संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३०

खण्डः २ - अध्यायः ०३०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
उत्तरेण शुभः प्लक्षो वटः प्राग्भार्गवोत्तम॥
उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ॥१॥
एते क्रमेण नेष्यन्ति दक्षिणादिसमुद्भवाः॥
समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥२॥
वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम्॥
वापयेत्प्राक्तिलांस्तत्र मृन्दीयात्तांश्च पुष्पितान् ॥३॥
ततस्तु रोपयेद्वृक्षान्प्रयतः सुसमाहितः॥
स्नातो द्रुममथाभ्यर्च्य ब्राह्मणांश्च शिवं तथा ॥४॥
ध्रुवाणि पञ्च वायव्यं हस्तः पुष्यः सवैष्णवः॥
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ५५॥
उद्यानं सजलं राम नाभिरामं यदा तदा॥
प्रवेशयेन्न विपट (कुरुहान् )पुष्करिण्यश्च कारयेत् ॥६॥
संस्कार्यमुद्भिदं तोयं कूपाः कार्याः प्रयत्नतः॥
हस्तं मघा तथा मैत्रं सौम्यं पुष्यं च वासवम् ॥७॥
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी॥
जलाशयसमारंभे प्रशस्ते वारुणं तथा ॥८॥
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च॥
तर्पयित्वा द्विजान्कामैस्तदारंभकरो भवेत् ॥९॥
अथोद्याने प्रवक्ष्यामि प्रशस्तान्पादपान्द्विज॥
अरिष्टाशोकपुन्नागशिरीषाम्रप्रियङ्गवः ॥१०॥
पनसाशोकदचलीजम्बूलकुचदाडिमाः॥
माङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥११॥
कृत्वा बहुत्वमेतेषां रोप्यास्सर्वे ह्यनन्तरम्॥
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् ॥१२॥
असनं देवदारुं च पलाशं पुष्करं तथा॥
न विवर्ज्यस्तथा कश्चिद्देवोद्यानेषु जानता ॥१३॥
तत्रापि बहुता कार्या माङ्गल्यानां द्विजोत्तम॥
सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे ॥१४॥
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः॥
उत्तमं विंशतिर्हस्तं मध्यमं षोडशांतरम् ॥१५॥
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम्॥
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ॥१६॥
अव्यक्तमिश्रमूलत्वाद्भवन्ति विफला द्विज॥
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ॥१७॥
आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत्॥
विडङ्गघृतपङ्काक्तान्सेचयेच्छीतवारिणा ॥१६॥
फलनाशे कुलुत्थैश्च माषैर्मुद्गैस्तिलैर्यवेः॥
श्रितशीतपयस्सेकः फलपुष्पाय सर्वदा ॥१९॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च॥
गोमांसमुदकं चेति सप्तरात्रं निधापयेत् ॥२०॥
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम्॥
रंगतोयोषितं बीजं रंगतोयाभिषेचितम् ॥२१॥
उदग्रपुष्पं भवति यौवने नात्र संशयः॥
मत्स्याम्भसा तु सिक्तेन वृद्धिर्भवति शाखिनाम् ॥२२॥
ततः प्रधानतो वक्ष्ये द्रुमाणां दोहदान्यहम्॥
मत्स्योदकेन शीतेन चाम्राणां सेक इष्यते ॥२३॥
मृद्वीकानां तथा कार्यस्तेनैवं रिपुसूदन॥
पक्वासृग्रुधिरं चैव दाडिमानां प्रशस्यते ॥२४॥
तुषं देयं च भव्यानां मद्यं च बकुलद्रुमे॥
विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणं च यत् ॥२५॥
प्रशस्तं चाप्यशोकानां कामिनीपादताडनम्॥
सृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ॥२६॥
मधुयष्ट्युदकं चैव बदराणां प्रशस्यते॥
गन्धोदकं च गोमांसं कतकानां प्रशस्यते ॥२७॥
क्षीरसेकेन भवति सप्तपर्णो मनोहरः॥
मांसपूतो वसामज्जासेकः कुरबके हितः ॥२८॥
पूतिमत्स्यघृतं पूतिकर्पासाफलमेव च॥
अरिमेदस्य सेकोऽयं पाटलेषु च शस्यते ॥२९॥
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत्॥
जातीनां मल्लिकायाश्च गन्धतोयं परं हितम् ॥३०॥
तथा कुब्जकजातीनां कूर्ममांसं प्रशस्यते॥
खर्जूरनारिकेराणां वंशस्य कदलस्य च ॥३१॥
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः॥
विडङ्गः तण्डुलोपेतं मत्स्यमांसं भृगूत्तम॥
सर्वेषामविशेषेण दोहदं परिकल्पयेत ॥३२॥
एवङ्कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च॥
भवन्ति नित्यं तरवः सरस्याश्चिरायुषः साधुफलान्विताश्च ॥३३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वृक्षायुर्वेदवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP