संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः १७ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः १७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १७ Translation - भाषांतर भीष्म उवाचतस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तमकथं रुद्रः स्थितस्तत्र विष्णुश्चापि सुरोत्तमः ॥१॥गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तयाआभीरैः किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने ॥२॥एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्आभीरैर्ब्रह्मणा चापि ममैतत्कौतुकं महत् ॥३॥पुलस्त्य उवाचतस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिपकथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप ॥४॥रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतःनिंद्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ ॥५॥विष्णुना न कृतं किंचित्प्राधान्ये स यतः स्थितःनाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः ॥६॥गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोंतिकम्दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम् ॥७॥हा पुत्रीति तदा माता पिता हा पुत्रिकेति चस्वसेति बान्धवाः सर्वे सख्यः सख्येन हा सखि ॥८॥केन त्वमिह चानीता अलक्तांका तु संदरीशाटीं निवृत्तां कृत्वा तु केन युक्ता च कंबली ॥९॥केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिताएवंविधानि वाक्यानि श्रुत्वोवाच स्वयं हरिः ॥१०॥इह चास्माभिरानीता पत्न्यर्थं विनियोजिताब्रह्मणालंबिता बाला प्रलापं मा कृथास्त्विह ॥११॥पुण्या चैषा सुभाग्या च सर्वेषां कुलनंदिनीपुण्या चेन्न भवत्येषा कथमागच्छते सदः ॥१२॥एवं ज्ञात्वा महाभाग न त्वं शोचितुमर्हसिकन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम् ॥१३॥योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाःन लभंते प्रार्थयन्तस्तां गतिं दुहिता गता ॥१४॥धर्मवंतं सदाचारं भवंतं धर्मवत्सलम्मया ज्ञात्वा ततः कन्या दत्ता चैषा विरंचये ॥१५॥अनया तारितो गच्छ दिव्यान्लोकान्महोदयान्युष्माकं च कुले चापि देवकार्यार्थसिद्धये ॥१६॥अवतारं करिष्येहं सा क्रीडा तु भविष्यतियदा नंदप्रभृतयो ह्यवतारं धरातले ॥१७॥करिष्यंति तदा चाहं वसिष्ये तेषु मध्यतःयुष्माकं कन्यकाः सर्वा वसिष्यंति मया सह ॥१८॥तत्र दोषो न भविता न द्वेषो न च मत्सरःकरिष्यंति तदा गोपा भयं च न मनुष्यकाः ॥१९॥न चास्या भविता दोषः कर्मणानेन कर्हिचित्श्रुत्वा वाक्यं तदा विष्णोः प्रणिपत्य ययुस्तदा ॥२०॥एवमेष वरो देव यो दत्तो भविता हि मेअवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः ॥२१॥भवतो दर्शनादेव भवामः स्वर्गवासिनःशुभदा कन्यका चैषा तारिणी मे कुलैः सह ॥२२॥एवं भवतु देवेश वरदानं विभो तवअनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना ॥२३॥ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्त्रपान्विता दर्शने तु बंधूनां वरवर्णिनी ॥२४॥कैरहं तु समाख्याता येनेमं देशमागताःदृष्ट्वा तु तांस्ततः प्राह गायत्री गोपकन्यका ॥२५॥वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता ॥२६॥भर्ता लब्धो मया देवः सर्वस्याद्यो जगत्पतिःनाहं शोच्या भवत्या तु न पित्रा न च बांधवैः ॥२७॥सखीगणश्च मे यातु भगिन्यो दारकैः सहसर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः ॥२८॥गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमाब्रह्मणा सहिता रेजे यज्ञवाटं गता सती ॥२९॥याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्यथेप्सितं वरं तेषां तदा ब्रह्माप्ययच्छत ॥३०॥तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्सा तु यज्ञे स्थिता साध्वी देवतानां समीपगा ॥३१॥दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदायज्ञवाटं कपर्दी तु भिक्षार्थं समुपागतः ॥३२॥बृहत्कपालं संगृह्य पंचमुण्डैरलंकृतःऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः ॥३३॥कथं त्वमिह संप्राप्तो निंदितो वेदवादिभिःएवं प्रोत्सार्यमाणोपि निंद्यमानः स तैर्द्विजैः ॥३४॥उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरःअत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि ॥३५॥कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाःउक्तः स तैः कपर्दी तु भुक्त्वा चान्नं ततो व्रज ॥३६॥कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाःएवमुक्त्वा निषण्णः स कपालं न्यस्य चाग्रतः ॥३७॥तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरःमुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन् ॥३८॥उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाःतूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः ॥३९॥वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसःस्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः ॥४०॥कथं होमोत्र क्रियते कपाले सदसि स्थितेकपालांतान्यशौचानि पुरा प्राह प्रजापतिः ॥४१॥विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहंउद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम् ॥४२॥तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो ॥४३॥पंचाशच्च शतं चैव सहस्रमयुतं तथाएवं नांतः कपालानां प्राप्यते द्विजसत्तमैः ॥४४॥नत्वा कपर्दिनं देवं शरणं समुपागताःपुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम् ॥४५॥तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः ॥४६॥उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत् ॥४७॥कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो ममएवं कृते कृतं सर्वं मदीयं शासनं भवेत् ॥४८॥तथेत्यूचुर्द्विजाश्शंभुं कुर्मो वै तव शासनम्कपालपाणिराहेशो भगवंतं पितामहम् ॥४९॥वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो ॥५०॥ब्रह्मोवाचन ते वरं ग्रहीष्यामि दीक्षितोहं सदः स्थितःसर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह ॥५१॥एवं वदंतं वरदं क्रतौ तस्मिन्पितामहम्तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत ॥५२॥ततो मन्वंतरेतीते पुनरेव प्रभुः स्वयम्ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना ॥५३॥चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यःतस्मिन्काले तदा देवो नगरस्यावलोकने ॥५४॥संभाषणे द्विजानां तु कौतुकेन सदो गतःतेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः ॥५५॥प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैःप्रहसंति च केप्येनं केचिन्निर्भर्त्सयंति च ॥५६॥अपरे पांसुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाःलोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः ॥५७॥प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्ततोन्ये वटवस्तत्र जटास्वागृह्य चांतिकम् ॥५८॥पृच्छंति व्रतचर्यां तां केनैषा ते निदर्शिताअत्र वामास्त्रियः संति तासामर्थे त्वमागतः ॥५९॥केनैषा दर्शिता चर्या गुरुणा पापदर्शिनायेनचोन्मत्तवद्वाक्यं वदन्मध्ये प्रधावसि ॥६०॥शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनःउप्यमानमिदं बीजं लोकः क्लिश्नाति चान्यथा ॥६१॥मयायं जनितः पुत्रो जनितोनेन चाप्यहम्महादेवकृते सृष्टिः सृष्टा भार्या हिमालये ॥६२॥उमादत्ता तु रुद्रस्य कस्य सा तनया वदमूढा यूयं न जानीथ वदतां भगवांस्तु वः ॥६३॥ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुनागिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु ॥६४॥कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वैएवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः ॥६५॥स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तमकिं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम् ॥६६॥यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताःवदमानमिदं छद्म ब्रह्मरूपधरं हरम् ॥६७॥मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाःकपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः ॥६८॥दंडैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत् ॥६९॥ततो देवेन ते शप्ता यूयं वेदविवर्जिताःऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः ॥७०॥वेश्यायां तु रता द्यूते पितृमातृविवर्जिताःन पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति ॥७१॥सर्वे च मोहिताः संतु सर्वेंद्रियविवर्जिताःरौद्रीं भिक्षां समश्नंतु परपिंडोपजीविनः ॥७२॥आत्मानं वर्तयंतश्च निर्ममा धर्मवर्जिताःकृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम् ॥७३॥तेषां धनं च पुत्राश्च दासीदासमजाविकम्कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह ॥७४॥एवं शापं वरं चैव दत्वांतर्द्धानमीश्वरःगतो द्विजागते देवे मत्वा तं शंकरं प्रभुम् ॥७५॥अन्विष्यंतोपि यत्नेन न चापश्यंत ते यदातदा नियमसंपन्नाः पुष्करारण्यमागताः ॥७६॥स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्जाप्यावसाने देवस्तानशीररगिराऽब्रवीत् ॥७७॥अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतः पुनःआगते निग्रहे क्षेमं भूयोपि करवाण्यहम् ॥७८॥शांता दांता द्विजा ये तु भक्तिमंतो मयि स्थिराःन तेषां छिद्यते वेदो न धनं नापि संततिः ॥७९॥अग्निहोत्ररता ये च भक्तिमंतो जनार्दनेपूजयंति च ब्रह्माणं तेजोराशिं दिवाकरम् ॥८०॥नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिःएतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत् ॥८१॥लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्आजग्मुः सहितास्सर्वे यत्र देवः पितामहः ॥८२॥विरिञ्चिं संहिताजाप्यैस्तोषयंतोऽग्रतः स्थिताःतुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः ॥८३॥ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाःको वरो याच्यतां विप्राः परितुष्टे पितामहे ॥८४॥अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि चसांतानिकाश्च ये लोका वरदानाद्भवंतु नः ॥८५॥एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे ॥८६॥नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्ब्रह्मोवाचाभिसंप्रेक्ष्य ब्राह्मणान्क्रोधपूरितान् ॥८७॥यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताःतस्मादामूलिको गुल्मो ह्येको भवतु वो द्विजाः ॥८८॥उदासीनाः स्थिता ये तु उदासीना भवंतु तेसायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः ॥८९॥कौशिकीति गणो नाम तृतीयो भवतु द्विजाःत्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति ॥९०॥बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विहअविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम् ॥९१॥मया दत्तं चिरस्थायि अभंगं च भविष्यतिएवमुक्त्वा तदा ब्रह्मा समाप्तिं तामवैक्षत ॥९२॥ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताःअतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते ॥९३॥एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितम्तत्रस्था ये द्विजाः शांता वसंति क्षेत्रवासिनः ॥९४॥न तेषां दुर्लभं किंचिद्ब्रह्मलोके भविष्यतिकोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसंगमे ॥९५॥वाराणस्यां प्रभासे च तथा बदरिकाश्रमेगंगाद्वारे प्रयागे च गंगासागरसंगमे ॥९६॥रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वनेतीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका ॥९७॥प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तमपुष्करे तु न संदेहो ब्रह्मचर्यमना यदि ॥९८॥तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे ॥९९॥अतः परं प्रवक्ष्यामि सावित्र्या ब्रह्मणा सहवादो यथानुभूतस्तु परिहासकृतो महान् ॥१००॥सावित्रीगमने सर्वा आगता देवयोषितःभृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥१०१॥आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्वितामदिरा च महाभागा योगनिद्रा विभूतिदा ॥१०२॥श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनीपुष्टितुष्टिप्रदा या तु देव्या एताः समागताः ॥१०३सती या दक्षतनया उमेति पार्वती शुभात्रैलोक्यसुंदरी देवी स्त्रीणां सौभाग्यदायिनी ॥१०४॥जया च विजया चैव मधुच्छंदामरावतीसुप्रिया जनकांता च सावित्र्या मंदिरे शुभे ॥१०५॥गौर्या सह समायातास्सुवेषा भरणान्विताःपुलोमदुहिता चैव शक्राणी च सहाप्सराः ॥१०६॥स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वराननायक्षी तु राक्षसी चैव गौरी चैव महाधना ॥१०७॥मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रियादेवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः ॥१०८॥सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाःएवं भगिन्यो दुहिता विद्याधरीगणास्तथा ॥१०९॥राक्षस्यः पितृकन्याश्च तथान्या लोकमातरःवधूभिः सस्नुषाभिश्च सावित्री गंतुमिच्छति ॥११०॥अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताःताभिः परिवृता साध्वी ब्रह्माणी कमलालया ॥१११॥काचिन्मोदकमादाय काचिच्छूर्पं वराननाफलपूरितमादाय प्रयाता ब्रह्मणोंतिकम् ॥११२॥आढकीः सह निष्पावा गृहीत्वान्यास्तथापरादाडिमानि विचित्राणि मातुलिंगानि शोभना ॥११३॥करीराणि तथा चान्या गृहीत्वा कमलानि चकौसुंभकं जीरकं च खर्जूरमपरा तथा ॥११४॥उत्तमान्यपरादाय नालिकेराणि सर्वशःद्राक्षयापूरितं काचित्पात्रं शृंगाटकं तथा ॥११५॥कर्पूराणि विचित्राणि जंबूकानि शुभानि चअक्षोटामलकान्गृह्य जंबीराणि तथापरा ॥११६॥बिल्वानि परिपक्वानि चिपिटानि वराननाकार्पासतूलिकाश्चान्या वस्त्रं कौसुंभकं तथा ॥११७॥एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाःसावित्र्या सहिताः सर्वाः संप्राप्ताः सहसा शुभाः ॥११८॥सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरःअधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति ॥११९॥त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयःसभासदस्तथा भीतास्तथा चान्ये दिवौकसः ॥१२०॥पुत्राः पौत्रा भागिनेया मातुला भ्रातरस्तथाऋभवो नाम ये देवा देवानामपि देवताः ॥१२१॥वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यतिब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका ॥१२२॥मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरःअद्ध्वर्युणा समाहूता नागता वरवर्णिनी ॥१२३॥शक्रेणान्याहृताभीरा दत्ता सा विष्णुना स्वयम्अनुमोदिता च रुद्रेण पित्राऽदत्ता स्वयं तथा ॥१२४॥कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्एवं चिंतयतां तेषां प्रविष्टा कमलालया ॥१२५॥वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथाहूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः ॥१२६॥पत्नीशालास्थिता गोपी सैणशृंगा समेखलाक्षौमवस्त्रपरीधाना ध्यायंती परमं पदम् ॥१२७॥पतिव्रता पतिप्राणा प्राधान्ये च निवेशितारूपान्विता विशालाक्षी तेजसा भास्करोपमा ॥१२८॥द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभाज्वलमानं तथा वह्निं श्रयंते ऋत्विजस्तथा ॥१२९॥पशूनामिह गृह्णाना भागं स्वस्व चरोर्मुदायज्ञभागार्थिनो देवा विलंबाद्ब्रुवते तदा ॥१३०॥कालहीनं न कर्तव्यं कृतं न फलदं यतःवेदेष्वेवमधीकारो दृष्टः सर्वैर्मनीषिभिः ॥१३१॥प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैःक्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा ॥१३२॥उपहूतेनागते न चाहूतेषु द्विजन्मसुक्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी रुषान्विता ॥१३३॥उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम् ॥१३४॥मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम्न तुल्या पादरजसा ममैषा या शिरः कृता ॥१३५॥यद्वदंति जनास्सर्वे संगताः सदसि स्थिताःआज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि ॥१३६॥भवता रूपलोभेन कृतं लोकविगर्हितम्पुत्रेषु न कृता लज्जा पौत्रेषु च न ते प्रभो ॥१३७॥कामकारकृतं मन्य एतत्कर्मविगर्हितम्पितामहोसि देवानामृषीणां प्रपितामहः ॥१३८॥कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम्लोकमध्ये कृतं हास्यमहं चापकृता प्रभो ॥१३९॥यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुतेअहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥१४०॥भर्त्रा मे विधृता पत्नी कथमेतदहं वदेब्रह्मोवाचऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम् ॥१४१॥पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानयशक्रेणैषा समानीता दत्तेयं मम विष्णुना ॥१४२॥गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्न चापराधं भूयोन्यं करिष्ये तव सुव्रते ॥१४३॥पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुतेपुलस्त्य उवाचएवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता ॥१४४॥यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताःसर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च ॥१४५॥नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचनॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव ॥१४६॥करिष्यंति द्विजाः सर्वे मर्त्या नान्यत्र भूतलेएतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम् ॥१४७॥भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोंतिकम्यस्मात्ते क्षुद्रकं कर्म तस्मात्वं लप्स्यसे फलम् ॥१४८॥यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसितदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् ॥१४९॥अकिंचनो नष्टसत्वः शत्रूणां नगरे स्थितःपराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे ॥१५०॥शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति ॥१५१॥भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसेहृता ते शत्रुणा पत्नी परे पारो महोदधेः ॥१५२॥न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनःभ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः ॥१५३॥यदा यदुकुले जातः कृष्णसंज्ञो भविष्यसिपशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि ॥१५४॥तदाह रुद्रं कुपिता यदा दारुवने स्थितःतदा त ॠषयः क्रुद्धाः शापं दास्यंति वै हर ॥१५५॥भोभोः कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसितदेतद्दर्पितं तेद्य भूमौ लिगं पतिष्यति ॥१५६॥विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितःगंगाद्वारे स्थिता पत्नी सा त्वामाश्वासयिष्यति ॥१५७॥अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतःभृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम् ॥१५८॥जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यतिअमेध्येषु च ते जिह्वा अधिकं प्रज्वलिष्यति ॥१५९॥ब्राह्मणानृत्विजः सर्वान्सावित्री वै शशाप हप्रतिग्रहार्थाग्निहोत्रो वृथाटव्याश्रयास्तथा ॥१६०॥सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथपरान्नेषु सदा तृप्ता अतृप्तास्स्वगृहेषु च ॥१६१॥अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा ॥१६२॥प्रेतानां तेन प्रेतत्वं भविष्यति न संशयःएवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥१६३॥ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषाशापं दत्वा तथा तेषां निष्क्रांता सदसस्तथा ॥१६४॥ज्येष्ठं पुष्करमासाद्य तदा सा च व्यवस्थितालक्ष्मीं प्राह सतीं तां च शक्रभार्यां वराननाम् ॥१६५॥युवतीस्तास्तथोवाच नात्र स्थास्यामि संसदितत्र चाहं गमिष्यामि यत्र श्रोष्ये न च ध्वनिम् ॥१६६॥ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्सावित्री कुपिता तासामपि शापाय चोद्यता ॥१६७॥यस्मान्मां तु परित्यज्य गतास्ता देवयोषितःतासामपि तथा शापं प्रदास्ये कुपिता भृशम् ॥१६८॥नैकत्रवासो लक्ष्म्यास्तु भविष्यति कदाचनक्षुद्रा सा चलचित्ता च मूर्खेषु च वसिष्यति ॥१६९॥म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथामूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि ॥१७०॥एवंविधे नरे स्यात्ते वसतिः शापकारिताशापं दत्वा ततस्तस्या इंद्राणीमशपत्ततदा ॥१७१॥ब्रह्महत्या गृहीतेंद्रे पत्यौ ते दुःखभागिनिनहुषापहृते राज्ये दृष्ट्वा त्वां याचयिष्यति ॥१७२॥अहमिंद्रः कथं चैषा नोपस्थास्यति बालिशासर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि ॥१७३॥नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहेवसिष्यसे दुराचारे मम शापेन गर्विते ॥१७४॥देवभार्यासु सर्वासु तदा शापमयच्छतन चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ ॥१७५॥दह्यमाना दिवारात्रौ वंध्याशब्देन दूषिताःगौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी ॥१७६॥रुदमाना तु सा दृष्टा विष्णुना च प्रसादितामा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदा शुभे ॥१७७॥प्रविश्य च सभां देहि मेखलां क्षौमवाससीगृहाण दीक्षां ब्रह्माणि पादौ च प्रणमामि ते ॥१७८॥एवमुक्ताऽब्रवीदेनं न करोमि वचस्तवतत्र चाहं गमिष्यामि यत्र श्रोष्ये न वै ध्वनिम् ॥१७९॥एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिताविष्णुस्तदग्रतः स्थित्वा बध्वा च करसंपुटं ॥१८०॥तुष्टाव प्रणतो भूत्वा भक्त्या परमया स्थितःविष्णुरुवाचसर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता ॥१८१॥सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वयातथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ॥१८२॥स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतःसावित्री पुष्करे नाम तीर्थानां प्रवरे शुभे ॥१८३॥वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणीप्रयागे ललितादेवी कामुका गंधमादने ॥१८४॥मानसे कुमुदा नाम विश्वकाया तथांबरेगोमंते गोमती नाम मंदरे कामचारिणी ॥१८५॥मदोत्कटा चैत्ररथे जयंती हस्तिनापुरेकान्यकुब्जे तथा गौरी रंभा मलयपर्वते ॥१८६॥एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथाकर्णिके पुरुहस्तेति केदारे मार्गदायिका ॥१८७॥नंदा हिमवतः पृष्टे गोकर्णे भद्रकालिकास्थाण्वीश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥१८८॥श्रीशैले माधवीदेवी भद्रा भद्रेश्वरी तथाजया वराहशैले तु कमला कमलालये ॥१८९॥रुद्रकोट्यां तु रुद्राणी काली कालंजरे तथामहालिंगे तु कपिला कर्कोटे मंगलेश्वरी ॥१९०॥शालिग्रामे महादेवी शिवलिंगे जलप्रियामायापुर्यां कुमारी तु संताने ललिता तथा ॥१९१॥उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पलागयायां मंगला नाम विमला पुरुषोत्तमे ॥१९२॥विपाशायाममोघाक्षी पाटला पुण्यवर्द्धनेनारायणी सुपार्श्वे तु त्रिकूटे भद्रसुंदरी ॥१९३॥विपुले विपुला नाम कल्याणी मलयाचलेकोटवी कोटितीर्थे तु सुगंधा माधवीवने ॥१९४॥कुब्जाम्रके त्रिसंध्या तु गंगाद्वारे हरिप्रियाशिवकुंडे शिवानंदा नंदिनी देविकातटे ॥१९५॥रुक्मिणी द्वारवत्यां तु राधा वृंदावने तथादेवकी मथुरायां तु पाताले परमेश्वरी ॥१९६॥चित्रकूटे तथा सीता विंध्ये विंध्यनिवासिनीसह्याद्रावेकवीरा तु हरिश्चंद्रे तु चंद्रिका ॥१९७॥रमणा रामतीर्थे तु यमुनायां मृगावतीकरवीरे महालक्ष्मी रुमादेवी विनायके ॥१९८॥अरोगा वैद्यनाथे तु महाकाले महेश्वरीअभया पुष्पतीर्थे तु अमृता विंध्यकंदरे ॥१९९॥मांडव्ये मांडवी देवी स्वाहा माहेश्वरे पुरेवेगले तु प्रचंडाथ चंडिकामरकंटके ॥२००॥सोमेश्वरे वरारोहा प्रभासे पुष्करावतीदेवमाता सरस्वत्यां पारापारे तटे स्थिता ॥२०१॥महालये महापद्मा पयोष्ण्यां पिंगलेश्वरीसिंहिका कृतशौचे तु कार्तिकेये तु शंकरी ॥२०२॥उत्पलावर्तके लोला सुभद्रा सिंधुसंगमेउमा सिद्धवने लक्ष्मीरनंगा भरताश्रमे ॥२०३॥जालंधरे विश्वमुखी तारा किष्किंधपर्वतेदेवदारुवने पुष्टिर्मेधा काश्मीरमंडले ॥२०४॥भीमा देवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथाकपालमोचने श्रद्धा माता कायावरोहणे ॥२०५॥शंखोद्धारे ध्वनिर्नाम धृतिः पिंडारके तथाकाला तु चंद्रभागायामच्छोदे सिद्धिदायिनी ॥२०६॥वेणायाममृता देवी बदर्यामूर्वशी तथाऔषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥२०७॥मन्मथा हेमकूटे तु कुमुदे सत्यवादिनीअश्वत्थेवंदनीया तु निधिर्वै श्रवणालये ॥२०८॥गायत्री वेदवदने पार्वती शिवसन्निधौदेवलोके तथेंद्राणी ब्रह्मास्ये तु सरस्वती ॥२०९॥सूर्यबिंबे प्रभानाम मातॄणां वैष्णवी तथाअरुंधती सतीनां तु रामासु च तिलोत्तमा ॥२१०॥चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणांएतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमं ॥२११॥अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतंयो जपेच्छ्रुणुयाद्वापि सर्वपापैः प्रमुच्यते ॥२१२॥येषु तीर्थेषु यः कृत्वा स्नानं पश्येन्नरोत्तमःसर्वपापविनिर्मुक्तः कल्पं ब्रह्मपुरे वसेत् ॥२१३॥नामाष्टकशतं यस्तु श्रावयेद्ब्रह्मसन्निधौपौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः ॥२१४॥गोदाने श्राद्धदाने वा अहन्यहनि वा पुनःदेवार्चनविधौ शृण्वन्परं ब्रह्माधिगच्छति ॥२१५॥एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रतासम्यक्स्तुता त्वया पुत्र त्वमजय्यो भविष्यसि ॥२१६॥अवतारे सदारस्त्वं पितृमातृषु वल्लभःइह चागत्य यो मां तु स्तवेनानेन संस्तुयात् ॥२१७॥सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यतिगच्छ यज्ञं विरिञ्चस्य समाप्तिं नय पुत्रक ॥२१८॥कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनीसमीपगा स्थिता भर्त्तुः करिष्ये तव भाषितम् ॥२१९॥एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तम्गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत् ॥२२०॥शृण्वंतु वाक्यमृषयो मदीयं भर्तृसन्निधौयदिदं वच्म्यहं तुष्टा वरदानाय चोद्यता ॥२२१॥ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताःतेषां वस्त्रं धनं धान्यं दाराः सौख्यं धनानि च ॥२२२॥अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम्भुक्त्वासौ सुचिरं कालमंते मोक्षं गमिष्यति ॥२२३॥पुलस्त्य उवाचब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नैर्विधानतःयत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु ॥२२४॥सर्वयज्ञ तपो दान तीर्थ वेदेषु यत्फलम्तत्फलं कोटिगुणितं लभेतैतत्प्रतिष्ठया ॥२२५॥पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिपअनेन विधिना यस्तु विरिंचिं पूजयेन्नरः ॥२२६॥प्रतिपदि महाबाहो स याति ब्रह्मणः पदम्विरिंचिं वासुदेवं तु ऋत्विग्भिश्च विशेषतः ॥२२७॥कार्तिके मासि देवस्य रथयात्रा प्रकीर्तितायां कृत्वा मानवा भक्त्या संयांति ब्रह्मलोकताम् ॥२२८॥कार्तिके मासि राजेंद्र पौर्णमास्यां चतुर्मुखम्मार्गेण ब्रह्मणा सार्द्धं सावित्र्या च परंतप ॥२२९॥भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितःस्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप ॥२३०॥ब्राह्मणान्भोजयित्वाग्रे शांडिलेयं प्रपूज्य चआरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः ॥२३१॥रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतःब्राह्मणान्वाचयित्वा तु कृत्वा पुण्याहमङ्गलम् ॥२३२॥देवमारोपयित्वा च रथे कुर्यात्प्रजागरंनानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः ॥२३३॥कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृपभोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः ॥२३४॥पूजयित्वा जनं धीर मंत्रेण विधिवन्नृपआज्येन तु महाबाहो पयसा पायसेन च ॥२३५॥ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृपकृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे ॥२३६॥विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्बह्वृचाथर्वणैर्वीरछंदोगाध्वर्युभिस्तथा ॥२३७॥भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथंप्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु ॥२३८॥न वोढव्यो रथो वीर शूद्रेण हितमिच्छतान चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः ॥२३९॥ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृपभोजकं वामपार्श्वे तु पुरतः पंङ्कजं न्येसेत् ॥२४०॥एवं तूर्यनिनादैस्तु शंखशब्दैश्च पुष्कलैःभ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम् ॥२४१॥स्वस्थाने स्थापयेद्देवं दत्वा नीराजनं बुधःय एवं कुरुते यात्रां यो वा भक्त्यापि पश्यति ॥२४२॥रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदंकार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं ॥२४३॥शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्गंधपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः ॥२४४॥तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम्महापुण्यातिथिरियं बलिराज्यप्रवर्तिनी ॥२४५॥ब्रह्मणः सुप्रिया नित्यं बालेयी परिकीर्तिताब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः ॥२४६॥स याति परमं स्थानं विष्णोरमिततेजसःचैत्रे मासि महाबाहो पुण्या प्रतिपदां वरा ॥२४७॥तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमःन तस्य दुरितं किंचिन्नाधयो व्याधयो नृप ॥२४८॥भवंति कुरुशार्दूल तस्मात्स्नानं समाचरेत्दिव्यं नीराजनं तद्धि सर्वरोगविनाशनं ॥२४९॥गोमहिष्यादि यत्किंचित्तत्सर्वं कर्षयेन्नृपतेन वस्त्रादिभिः सर्वैस्तोरणं बाह्यतो न्यसेत् ॥२५०॥ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वहतिस्रो ह्येताः पुरा प्रोक्तास्तिथयः कुरुनंदन ॥२५१॥कार्तिकाश्वयुजे मासि चैत्रेमासि तथा नृपस्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप ॥२५२॥बलिराज्ञस्तु शुभदा पशूनां हितकारिणीगायत्र्युवाचयदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं ॥२५३॥न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचनमदीयं तु वचः श्रुत्वा ये करिष्यंति चार्चनं ॥२५४॥इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनःएतां ज्ञात्वा परां दृष्टिं वरं तुष्टः प्रयच्छति ॥२५५॥शक्राहं ते वरं दास्ये संग्रामे शत्रुनिग्रहेतदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम् ॥२५६॥स्वपुरं लप्स्यसे नष्टं शत्रुनाशात्परां मुदंअकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति ॥२५७॥मर्त्यलोके यदा विष्णो अवतारं करिष्यसिभ्रात्रा सह परं दुःखं स्वभार्याहरणादिजं ॥२५८॥हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौगृहीत्वा तां पुना राज्यं कृत्वा स्वर्गं गमिष्यसि ॥२५९॥एकादशसहस्राणि वर्षाणां च पुनर्दिवंख्यातिस्ते विपुला लोके अनुरागं जनैस्सह ॥२६०॥सांतानिका नाम तेषां लोका स्थास्यंति भाविताःत्वया ते तारिता देव रामरूपेण मानवाः ॥२६१॥गायत्री तु तदा रुद्रं वरदा प्रत्यभाषतपतितेपि च ते लिंगे पूजां कुर्वंति ये नराः ॥२६२॥ते पूताः पुण्यकर्माणः स्वर्गलोकस्य भागिनःन तां गतिं चाग्निहोत्रे न क्रतौ हुतपावके ॥२६३॥यां गतिं मनुजा यांति तव लिंगस्य पूजनात्गंगातीरे सदा लिंगं बिल्बपत्रेण ये तव ॥२६४॥पूजयिष्यंति सुप्राता रुद्रलोकस्य भागिनःप्राप्यापि शर्वभक्तत्वमग्ने त्वं भव पावनः ॥२६५॥त्वयि प्रीते सुराः सर्वे प्रीता वै नात्र संशयःत्वन्मुखेन हविर्देवैः प्रीताः प्रीते त्वयि ध्रुवम् ॥२६६॥भुंजते नात्र संदेहो वेदोक्तं वचनं यथागायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं ॥२६७॥युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाःपदं सर्वे गमिष्यंति वैराजाख्यं न संशयः ॥२६८॥अन्नप्रकारान्विविधान्दत्वा दानान्यनेकशःश्राद्धेषु प्रीणनं कृत्वा देवदेवा भवंति ते ॥२६९॥ये च वै ब्राह्मणश्रेष्ठास्तेषामास्ये दिवौकसःभुंजते च हविः क्षिप्रं कव्यं चैव पितामहाः ॥२७०॥यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयःप्राणायामेन चैकेन सर्वे पूता भविष्यथ ॥२७१॥विशेषात्पुष्करे स्नात्वा मां जप्त्वा वेदमातरंप्रतिग्रहकृतान्दोषान्न प्राप्स्यथ द्विजोतमाः ॥२७२॥पुष्करे चान्नदानेन प्रीताः स्युः सर्वदेवताःएकस्मिन्भोजिते विप्रे कोट्याः फलमवाप्स्यते ॥२७३॥ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि चकरिष्यंति नरास्सर्वे दत्वा युष्मत्करे धनम् ॥२७४॥मदीयेन तु जाप्येन पूजनीयस्त्रिभिः कृतैःब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥२७५॥दशभिर्जन्मभिर्जातं शतेन च पुरा कृतंत्रियुगेन सहस्रेण गायत्री हंति किल्बिषं ॥२७६॥एवं ज्ञात्वा सदा पूता जाप्ये तु मम वै कृतेभविष्यध्वं न संदेहो नात्र कार्या विचारणा ॥२७७॥प्रणवेन त्रिमात्रेण सार्द्धं जप्त्वा विशेषतःपूताः सर्वे न संदेहो जप्त्वा मां शिरसा सह ॥२७८॥अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्त्विदंमाताहं सर्ववेदानां पदैः सर्वेरलंकृता ॥२७९॥जप्त्वा मां भक्तितः सिद्धिं यास्यंति द्विजसत्तमाःप्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति ॥२८०॥गायत्रीसारमात्रोपि वरं विप्रः सुसंयतःनायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥२८१यस्माद्विप्रेषु सावित्र्या शापो दत्तः सदस्यथअत्र दत्तं हुतं चापि सर्वमक्षयकारकम् ॥२८२दत्तो वरो मया तेन युष्माकं द्विजसत्तमाःअग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः ॥२८३॥स्वर्गं ते तु गमिष्यंति सैकविंशतिभिः कुलैःएवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च ॥२८४॥ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणः पार्श्वगाऽभवत् ॥२८५॥चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्युवतीनां च सर्वासां शापान्ज्ञात्वा पृथक्पृथक् ॥२८६॥लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रियाअकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना ॥२८७॥शोभिष्यसे न संदेहः सर्वेभ्यः प्रीतिदायिनीये त्वया वीक्षिताः पुत्रि सर्वे ते पुण्यभोजनाः ॥२८८॥परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनःतेषां जातिः कुलं शीलं धर्मश्चैव वरानने ॥२८९॥सभायां ते च शोभंते दृश्यंते चैव पार्थिवैःअर्थित्वं चैव तेषां तु करिष्यंति द्विजोत्तमाः ॥२९०॥सौजन्यं तेषु कुर्वंति त्वं नो भ्राता पिता गुरुःबांधवोपि न संदेहो न जीवेयं त्वया विना ॥२९१॥त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभनामनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते ॥२९२॥एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताःसज्जनास्ते तु श्रोष्यंति जनानां प्रीतिदायकाः ॥२९३॥इंद्रत्वं नहुषः प्राप्य दृष्ट्वा त्वां याचयिष्यतित्वद्दृष्ट्या तु हतः पापो ह्यगस्त्यवचनाद्ध्रुवम् ॥२९४॥सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सःदर्पेणाहं विनष्टोस्मि शरणं मे मुने भव ॥२९५॥वाक्येन तेन तस्यासौ नृपस्य भगवानृषिःकृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति ॥२९६॥उत्पत्स्यते कुले राजा त्वदीये कुलनंदनःसर्परूपधरं दृष्ट्वा स ते शापं हि भेत्स्यति ॥२९७॥तदा त्वं सर्पतां त्यक्त्वा पुनः स्वर्गं गमिष्यसिअश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवम् ॥२९८॥प्राप्स्यसे वरदानेन मदीयेन सुलोचनेपुलस्त्य उवाचदेवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥२९९॥अपत्यैरपि हीनानां नैव दुःखं भविष्यतिगौरी चैव तु गायत्र्या तदा सापि विबोधिता ॥३००॥बृंहिता परितोषेण वरान्दत्त्वा मनस्विनीसमाप्तिं तस्य यज्ञस्य कांक्षंती ब्रह्मणः प्रिया ॥३०१॥वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह ॥३०२॥रुद्र उवाचनमोस्तु ते वेदमातरष्टाक्षरविशोधितेगायत्री दुर्गतरणी वाणी सप्तविधा तथा ॥३०३॥सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथाअक्षराणि च सर्वाणि लक्षणानि तथैव च ॥३०४॥भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथाअक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते ॥३०५॥श्वेता त्वं श्वेतरूपासि शशांकेन समाननाबिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ ॥३०६॥एणशृंगं करे गृह्य पंकजं च सुनिर्मलम्वसाना वसने क्षौमे रक्तेनोत्तरवाससा ॥३०७॥शशिरश्मिप्रकाशेन हारेणोरसि राजितादिव्यकुंडलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता ॥३०८॥चंद्रसापत्न्यभूतेन मुखेन त्वं विराजसेमकुटेनातिशुद्धेन केशबंधेन शोभिता ॥३०९॥भुजंगाभोगसदृशौ भुजौ ते भूषणन्दिवःस्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ ॥३१०॥जघनेनातिशुभ्रेण त्रिवलीभंगदर्पितासुमध्यवर्त्तिनी नाभिर्गंभीरा शुभदर्शिनी ॥३११॥विस्तीर्णजघना देवी सुश्रोणी च वराननेसुजातवृत्तोरुयुगा सुजानु चरणा तथा ॥३१२॥त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचनाभविष्यसि महाभागे वरदा वरवर्णिनी ॥३१३॥पुष्करे च कृता यात्रा दृष्ट्वा त्वां संभविष्यतिज्येष्ठे मासे पौर्णमास्यामग्र्यां पूजां च लप्स्यसे ॥३१४॥ये च वा त्वत्प्रभावज्ञाः पूजयिष्यंति मानवाःन तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ॥३१५॥कांतारेषु निमग्नानामटव्यां वा महार्णवेदस्युभिर्वानिरुद्धानां त्वं गतिः परमा नृणाम् ॥३१६॥त्वं सिद्धिः श्रीर्धृतिः कीर्तिर्ह्रीर्विद्या सन्नतिर्मतिःसंध्या रात्रिः प्रभा निद्रा कालरात्रिस्त्वमेव च ॥३१७॥अंबा च कमला मातुर्ब्रह्माणी ब्रह्मचारिणीजननी सर्वदेवानां गायत्री परमांगना ॥३१८॥जया च विजया चैव पुष्टिस्त्वं च क्षमा दयासावित्र्यवरजा चासि सदा चेष्टा पितामहे ॥३१९॥बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणीसुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी ॥३२०॥नगरेषु च पुण्येषु आश्रमेषु वराननेवासस्तव महादेवि वनेषूपवनेषु च ॥३२१॥ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामतः स्थितादक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः ॥३२२॥अंतर्वेदी च यज्ञानामृत्विजां चापि दक्षिणासिद्धिस्त्वं हि नृपाणां च वेला सागरजा मता ॥३२३॥ब्रह्मचारिणि या दीक्षा शोभा च परमा मताज्योतिषां च प्रभा देवी लक्ष्मीर्नारायणे स्थिता ॥३२४॥क्षमा सिद्धिर्मुनीनां च नक्षत्राणां च रोहिणीराजद्वारेषु तीर्थेषु नदीनां संगमेषु च ॥३२५॥पूर्णिमा पूर्णचंद्रे च बुद्धिर्नीत्यां क्षमा धृतिःउमादेवी च नारीणां श्रूयसे वरवर्णिनी ॥३२६॥इंद्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगाॠषीणां धर्मबुद्धिस्त्वं देवानां च परायणा ॥३२७॥कर्षकाणां च सीता त्वं भूतानां धरणी तथास्त्रीणामवैधव्यकरी धनधान्यप्रदा सदा ॥३२८॥व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसितथा तु कार्तिके मासि पौर्णमास्यां सुपूजिता ॥३२९॥सर्वकामप्रदा देवी भविष्यसि शुभप्रदेयश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः ॥३३०॥सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयःगायत्र्युवाचभविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितम् ॥३३१॥विष्णुना सहितः सर्वस्थानेष्वेव भविष्यसिइति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे सावित्रीविवादगायत्रीवरप्रदानं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP