खण्डः २ - अध्यायः ०१७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
पुरा सुमेरुशिखरे काञ्चने रत्नपर्वते॥
स्वर्गङ्गायास्तटे ब्रह्मा यज्ञं यजति भार्गव ॥१॥
तस्मिन्यज्ञे स ददृशे विघ्नं खे लोहदानवम्॥
विघ्नस्य शमनं तस्य चिन्तयामास तत्त्ववित् ॥२॥
तदा चिन्तयतस्तस्य पुरुषः पावकाद्बभौ॥
नीलोत्पलदलश्यामः स्वरुचा वञ्चितेक्षणः ॥३॥
प्रांशुः सुवदनः श्रीमान्बलेनाप्रतिमो भुवि॥
स ववन्दे तदा गत्वा देवं कमलसम्भवम् ॥४॥
अभ्यनन्दन्त जातेन तेन देवास्सवासवाः॥
तस्मात्स नन्दको नाम खङ्गरत्नमभूत्तदा ॥५॥
तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत्॥
खड्गं गृह्णीष्व गोप्तारं धर्मस्य जगतां पते ॥६॥
यज्ञविघ्नकरं हत्वा खड्गेनानेन केशव॥
निपातय महाबाहो बलिनं लोहदानवम् ॥७॥
इत्येवमुक्तो जग्राह ग्रीवया तं जनार्दनः॥
गृहीतमात्रे देवेन विकोशः समपद्यत ॥८॥
खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः॥
रत्नमुष्टिर्महान्राम निर्मलाकाशसन्निभः ॥९॥
एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान्॥
करालः कृष्णवदनः शतबाहुर्महोदरः ॥१०॥
प्रांशुः सुवृत्तदंष्ट्राग्रो बलवाँल्लौहदानवः॥
यज्ञविघ्नार्थिनं प्राप्तं स दृष्ट्वा लोहदानवम् ॥११॥
खड्गमादाय वेगेन ययौ तं प्रति केशवः॥
स केशवमनादृत्य देवाञ्छक्रपुरोगमान् ॥१२॥
विद्रावयामास तदा गदया भीमवेगया॥
तदा भग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम् ॥१३॥
खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे॥
खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले ॥१४॥
निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः॥
नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव ॥१५॥
लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु॥
हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः ॥१६॥
त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले॥
आयुधानि च तैर्लोके करिष्यन्तीह मानवाः ॥१७॥
एवमुक्त्वा हरिर्देवो ब्राह्मणं वाक्यमब्रवीत्॥
विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो ॥१८॥
एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम्॥
आत्मना पूजयामास सुसमिद्धमनोरथः ॥१९॥
उत्पत्तिरुक्ता खड्गस्य लोहस्य च मया तव॥
अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ॥२०॥
प्रधानदेहसंभूतैर्दैत्यास्थिभिररिन्दम॥
लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः ॥२१॥
कटीकदूरऋषिकं वङ्गे शूर्पाकरेषु च॥
विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु ॥२२॥
सहग्रामेषु नीपेषु तथा कालञ्जरेपि च॥
लौहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम् ॥२३॥
कटीकदूरजाता ये दर्शनीयास्तु ते स्मृताः॥
कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा ॥२४॥
तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारिकोद्भवाः॥
सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः ॥२५॥
अंगदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः॥
कालिञ्जरा भारसहास्तथा वक्ष्यामि लक्षणम् ॥२६॥
सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः॥
प्रमाणं तत्र विज्ञाय ततो हीनं न धारयेत् ॥२७॥
प्रमाणाभ्यधिकं चैव च्छिन्नवंशं तथैव च॥
शीघ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव ॥२८॥
किङ्किणी सदृशस्तस्य धारणं श्रेष्ठमुच्यते॥
खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ॥२९॥
करवीरपलाशाग्रसदृशस्य विशेषतः॥
महीघृतसुगन्धश्च पद्मोत्पलसुगन्धिकः ॥३०॥
वर्णतश्चोत्पलाकारः सवर्णो णगनस्य च॥
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव ॥३१॥
श्रीवृक्षपर्वता कारवंशपद्मनिभाश्च ये॥
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ॥३२॥
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः॥
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ॥३३॥
न खड्गे वदनं पश्येद्वृथा विवृणुयान्न च ।
उच्छिष्टो न स्पृशेत्खड्गं निशि कुर्याच्च शीर्षके॥
दिवा च पूजयेदेनं गन्धमाल्यानुसंपदा ॥३४॥
खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचूर्णयुक्ते॥
संस्थापयेद्भूमिपतिः प्रयत्नाद्रक्षेत्तथैनं स्वशरीरवच्च ॥३५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे खड्गलक्षणं नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : December 06, 2022
TOP