूजयेच्छ्वेतपद्मानां सहस्रेण महाभुजम् ॥२४॥
निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम्॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥२५॥
परमान्नं बलिं दत्त्वा यथेष्टं काममाप्नुयात्॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥२६॥
अपूपैः परमान्नेन कुल्माषेण च पूजयेत्॥
आम्रातकानां मुख्यानां ततस्त्वष्टाधिकं शतम् ॥२७॥
क्षौद्रन्त्रिवृत्तं देवाय यथावद्विनिवेदयेत्॥
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ॥२८॥
पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम्॥
त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥२९॥
रक्तपुष्पैः समभ्यर्च्य त्रिभिरेव यथाविधि॥
त्रिरक्तं च बलिं दत्त्वा हुत्वा वै सर्षपत्रयम् ॥३०॥
त्रिलोहं दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात्॥
त्रिफलस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥५३१॥
त्रिशीतं च बलिं दत्त्वा पुन्नामकुसुमानि च॥
पुन्नामकानि मुख्यानि फलानि विविधानि च ॥३२॥
पुत्रजन्म समाप्नोति नात्र कार्या विचारणा॥
घृतेन स्नापितं देवं त्रिरक्तेनानुलेपितम् ॥३३॥
कृत्वा तदेव धूपं तु दत्त्वा क्षीरं निवेदयेत्॥
घृतपूरं बलिं दत्त्वा नरः प्राप्नोति जीविकाम् ॥३४॥
क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम्॥
तदेव धूपं दातव्यं जातीपुष्पाणि चाप्यथ ॥३५॥
पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम्॥
गां च दत्त्वा महाभाग गाः समाप्नोति मानवः ॥३६॥
यमलस्नापितं देवं यमलेनानुलेपितम॥
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥३७॥
यमलं च बलिं दत्त्वा जुहुयादक्षतांस्तथा॥
तिलसिद्धार्थकयुतान्सर्पिः क्षीरं घृतं तथा ॥३८॥
अश्वं च दक्षिणां दत्त्वा हयान्प्राप्नोत्यनुत्तमान्॥
घृतेन स्नापितं देवं तथैव घृतलेपितम् ॥३९॥
पुष्पैश्चतुर्भिः सम्पूज्य धूपं दत्त्वा चतुःसमम्॥
त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम् ॥४०॥
त्रिशुकं च तथा हुत्वा त्रिस्नेहेन समन्वितम्॥
त्रिलोहं दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात् ॥४१॥
मधुरत्रितयेनाथ स्नापयित्वा जनार्दनम्॥
अनुलिम्पेत्त्रिशीतेन पूजयेच्चमकैस्तथा ॥४२॥
धूपं दहेत्त्रिशीतेन दद्यात्त्रिमधुरं बलिम्॥
मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च ॥४३॥
सर्वभूतैः सहाप्नोपि सख्यमेव न संशयः॥
घृतेन स्नापितं देवं वचया निशया तथा ॥४४॥
चन्दनेनानुलिम्पेत्तु जातीपुष्पैरथार्चयेत्॥
घृतक्षौद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम् ॥४५॥
त्रिशूकं च बलिं दत्त्वा तथा त्रिलवणं नरः॥
कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम् ॥४६॥
चन्दनमाज्यं जाती परमान्नं गुग्गुलुं च देवाय॥
दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति ॥४७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दशोत्तरशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP