संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः १२४ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः १२४ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः १२४ Translation - भाषांतर ॥राम उवाच॥वैदिकानि समाचक्ष्व कर्माणि सुरसत्तम॥अधिकारी भवेद्येषां कृच्छ्रकारी त्वनन्तरम् ॥१॥पुष्कर उवाच॥शृणु काम्यानि कर्माणि पुष्कलानि ममानघ॥प्रतिवेदं महाभाग गदतो भृगुनन्दन ॥२॥अन्तर्जले तथा होमे जपेच्च मानसेप्सितम्॥कामं करोति गायत्री प्राणायामाद्विशेषतः ॥३॥गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज॥बहिः स्नातस्य तत्रैव सर्वकल्मषनाशनः ॥४॥दशायुतानि जप्त्वा च हविष्याशी सुसंयतः॥वायुभूतस्तदाप्नोति यद्विष्णोः परमं पदम् ॥५॥परस्य ब्रह्मणो राम वाचकः प्रणवः स्मृतः॥पुरुषस्याप्रमेयस्य सर्वगस्याविनाशिनः ॥६॥तज्जपेनेह पूयन्ते येऽपि दुष्कृतकारिणः॥कारपूतं सलिलं नाभिमात्रोदकस्थितः ॥७॥शतजप्तं पिबेद्यस्तु स पापैर्विप्रमुच्यते॥अकारश्चाप्युकारश्च मकारश्च भृगूत्तम ॥८॥यजुर्वेदः सामवेद ऋग्वेदश्च विचक्षणैः॥कथितस्तु त्रिमात्रश्च प्रणवः परिकीर्तितः ॥९॥मात्रात्रयं तु प्रणवस्त्रयो देवाः सनातनाः॥एत एव त्रयो लोकास्त्रयश्चैवाग्नयस्तथा ॥१०॥महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते॥महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः ॥११॥गायत्री परमा जप्ये होमे व्याहृतयस्तथा॥अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः ॥१२॥अग्निमीळे पुरोहित सूक्तोऽयं वह्निदेवतः॥शिरसा धारयेद्वह्निं यो जपेत्परिवत्सरम् ॥१३॥होमं त्रिषवणं चैव तथा तेन समाचरेत्॥अनग्निज्वलनं कुर्याद्भैक्षाहारस्तु वत्सरान् ॥१४॥अतः परमृचः सप्त चाग्नेय्यः परिकीर्तिताः॥ता जपन्प्रयतो नित्यमिष्टान्कामान्समश्नुते ॥१५॥मेधाकामो जपेन्नित्यं सदसत्पदमित्यृचम्॥अम्बयो यान्ति याः प्रोक्ता न बन्धोमृत्युनाशिनी ॥१६॥शुनःशेफमृषिं तद्वत्संनिरुद्धोऽथ वा जपेत्॥मुच्यते सर्वपापेभ्यो गदाचापगदी गदन् ॥१७॥यदीच्छेच्छाश्वतं काममिन्द्रात्प्राप्तं पुरन्दरात्॥ऋग्भिः षोडशभिः स्तूयादिन्द्रमेति दिनेदिने ॥१८॥हिरण्यस्तूपमित्येतज्जपञ्शत्रून्प्रबाधते॥क्षेमी भवति चाध्माने ये ते पक्ता जपन्नरः ॥१९॥रौद्रीभिः षड्भिरीशानं स्तूयाद्यो वै दिनेदिने॥चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ॥२०॥उदित्युद्यन्तमादित्यमुपतिष्ठेद्दिनेदिने॥क्षिपेज्जलाञ्जलीन्सप्त मनोदुःखविनाशनम् ॥२१॥द्विषन्तमित्यथानर्च्य द्विष्यन्तं च जपन्स्मरेत्॥अगच्छन्सप्तरात्रेण विद्वेषमधिगच्छति ॥२२॥आरोग्यकामो रोगी च प्रस्कन्नस्योत्तमं जपेत्॥उत्तमस्तस्य चावजपेद्वैरविनाशने ॥२३ ॥उदयत्यायुरक्षय्यं तेजोमध्यन्दिने जपेत्॥अस्तं व्रजति सूर्ये च द्विषन्तं प्रतिपादितम् ॥२४॥नवपद्येति सूक्तानि जपञ्शत्रून्नियच्छति॥एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत् ॥२५॥आध्यात्मिकैः क इत्येतज्जपन्मोक्षमवाप्नुयात्॥आसनो रुद्रमित्येतद्दीर्घमायुरवाप्नुयात् ॥२६॥त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरम्॥उपतिष्ठेत्समित्पाणिर्वासांस्याप्नोत्यसंशयम् ॥२७॥आयुरिप्सन्निदमिति कौत्ससूक्तं यदाभ्यसेत्॥अप नः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् ॥२८॥यथा मुञ्जादिवेषीका तथा पापं प्रमुञ्चति॥जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ॥२९॥भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम्॥व्युष्टायां च तथा रात्रावेतद्दुःस्वप्ननाशनम् ॥३०॥प्रमन्दितेति सूर्यस्य जपेद्गर्भविमोचनम्॥जपन्निन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम् ॥३१॥मुञ्चत्याज्यं तथा जुह्वत्सकलं किल्बिषं नरः॥इमामिति जपञ्शश्वत्कामानाप्नोत्यभीप्सितान् ॥३२॥मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचि॥औदुम्बरीस्तु जुहुयाद्दधिमध्वाज्यसंस्कृताः ॥३३॥छित्वा सर्वान्मृत्युपाशाञ्जीवेद्रोगविवर्जितः॥ऊर्ध्वबाहुरनेनैव स्तुत्वा शस्त्रं तथैव च ॥३४॥मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः॥अदृश्यः सर्वभूतानां जायते संशयं विना ॥३५॥चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा॥समित्पाणिर्नरो नित्यं प्राप्नुयात्तु धनायुषी ॥३६॥एतद् दुःस्वप्नस्येति च जपन्प्रातर्दिनेदिने॥दुःस्वप्नं दहते कृत्स्नं भोजनं चाप्नुयाच्छुभम् ॥३७॥उभेषुनामीति तथा रक्षा च परिकीर्तिता॥निर्वर्त्य पञ्चयज्ञांश्च हुत्वा चाग्निं कृताह्निकः ॥३८॥देवासाविति देव्येदं जपन्कामानवाप्नुयात्॥आततायिनमायान्तं दृष्ट्वा व्याघ्रादिकं नरः ॥३९॥न मा गिरन्निति जपंस्तेभ्य एव प्रमुच्यते॥कया शुभेति च जपञ्ज्ञातिश्रैष्ठ्यमवाप्नुयात् ॥४०॥इमं नु सोममित्येतत्सर्वान्कामानवाप्नुयात्॥पित्रन्त्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् ॥४१॥नास्य स्यादन्नतो व्याधिर्विषमप्यन्नतामियात्॥अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद् घृतम् ॥४२॥पक्वान्नं प्रतिपद्येत कृत्वा चाकर्म गर्हितम्॥वीरान्वयं समाप्नोति सश्लोकं यो जपेत्सदा ॥४३॥कं कता चेति सूक्तेन विघ्नान्सर्वानपोहति॥यो जात इति सूक्तेन सुखमाप्नोत्यनुत्तमम् ॥४४॥ये पराजन्नितीमां तु दुःस्वप्नशमनामृचम्॥एकामाहमितीयां तु विज्ञेया श्रीकरी तथा ॥४५॥चतुर्दशीमुपोष्यैकां कृष्णासु जुहुयाद् घृतम्॥आत्तसूक्तेन रौद्रेण व्याधिमेकं विमुञ्चति ॥४६॥स्नात्वानश्नञ्जपेदप्सु शीतत्रयमतन्द्रितः॥आमिषस्येतयोर्मोहात्कृत्वा वा कर्म गर्हितम् ॥४७॥अध्वनि प्रस्थितो यस्तु पश्येच्छकुनमुत्थितम्॥अप्रशस्ते प्रशस्ते वा कनिक्रदमिदं जपेत् ॥४८॥अस्पृष्ट्वैव च जप्तव्यमेतत्तस्करमोहनम्॥[१]ॐष्वित्यृचमपां मध्ये जपेद्यो वै नदीं तरेत् ॥४९॥उद्धौर्मिभिरितीमां तु जपेद्रथगतस्तरन् ॥अध्वानं प्रस्थितश्चैव मन्त्रैरिति च संस्मरेत् ॥५०॥सुदातारं सुपुष्ट्यर्थं सर्ववेदे स्थितं नरम्॥नास्ति विद्यागमो यस्य सुयुक्तस्यापि भार्गव ॥५१॥स सर्पीरिति च जपन्मासात्तं प्रतिपद्यते॥यानाक्षं समभज्यन्तं दृष्ट्वा दुर्गेऽध्वनि द्विज ॥५२॥अभित्यवस्येति जपेदृक्षमक्षबलं दधत्॥कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितः शुचिः ॥५३॥दक्षिणाप्रवणे देशे श्मशानस्थः समाहितः॥रक्तोष्णीष्यसिपाणिश्च तौलाकीभ्योऽनिलाशनः ॥५४॥सप्ताहं जुहुयात्तैलं सार्षपं लवणान्वितम्॥समिधो राजवृक्षस्य वसिष्ठे द्वेषिणीः पठन् ॥५५॥यं द्विष्यात्तस्य कृत्वा तु शम्या केनाहृतं निशि॥अधिष्ठाय च तं कुर्यादृग्भिश्च तिसृभिर्द्विजः ॥५६॥उद्दिश्य राम होमोऽयं सप्तरात्रं न जीवति॥द्वाविंशकं जपन्सूक्तमध्यात्मिकमनुत्तमम् ॥५७॥पर्वसु प्रयतो नित्यमिष्टान्कामानुपाश्नुते॥बृहस्पतिमजाश्वं च सतारं बभ्रुमेव च ॥५८॥पञ्चर्चेन स्तुवन्नेतान्पञ्चकामानवाप्नुयात्॥कृणुष्वेति जपन्सूक्तं जुह्वदाज्यं समाहितः ॥५९॥अरातीनां हरेत्प्राणान्रक्षांस्यपि च नाशयेत्॥उपतिष्ठेत यो वह्निं परीत्य च दिने दिने ॥६०॥तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः॥को अद्येति च सूक्तेन वासांसि लभते परम् ॥६१॥कायेति वामदेवेन कुर्यात्स्वस्त्ययनं निशि॥हंसः शुचिषदित्येतच्छुचिरीक्षन्दिवाकरम् ॥६२॥कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि॥जुहुयात्क्षेत्रमध्ये तु शुना वाहस्तु पञ्चभिः ॥६३॥इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च॥यथालिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ॥६४॥पूष्णे धान्याय सीतायै शुनासीरमथोत्तरम् ॥गन्धमाल्योपहारैश्च यजेदेताश्च देवताः ॥६५॥प्रवापणे प्रलपने खलसीतोपहारयोः॥अमोघं कर्म भवति वर्धते सर्वदा कृषिः ॥६६॥क्षेत्रस्य पत्ये तत्क्षेत्रं सूर्यदृग्विन्दते भुवम्॥आखूत्करेषु चरणौ यजेदेतेन मूषिकाम् ॥६७॥चित्रा इन्द्रेति च स्तूयान्नास्य वृष्टिभयं भवेत्॥विज्येतिष्येति ज्वलयेद्यत्रेच्छेज्जातवेदसम् ॥६८॥समुद्रादिति सूक्तेन कामानाप्नोति पावकात्॥विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति ॥६९॥स तरत्यापदः सर्वाः यशः प्राप्नोति चाक्षयम्॥अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम् ॥७०॥उरोष्ट इति(५३८१) सूक्तेन वित्तमाप्नोत्यसंशयम्॥प्रजाकामो जपेन्नित्यं वरुणादेवसन्नया ॥७१॥स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत्॥स्वस्तिपन्थामिति प्रोद्य स्वस्तिमान्व्रजतेऽध्वनि ॥७२॥विजहीषुर्वनस्यान्ते शत्रूणां बाधनं भवेत्॥स्त्रियो गर्भप्रमूढाया गर्भमोक्षणमुत्तमम् ॥७३॥अवच्छादिति सूक्तेन वृष्टिकामः प्रयोजयेत्॥निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥७४॥श्रियः पञ्चदशर्चं तु जपञ्जुहुयाद् घृतेन वा॥उपैतु मां देवसख इति सर्वौषधीजलैः ॥७५॥सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम्॥मनसः काम इत्येतां पशुकामो नरो जपेत् ॥७६॥कर्दमेनेति च स्नायात्प्रजाकामः शुचि व्रतः॥अश्वपूर्वामिति स्नायाद्राज्यकामस्तु मानवः ॥७७॥रोहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि॥राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ॥७८॥दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः॥अप्सु वा जुहुयाद्राम पद्मान्ययुतशोऽग्निषु ॥७९॥इष्टान इत्यृचा वह्निं स्तुवञ्शत्रून्विनाशयेत्॥आचार इति सूक्तेन गोष्ठे गां लोकमातरम्॥८०॥उपतिष्ठेद्व्रजेच्चैव य इच्छेद्गाः सदाक्षयाः॥वाक्सिद्धिं तु स्तुवञ्शक्रं महद्धनमवाप्नुयात् ॥८१॥उपैतेति मृती राज्ञो दुन्दुभीनभिमन्त्रयेत्॥तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति ॥८२॥तृणपाणिर्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः॥ये के च मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात्॥८३॥यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि॥सौमारौद्रं जपन्सूक्तं सर्वपापैः प्रमुच्यते॥८४॥जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत्॥यथालिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥८५॥अग्निं नरेति सूक्तेन स्तुवन्नग्निं सुखी भवेत्॥प्राणपेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ॥८६॥अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत्॥शंवतीः शन्न इन्द्राग्नी जपेद्व्याधिविनाशनम् ॥८७॥समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जयावहम् ।वास्तोष्पते प्रतीत्येतत्सूक्तं वातोष्पतेर्जपेत् ॥८८॥अनीवहेति सूक्तेन भूतान्निःस्वापयेन्निशि॥सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित् ॥८९॥पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत्॥त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् ॥९०॥तेनायुतशतं पूर्णं जुहुयात्त्र्यम्बकेत्यृचा॥समुद्दिश्य महादेवं जीवेदब्दशतं सुखी ॥९१॥तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरम्॥उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः ॥९२॥व्युषा इत्युपतिष्ठेत यः प्रातः प्रयतः शुचिः॥प्राप्नुयात्सहिरण्यादि नानारूपधरं बहु ॥९३॥ध्रुवं सन्ध्यासु क्षितिषु जपन्बद्धः प्रमुच्यते॥इदमापः प्रवहत यत्किंचिद्दुरितं पुनः ॥९४॥अपः प्रविश्य तु जपन्सर्वपापैः प्रमुच्यते॥सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात् ॥९५॥सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पोदकस्थितः॥उपतिष्ठन्रविं देवं पञ्चरात्रे गते नरः ॥९६॥अनश्नन्भार्गवश्रेष्ठ महद्धर्षमवाप्नुयात्॥इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् ॥९७॥यस्य लुप्येद्व्रतं मोहाद्वात्यैर्वा संसृजेत्सह॥उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति ॥९८॥आदित्यदृक्प्रमाद्रौजं जप्त्वा वादी जयी भवेत्॥समग्निरग्निभिश्चेति प्रपद्येद्वायुभास्करौ ॥९९॥अग्निं प्रथमतः स्तुत्वा महत्कष्टात्प्रमुच्यते॥न हीति च चतुष्केण मुच्यते महतो भयात् ॥१००॥ऋचं जप्त्वा य इत्येतत्सर्वान्कामानवाप्नुयात्॥प्राग्भोजनमिदं ब्रह्म मानवानां महर्षिणाम् ॥१०१॥पूर्वाह्णे जपतो नित्यं त्वर्थसिद्धिः परा भवेत्॥अग्निनेत्याश्विनं सूक्तं मृजाकरमुदाहृतम् ॥१०२॥समिधेति जुहोत्यग्नौ प्राप्नुयात्कीर्तिमुत्तमाम्॥द्विचत्वारिंशकं चैन्द्रं जप्त्वा नाशयते रिपून् ॥१०३॥नाशं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च॥दुःस्वप्नघ्नाः परा जप्या नरः पापैः प्रमुच्यते ॥१०४॥शन्नो भवेति द्वाभ्यां तु भुक्त्वान्नं प्रयतः शुचिः॥हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते ॥१०५॥अहोरात्रोषितः स्नात्वा शक्रं सम्पूज्य मानवः॥इत इत्याज्यमुत्पूय जुहुयादिन्द्रमचर्येत् ॥१०६॥घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते॥तत्त्वामन्दमिति स्नातो हुत्वा शत्रून्प्रमापयेत् ॥१०७॥तान्विद्यादित्यदैवत्यं जप्त्वा मुच्येत बन्धनात्॥यद्द्याव इति जप्त्वा च सर्वान्कामान्समश्नुते ॥१०८॥पवित्राणां पवित्रं तु पावमानऋचः स्मृताः॥वैखानसऋचस्त्रिंशत्पवित्राः परमाः स्मृताः ॥१०९॥ऋचां द्विषष्टिः प्रोक्तं चोपवसेदृषिसत्तमैः॥सर्वकल्मषनाशाय पावनाय शिवाय च ॥११०॥स्वादिष्टयेति सूक्तानां सप्तषष्टिरुदाहताः॥दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् १११॥एतज्जुह्वञ्जपंश्चैव घोरं मृत्युभयं जयेत्॥आध्यात्मिकं पवित्रं च सूक्तं जप्त्वाल्पतः क्वचित् ॥११२॥गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम्॥आपोहिष्ठेति महतः प्रयुञ्जीतोदकस्थितः ॥११३॥सर्वपापविनिर्मुक्तस्त्वशेषफलमश्नुते॥उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ॥११४॥चतुर्दश्या तु कुर्वीत स्थालीपाकं यथाविधि॥परेयिवांसमित्येतत्सूक्तमत्र प्रयोजयेत् ॥११५॥पुरायुषः प्रमीयेत न स जातु कथञ्चन॥मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज ॥११६॥वैशाख्यां पौर्णमास्यां तु नक्तभोजी सदा नरः॥पुरायुषः प्रमीयेत न स जातु कथञ्चन ॥११७॥फलाहारो जयेन्मृत्युं त्रिभिर्वर्षैः सदा नरः॥दशाक्षरं तु शान्त्यर्थं भद्रं न इति संस्मरन् ॥११८॥फलाहारो भवेन्मासं मासान्मासं पयः पिबेत्॥वायुभक्ष्यो भवेन्मासं जपन्नेतत्सहस्रशः ॥११९॥अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान्॥प्रदेवतेति नियतो जपेत मरुधन्वसु ॥१२०॥प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति॥वैभीतकांस्तु त्रीनक्षान्गन्धैः समधिवासयेत् ॥१२१॥पुष्पैरवकिरेच्चैव स्थापयित्वा विहायसि॥संहृत्य पादौ तौ तत्र तिष्ठेद्दक्षस्तुतिं जपेत् ॥१२२॥प्रावे मासेत्यृचामेकां जपेच्च मनसा निशि॥व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ॥१२३॥अब्रध्नमुषसानक्तेत्येतत्स्वस्त्ययनं जपेत्॥नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः ॥१२४॥तथाज्यं जुहुयान्नित्यं भीतिभ्यो विप्रमुच्यते॥देवस्यरीति नित्यं तु जपेद्देवं समश्नुते ॥१२५॥मा प्रगामीति मूढस्तु पन्थानं पथि विन्दति॥क्षीणायुरिति मन्येत यं कचित्सुहृदं प्रियम् ॥१२६॥यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत्॥सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः ॥१२७॥स्रुक्स्रुवे दशमेनैव इध्ममौदुम्बरं भवेत्॥इदमिध्मेति जुहुयाद् घृतं प्राज्ञः सहस्रशः ॥१२८॥पशुकामो गवां गोष्ठे अन्नकामश्चतुष्पथे॥पारावतः स्वस्त्ययनं स्नातकस्य विधीयते ॥१२९॥बृहस्पते प्रथममिति ज्ञानकामस्य भार्गव॥वयः सुपर्णमित्येतां जपन्वै विन्दते श्रियम् ॥१३०॥यस्ते मन्यो इति सदा मयत्नघ्नं विधीयते॥हविष्मतीयमभ्यस्य सर्वपापैः प्रमुच्यते ॥१३१॥या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ॥तस्य माया विनश्येत कायाग्निर्वर्धते तथा ॥१३२॥बृहस्पतिः प्रतीत्येतद् वृष्टिकामः प्रयोजयेत्॥सर्वत्र तु परा शक्तिर्ज्ञेया प्रतिरथा तथा ॥१३३॥भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम्॥अहं रुद्रेभिरित्येतद्वाग्ग्मी भवति मानवः ॥१३४॥न योनौ जायते विद्वांञ्जपन्नत्रीति रात्रिषु॥रात्रिसूक्तं जपन्रात्रौ रात्रिक्षेमी भवेन्नरः ॥१३५॥या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम्॥आयुष्यं चैव वर्चस्यं सूक्तं दाक्षायणं महत् ॥१३६॥उत देवा इति जपेदामयघ्नं धृतव्रतः॥अग्ने अग्नाव इत्येद्धनकामः प्रयोजयेत् ॥१३७॥वैभीतकेऽब्दं हुत्वाग्निं द्विषद्द्वेषं ततो जपेत्॥द्विषन्तु धन्विनं हुत्वा द्विषतो विन्दते धनम् ॥१३८॥अयमग्ने जनितेति जपेदग्निं भये सति॥द्विमार्जन्निति पाठं तु जपन्नुत्थापयेद्द्विजः ॥१३९॥प्रातश्च पाठयेदेनं संसदि ब्रह्मचारिणाम्॥इमामिति च सूक्तेन शतकृत्वोऽभिमन्त्रितम् ॥१४०॥घृतेन पीत्वा तं प्रातः सपत्नीभिर्विमुच्यते॥अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् ॥१४१॥श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामविवर्धनम्॥ब्राह्मी यद्यस्य सूक्ते द्वे जपेत नियतः सदा ॥१४२॥शंखपुष्पीं तु पयसा ब्राह्मीपुष्पाणि सर्पिषा॥शतावरी तु पयसा वचामद्भिर्घृतेन वा ॥१४३॥सूक्ताभ्यां ह्यनुमन्त्राभ्यां चैकैकं तु त्र्यहं पिबेत्॥श्रद्धां मेधां स्मृतिं पुष्टिं वर्णं लक्ष्मीं च विन्दति ॥१४४॥शासन्नर्थाञ्जपन्नित्यं संग्रामे विजिगीषतः॥गृहीतदक्षिणादर्भान्गृहीत्वा संस्पृशेज्जपेत् ॥१४५॥मुञ्चामि त्वा हविषेति यक्ष्माणमपकर्षति॥ब्रह्मणाग्निः संविदानं गर्भमृत्युविनाशनम् ॥१४६॥अपेहीति जपेत्सूक्तं शुचिर्दुःस्वप्ननाशनम्॥देवाः कपोत इति तु कपोतस्योपवेशने ॥१४७॥कौशिकस्य जपेत्सूक्तं घृतेन जुहुयात्तथा॥सपत्नघ्नं प्रयुञ्जीत ऋषभं जपहोमयोः ॥१४८॥येनेदमिति जप्त्वा वै समाधिं विन्दते पराम्॥मयोभूर्वात इति तु गवां स्वस्त्ययनं परम् ॥१४९॥यवानां च घृताक्तानां गोमयाग्नौ समाहितः॥जुहुयाद्गोष्ठ मध्ये तु दधिमध्वाज्यसंस्कृतम् ॥१५०॥पतन्तमिति नित्यं तु जपेत विजने वने॥शाम्बरीमिन्द्रजालां वा मालामेतेन धारयेत् ॥१५१॥अदृश्यानां च सत्त्वानां मायामेतेन बाधते॥न प्रतिष्ठेति स्वस्त्ययनं नारीगर्भविवर्धनम् ॥१५२॥विष्णुर्ण्यानमितीमं च तथैवापरमुच्यते॥महित्यृणां मवोस्विति परिस्वस्त्ययनं जपेत् ॥१५३ ।प्रापयेद्विद्विषद्वेषं जपेच्च रिपुनाशनम्॥आयङ्गौः सप्तराज्ञस्तु सर्पानेतैः प्रसाधयेत् ॥१५४॥संसमिद्युवसेच्चैतत्सौभ्रातृकरणं महत॥तच्छंयोरावृणीमहे जपेत्स्वस्त्ययनं सदा ॥१५५॥पितॄणां संहितां विद्यात्पितॄन्प्रीणाति वै तथा॥वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताम् ॥१५६॥तल्लिङ्गैर्देवतामन्त्रैर्देवाराधनमुच्यते॥जपस्येष विधिः प्रोक्तो हुते यज्ञे विशेषतः ॥१५७॥होमान्ते दक्षिणा देया यथाशक्त्या च भार्गव॥हुतेन शम्यते पापं हुतमन्नेन शम्यते ॥१५८॥अन्नं हिरण्यदानेन अमोघा ब्राह्मणाशिषः॥सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ॥१५९॥क्षीरवृक्षास्तथेध्माश्च सर्वकामप्रदाः स्मृताः॥समिधः कण्टकिन्यश्च राजिका रुधिरं विषम् ॥१६०॥तैलं च भृगुशार्दूल विज्ञेयमभिचारकम्॥सक्तवः फलमूलानि शाकानि विविधानि च ॥१६१॥पयो दधि सुवर्णं च भैक्ष्यं नाशनमुच्यते॥हविःस्नानं च कर्तव्यं सर्वत्र भृगुसत्तम ॥१६२॥ऋचां विधानं कथितं तवैतत्समासतः कर्मकरं द्विजानाम्॥ततो विधानं यजुषां निबोध समासतो धर्मभृतां वरिष्ठ ॥१६३॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० ऋग्विधानं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥१२४॥ N/A References : N/A Last Updated : December 20, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP