संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ७

सृष्टिखण्डः - अध्यायः ७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः
देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम् ॥१॥
पुलस्त्य उवाच
पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः
पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम् ॥२॥
पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे
भर्त्तुराराधनपरा तप उग्रं चचार ह ॥३॥
दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता
फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः ॥४॥
यावद्वर्षशतं साग्रं जराशोकसमाकुला
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥५॥
कथयंतु भवंतो मे पुत्रशोकविनाशनम्
व्रतं सौभाग्यफलदमिहलोके परत्र च ॥६॥
ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्
यस्य प्रसादादभवत्सुतशोकविवर्जिता ॥७॥
भीष्म उवाच
श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्
सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः ॥८॥
पुलस्त्य उवाच
यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम्
विस्तरेण तदेवेदं मत्सकाशान्निशामय ॥९॥
ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता
स्थापयेदव्रणं कुंभं सिततण्डुलपूरितम् ॥१०॥
नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्
सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम् ॥११॥
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥१२॥
तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे
कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः ॥१३॥
गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्
तदभावे कथं कुर्याद्यथा पद्मे पितामहः ॥१४॥
ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्
शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम् ॥१५॥
ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय च
विरिंचायोरुयुग्मं च मन्मथायेति वै कटिम् ॥१६॥
स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेः
मुखं पद्ममुखायेति बाहू वै वेदपाणये ॥१७॥
नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम्
ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत् ॥१८॥
ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना
भक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत् ॥१९॥
प्रीयतामत्र भगवान्सर्वलोकपितामहः
हृदये सर्वलोकानां यस्त्वानंदोभिधीयते ॥२०॥
अनेन विधिना सर्वं मासिमासि समाचरेत्
उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम् ॥२१॥
फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत्
ततस्त्रयोदशे मासि घृतधेनुसमन्विताम् ॥२२॥
शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम्
ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा ॥२३॥
पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु
वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः ॥२४॥
शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्
होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत् ॥२५॥
गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्
विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः ॥२६॥
यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा
सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम् ॥२७॥
इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते
यो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः ॥२८॥
सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्
एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥२९॥
कश्यपो व्रतमाहात्म्यादागत्य परया मुदा
चकार कर्कशां भूयो रूपलावण्यसंयुताम् ॥३०॥
वरैराछंदयामास सा तु वव्रे वरंवरम्
पुत्रं शक्रवधार्थाय समर्थं च महौजसम् ॥३१॥
वरयामि महात्मानं सर्वामरनिषूदनम्
उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम् ॥३२॥
प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे
आपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि ॥३३॥
विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे
भविष्यति शुभो गर्भो देवि शक्रनिषूदनः ॥३४॥
आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्
इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन् ॥३५॥
देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः
दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः ॥३६॥
मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौ
अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः ॥३७॥
त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्
तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव ॥३८॥
त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने
संवत्सरशतं त्वेकमस्मिन्नेव तपोवने ॥३९॥
संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि
न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा ॥४०॥
नोपस्करेषु निविशेन्मुसलोलूखलादिषु
जलं च नावगाहेत शून्यागारं च वर्जयेत् ॥४१॥
वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्
न नखेन लिखेद्भूमौ नांगारे न च भस्मनि ॥४२॥
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्
न तुषांगारभस्मास्थि कपालेषु समाविशेत् ॥४३॥
वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव च
न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन ॥४४॥
न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती ॥४५॥
नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत्
कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा ॥४६॥
सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्
तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता ॥४७॥
न गर्हयेच्च भर्ता रंसर्वावस्थमपि क्वचित् ॥४८॥
कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्
स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम् ॥४९॥
एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्
स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः ॥५०॥
पश्यतां सर्वभूतानां तत्रैवांतरधीयत
ततः सा भर्तृवाचोक्तविधिना समतिष्ठत ॥५१॥
अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतः
विहाय देवसदनं तां शुश्रूषुरवस्थितः ॥५२॥
दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनः
विपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः ॥५३॥
अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्
ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः ॥५४॥
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा
अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा ॥५५॥
निद्राभरसमाक्रांता दिवा परशिराः क्वचित्
ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः ॥५६॥
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः
ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः ॥५७॥
रुदंतः सप्त ते बाला निषिद्धा दानवारिणा
भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः ॥५८॥
चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्
एवमेकोनपंचाशद्भूत्वा तेरुरुदुर्भृशम् ॥५९॥
इंद्रो निवारयामास मा रुदध्वं पुनःपुनः
ततः स चिंतयामास वितर्कमिति वृत्रहा ॥६०॥
कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमी
विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम् ॥६१॥
नूनमेतत्परिणतमथवा ब्रह्मपूजनात्
वज्रेणाभिहताः संतो न विनाशमुपाययुः ॥६२॥
एकोप्यनेकतामाप यस्मादुदरगोपनम्
अवध्या नूनमेते वै तस्माद्देवा भवंत्विति ॥६३॥
यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाः
मरुतो नाम ते नाम्ना भवंतु सुखभागिनः ॥६४॥
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम् ॥६५॥
कृत्वा मरुद्गणं देवैः समानममराधिपः
दितिं विमानमारोप्य ससुतामगमद्दिवम् ॥६६॥
यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः ॥६७॥
भीष्म उवाच
आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे
प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे ॥६८॥
पुलस्त्य उवाच
यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव
तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम् ॥६९॥
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥७०॥
विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥७१॥
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्
पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम् ॥७२॥
प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्
गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार ॥७३॥
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश
दिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम् ॥७४॥
सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥७५॥
पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान्
पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं ॥७६॥
ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्
सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः ॥७७॥
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार
अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम् ॥७८॥
चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्
गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां ॥७९॥
गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः ॥८०॥
पुलस्त्य उवाच
मन्वंतराणि सर्वाणि मनूनां चरितानि यत्
प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः ॥८१॥
एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन
यामा नाम पुरा देवा आसन्स्वायंभुवांतरे ॥८२॥
सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः
आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च ॥८३॥
ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः
स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः ॥८४॥
प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्
एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम् ॥८५॥
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः
नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः ॥८६॥
दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव च
अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन् ॥८७॥
तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरे
हवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः ॥८८॥
वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा
द्वितीयमेतत्कथितं मन्वंतरमतः परं ॥८९॥
अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभं
मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत् ॥९०॥
इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च
मधुश्च माधवश्चैव नभस्योथ नभस्तथा ॥९१॥
सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः
भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः ॥९२॥
कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितः
मितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः ॥९३॥
मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतं
कपिः पृथुस्तथैवाग्निरकपिः कविरेव च ॥९४॥
तथैव जन्यधामानौ मुनयः सप्त नामतः
साध्या देवगणा ये च कथितास्तामसेंतरे ॥९५॥
अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः
तपोराशिस्तपस्यश्च सुतपस्यः परंतपः ॥९६॥
तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः
पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु ॥९७॥
देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः ॥९८॥
देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः
अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः ॥९९॥
मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः
धर्मवीर्यबलोपेता दशैते रेवतात्मजाः ॥१००॥
भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा
विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे ॥१०१॥
चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः
विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः ॥१०२॥
चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश ॥१०३॥
प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते
अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं ॥१०४॥
सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा ॥१०५॥
भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्
जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः ॥१०६॥
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं ॥१०७॥
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा
शतानंदः काश्यपश्च रामश्च ऋषय स्मृताः ॥१०८॥
धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च
वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान् ॥१०९॥
भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः
रौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः ॥११०॥
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति
मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति ॥१११॥
ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः
ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा ॥११२॥
अतीतानागताश्चैव मनवः परिकीर्तिताः
वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप ॥११३॥
स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं
कल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह ॥११४॥
अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः
ब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप ॥११५॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे मन्वंतरवर्णनंनाम सप्तमोध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP