संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ८१ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ८१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८१ Translation - भाषांतर वैशंपायन उवाच - उद्भवं लोहितांगस्य संतोषं तु जनेषु चप्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः ॥१॥व्यास उवाच - हरांशसंभवो देवः कुजातः पृथिवीसुतःसत्त्वस्थस्सत्वसंपूर्णश्शूरः शक्तिधरो भुवि ॥२॥तीक्ष्णः क्रूरग्रहो देवो लोहितांगः प्रतापवान्कुमारो रूपसंपन्नो विद्युत्पातमयः प्रभुः ॥३॥अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषःदशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः ॥४॥वैशंपायन उवाच - शंभोरेष कथं जातः कथं जातो महीसुतःग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम् ॥५॥कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदागुरो मय्याप्तभावे तु वद निस्संशयं मुखात् ॥६॥व्यास उवाच - हिरण्याक्षकुले धीमानसुराणां च पार्थिवःअंधकेति समाख्यातो दैत्यः सर्वसुरांतकृत् ॥७॥जातो विष्णुवरादेव जातो विष्णुपराक्रमःतेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात् ॥८॥ततो देवा विधिं गत्वा वचनं चेदमब्रुवन्अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः ॥९॥तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम्अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम् ॥१०॥नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात्किंतु तस्यासुरत्वस्य यथा परिभवो ध्रुवम् ॥११॥कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम्विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति ॥१२॥त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम्ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत् ॥१३॥ततोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यतिएवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम् ॥१४॥विचिकित्सां स्वमायां च प्रेषयामास तं प्रतिततो विचेष्टितः कामाद्योषान्वेषणतत्परः ॥१५॥स्वदारान्परयोषां च नापश्यद्विचिकित्सयाततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह ॥१६॥दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनंदृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत् ॥१७॥ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छतिउमा च कोटवीरूपं कृत्वा देहस्य चात्मनः ॥१८॥ईश्वरस्यांतिकस्था च ग्रहीतुं तां ससार सःततः कामविचेताश्च उन्मत्तीकृतचेतनः ॥१९॥न जहाति शिवां धात्रीं पार्वतीं दैत्यपुंगवःततो ध्यानात्समागम्य मिलितः पार्वतीं धवः ॥२०॥दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम्सज्जीकृत्य स्वयोधांश्च शंभुं जेतुं समुत्सुकः ॥२१॥गौरीमेव समानेतुं काममोहादचेतनःएतच्छ्रुत्वा तु त्रिदशा गत्वा तं नंदिनेरिताः ॥२२॥अकुर्वंश्च महद्युद्धं घोरं लोकभयंकरम्दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत् ॥२३॥एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन्क्रोधाच्छंभुस्तदा वाक्यं नंदिनं निजगाद ह ॥२४॥गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञयापश्यतां सर्वदैत्यानां दैत्येंद्रस्य च संसदि ॥२५॥गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम्लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात् ॥२६॥ततो नंदीश्वरः श्रीमान्पार्वतीपतिनेरितःकाव्यं तं कुंतले धृत्वा दैत्यानां पुरतो बलात् ॥२७॥आनयंतं च तं दैत्या जघ्नुः प्रहरणैः शरैःन शेकुस्ते रुजां कर्तुं नंदिनो बलशालिनः ॥२८॥देवानामग्रतो नंदी गृहीत्वा तं च कुंतलेहरस्य पुरतो हृष्टः सह तेन समाययौ ॥२९॥गृहीत्वा भार्गवं शंभुरसुराणां गुरुं रुषाअगिलद्रौद्रमूर्तोऽसौ कालांतकसमः प्रभुः ॥३०॥ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बलीदुद्राव शंकरं तत्र घोरैः प्रहरणादिभिः ॥३१॥त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयःप्रययुः समरं तत्र दैत्यानां च भृशं रुषा ॥३२॥एतस्मिन्नंतरे घोरं युद्धं भीष्मं समुत्थितम्देवदानवयोरेवं सर्वलोकभयंकरम् ॥३३॥ततः प्रत्ययितास्त्रैश्च देवा निघ्नंति दानवान्दनुजा निर्जरांस्तत्र विनिघ्नंति महाहवे ॥३४॥शातकुंभमयाङ्गैस्ते शरैर्वज्रसमानकैःबिभिदू रत्नपुंखैश्च परस्परजयैषिणः ॥३५॥दीपयंति भृशं कांतैस्तद्गात्राणि नभांसि चवीर्यवंतो महादैत्या न मोघैरस्त्रसंचयैः ॥३६॥हत्वा च पातयामासुः काश्यपाः सुरसत्तमाःजगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम् ॥३७॥नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात्स्वयं च युध्यमानेन महादेवेन यत्नतः ॥३८॥शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीःअन्धको गणतां नीत्वा कृतो भृंगीरिटिर्द्विज ॥३९॥ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवःभूमौ निपतितो गर्भस्ततो भौम इति स्मृतः ॥४०॥शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितःएवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः ॥४१॥तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैःदशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे ॥४२॥त्रिकोणे मंडले चैव रक्तपुष्पानुलेपनैःएवं वै पूजितो भौमः प्रयच्छति मतिं धनम् ॥४३॥पुत्रान्सुखंयशश्चैवकिंभूयःश्रोतुमिच्छसिव्यास उवाच - एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम् ॥४४॥यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वाद्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः ॥४५॥यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञयाब्रह्मोवाच - एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः ॥४६॥निर्णीय धर्मं विविधं शम्याप्रासमगात्सुतत्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम् ॥४७॥विहरस्व यथाकालं गायमानो हरिं मुदालोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम् ॥४८॥पुलस्त्य उवाच - इत्युक्तः प्रययौ भूप नारदो गंधमादनम्नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे ॥४९इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः ॥८१॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP