सृष्टिखण्डः - अध्यायः ३९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
कथितं वामनस्यैव माहात्म्यं विस्तरेण वै
पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद ॥१॥
पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्
कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा ॥२॥
कथं पद्मे महाकल्पेऽभवत्पद्ममयं जगत्
जलार्णवगतस्येह नाभौ जातं जलानुगं ॥३॥
प्रभावं पद्मनाभस्य स्वपतः सागरांभसि
पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा ॥४॥
एतदाख्याहि निखिलं योगं योगविदां पते
कथं निर्मितवांस्तत्र चैतं लोकं सनातनम् ॥५॥
कथमेकार्णवे शून्ये नष्टे स्थावरजंगमे
भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे ॥६॥
नष्टानलानिलाकाशे नष्टधर्मे महीतले
केवले गह्वरीभूते महाभूतविपर्यये ॥७॥
किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः
आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित् ॥८॥
शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः
वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम् ॥९॥
श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि
पुलस्त्य उवाच
नारायणस्य यशसः श्रवणे या तव स्पृहा ॥१०॥
सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह
शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति ॥११॥
ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्
यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः ॥१२॥
पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्
तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति ॥१३॥
यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ॥१४॥
विश्वावितारं ब्रह्मायं न वेदयति तत्वतः
तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु ॥१५॥
स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्
अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम् ॥१६॥
अधिदैवं च तद्दैवमधिदैवतसंज्ञितम्
अधिभूतं च तद्भूतं परं च परमार्थिनाम् ॥१७॥
स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः
यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च ॥१८॥
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते
प्राणः पंचविधश्चैव ध्रुवमक्षरमेव च ॥१९॥
कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव च
उच्यते विविधैर्भावैः स एवायं तु तत्परम् ॥२०॥
स एव भगवान्सर्वं करोति न करोति च
सोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता ॥२१॥
यजामहे तमेवाद्यं स एवोत्थाननिर्वृतः
यो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते ॥२२॥
श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्
या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः ॥२३॥
विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः
यत्सत्यं यदनृतमादिमध्यभूतं यच्चांत्यं निरवधिकं च यद्भविष्यम् ॥२४॥
यत्किंचिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतः
चत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ॥२५॥
तस्य तावच्छती संध्या द्विगुणा कुरुनंदन
यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः ॥२६॥
स्वधर्मनिरताः शांता जायंते यत्र मानवाः
विप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः ॥२७॥
कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथा
तदा सत्यं च सत्वं च धर्मश्चैव विवर्धते ॥२८॥
सद्भिराचरितो धर्मो येन लोकः प्रवर्त्तते
एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव ॥२९॥
प्राणिनां धर्मसंज्ञानां नराणां नीचजन्मनाम्
त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते ॥३०॥
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ॥३१॥
यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयते
त्रेतायां विकृतिं यांति वर्णा लोभेन संयुताः ॥३२॥
चातुर्वर्ण्यस्य वै कृत्यं क्षांतिर्दौर्बल्यमेव च
एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता ॥३३॥
द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दन
तस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते ॥३४॥
तत्राप्यतीवार्थपराः प्राणिनो रजसा हताः
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन ॥३५॥
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः
विपर्ययशतैर्धर्मः क्षयमेति कलौ युगे ॥३६॥
ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यते
व्रतोपवासास्त्यज्यंते कलौ वै युगपर्यये ॥३७॥
तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथा
यत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः ॥३८॥
कामिनस्तापसाः क्षुद्रा जायंते यत्र मानवाः
न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक् ॥३९॥
नास्तिका ब्राह्मणा भक्ता ज्ञायंते तत्र मानवाः
अहंकारगृहीताश्च प्रक्षीणस्नेहबंधनाः ॥४०॥
विप्राः शूद्रसमाचारास्संति सर्वे कलौ युगे
आश्रमाणां विपर्यासः कलौ संप्रति वर्तते ॥४१॥
वर्णानां चैव संदेहो युगांते कुरुनंदन
एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता ॥४२॥
सहस्रयुगपर्यंतं तदहर्ब्राह्ममुच्यते
ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम् ॥४३॥
शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्
देवतानां च सर्वेषां ब्राह्मणानां महीपते ॥४४॥
दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्
गंधर्वाणामप्सरसां भुजंगानां च पार्थिव ॥४५॥
पर्वतानां नदीनां च पशूनां चैव सत्तम
तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा ॥४६॥
सर्वभूतपतिः पंच भूत्वा भूतानि भूतकृत्
जगत्संहरणार्थाय कुरुते वैशसं महत् ॥४७॥
भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्
भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत् ॥४८॥
भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥४९॥
ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः
पर्वतानां च सलिलं सर्वमादाय योगवित्1.39. ॥५०॥
भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले
रमते जलमादाय पिबन्रसमनुत्तमं ॥५१॥
मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं
तत्सर्वमरविंदाक्ष आदत्ते पुरुषोत्तमः ॥५२॥
वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्
प्राणापानं समासाद्य वायुना क्रमते हरिः ॥५३॥
ततो देवगणानां च सर्वेषां चैव देहिनाम्
पंचेंद्रियगुणास्सर्वे भूतान्येव च यानि च ॥५४॥
घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः
लोकयात्रा भगवता मुहूर्तेन विनाशिता ॥५५॥
जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः
रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः ॥५६॥
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः
शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः ॥५७॥
मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः
परेण परमेष्ठी च हृषीकेशमुपाश्रिताः ॥५८॥
ततो भगवतस्तस्य रश्मिभिः परिवारिताः
वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः ॥५९॥
तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्
प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः ॥६०॥
सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि च
विमानानि च दिव्यानि पुराणि विविधानि च ॥६१॥
यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्
भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः ॥६२॥
स भूतिं धारयामास युगांते लोकसंभवाम्
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः ॥६३॥
दिव्यतोयेन हविषा तर्पयामास मेदिनीं
ततः क्षीरनिकाशेन स्वादुना परमांभसा ॥६४॥
शिशिरेण च पुण्येन महीनिर्वाणमागमत्
तेन तोयेन संपृक्ता पयस्साधर्म्यतो धरा ॥६५॥
एकार्णावजलीभूता सर्वसत्वविवर्जिता
महासत्वान्यपि विभुं प्रविष्टान्यमितौजसं ॥६६॥
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते
संशोषमात्मना कृत्वा समुद्राणां च देहिनः ॥६७॥
दग्ध्वा संकोच्य च तथा स्वपित्येकः सनातनः
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः ॥६८॥
एकार्णवजलेयायी योगी योगमुपासितः
अनेकानि सहस्राणि युगान्येकार्णवांभसि ॥६९॥
न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति
कश्चैष पुरुषो नाम किं योगः कश्च योगवान् ॥७०॥
न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतः
कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः ॥७१॥
नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्
पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः ॥७२॥
एवमेकार्णवीभूते शेते लोके महाद्युतिः
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते ॥७३॥
महतो रजसो मध्ये महार्णवसमस्य वै
वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः ॥७४॥
आत्मरूपसरूपेण तमसा संवृतः प्रभुः
मनः सात्विकमादाय यत्र तत्सत्वमाहितं ॥७५॥
यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततः
रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम् ॥७६॥
पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्
यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः ॥७७॥
ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताः
अस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा ॥७८॥
ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं
होतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥७९॥
ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशः
मेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च ॥८०॥
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव
पाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम् ॥८१॥
अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्
एवमेवं स भगवान्षोडशैतान्जगत्पतिः ॥८२॥
स्वयंभूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्
तदा चैष महायोगी पुरुषो यज्ञसंज्ञितः ॥८३॥
वेदाश्चैव तथा सर्वे सहांगोपनिषत्क्रियाः
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा ॥८४॥
श्रूयतां तु तदा विप्रो मार्कंडेयः कुतूहलात्
गीर्णो भगवता तेन कुक्षावासीन्महामुनिः ॥८५॥
बहुवर्षसहस्रायुस्तस्यैव वरतेजसः
अटंस्तीर्थप्रसंगेन पृथिवीतीर्थगोचरः ॥८६॥
आश्रमाणि च पुण्यानि देवतायतनानि च
देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च ॥८७॥
जपहोमपराः शांतास्तपोभिरमलाः स्मृताः
मार्कंडेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः ॥८८॥
निष्क्रामन्तं न चात्मानं जानीते देवमायया
निष्क्रम्य तस्य उदरादेकार्णवमथो जगत् ॥८९॥
सर्वतस्तमसाछन्नं मार्कंडेयोन्ववैक्षत
तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम् ॥९०॥
देवदर्शनसंहृष्टो विस्मयं परमं गतः
सोऽचिंतयदमोघात्मा मार्कंडेयोथ शंकितः ॥९१॥
किं नु स्याच्चित्तसंमोहः किं नु स्वप्नोनुभूयते
व्यक्तमन्यतरो भाव एतयोर्भविता मम ॥९२॥
न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति
नष्टचंद्रार्कपवनो नष्टपर्वतभूतलः ॥९३॥
कतमः स्यादयं लोक इति शोकमुपागतः
ददर्श चापि पुरुषं स्वपंतं पर्वतोपमम् ॥९४॥
सलिलेऽधमथो मग्नं जीमूतमिव सागरे
तपंतमिव तेजोभिरामुक्तशशिभास्करम् ॥९५॥
गांभीर्यात्सागरमिव भासमानम्मवौजसा
देवं द्रष्टुमिहायातः को भवानिति विस्मयात् ॥९६॥
तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः
संप्रविष्टः पुनः कुक्षिं मार्कंडेयः सविस्मयम् ॥९७॥
तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्
स तथैव यथापूर्वं पृथिवीमटते वनम् ॥९८॥
पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च
क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः ॥९९॥
अपश्यद्देवकुक्षिस्थान्यज्ञस्थान्शतशो द्विजान्
सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः1.39. ॥१००॥
चत्वार आश्रमाः सम्यग्यथापूर्वं विलोकिता
एवं वर्षशतं साग्रं मार्कंडेयेन धीमता ॥१०१॥
चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यते
ततः कदाचिदथ वै पुनः कुक्षेर्विनिर्गतः ॥१०२॥
सुप्तंन्यग्रोधशाखायांबालमेकंनिरीक्ष्यच
तथैवैकार्णवजले नीहारेणावृतांतरे ॥१०३॥
अव्यक्तक्रीडिते लोके सर्वभूतविवर्जिते
स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः ॥१०४॥
बालमादित्यसंकाशं न शक्नोत्यभिवीक्षितुम्
सोप्यचिंतयदेकांते स्थित्वा सलिलसन्निधौ ॥१०५॥
पूर्वदृष्टमिदं मेने शंकितो देवमायया
अगाधे सलिले शेते मार्कंडेयः सविस्मयः ॥१०६॥
पूर्ववत्तमथो द्रष्टुमव्रजत्त्रस्तलोचनः
स तस्मै भगवानाह स्वागतो बाल भो इति ॥१०७॥
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः
मार्कंडेय न भेतव्यमागच्छस्व ममांतिकम् ॥१०८॥
मार्कंडेय उवाच
को नाम्ना कीर्तयति मां कुर्वन्परिभवं मम
दिव्यवर्षसहस्राख्यं धर्षयंश्चैव मे वयः ॥१०९॥
न ह्येष च सदाचारो देवेष्वपि ममोचितः
मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते ॥११०॥
कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितः
मार्कंडेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि ॥१११॥
एवं प्रक्षुभितः क्रोधान्मार्कंडेयो महामुनिः
तदैनं भगवान्भूयो बभाषे मधुसूदनः ॥११२॥
श्रीभगवानुवाच
अहं ते जनको वत्स हृषीकेशः पिता गुरुः
आयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि ॥११३॥
मां पुत्रकामः प्रथमं त्वत्पितांगिरसो मुनिः
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥११४॥
तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्
दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम् ॥११५॥
कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्
द्रष्टुमेकार्णवगतं क्रीडंतं योगमायया ॥११६॥
ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनः
मूर्ध्नि बद्धांजलिपुटो मार्कंडेयो माहातपाः ॥११७॥
नामगोत्रे तु संप्रोच्य दीर्घायुर्लोकपूजितः
तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥११८॥
मार्कंडेय उवाच
इच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघ
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥११९॥
किं संज्ञश्चैव भगवान्लोके विज्ञायसे प्रभो
तर्कयेहं महात्मानं को ह्यन्यः स्थातुमर्हसि ॥१२०॥
श्रीभगवानुवाच
अहं नारायणो ब्रह्मन्सर्वभूतविनाशनः
अहं सहस्रशीर्षास्यः सहस्रपदसंयुतः ॥१२१॥
आदित्यवर्णः पुरुषो मुखे ब्रह्ममयो ह्यहम्
अहमग्निर्हव्यवहः सप्तसप्तिभिरन्वितः ॥१२२॥
अहमिंद्रपदः शक्र ॠतूनां परिवत्सरः
अहं योगिषु सांख्याख्यो युगांतावर्त एव च ॥१२३॥
अहं सर्वाणि सत्वानि दैवतान्यखिलानि च
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ॥१२४॥
कृतांतः सर्वभूतानां विज्ञेयः कालसंज्ञितः
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥१२५॥
अहं दया परोधर्मः क्षीरोदोहं महार्णवः
यत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः ॥१२६॥
अहं सांख्यमहं योगो ह्यहं तत्परमं पदम्
अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः ॥१२७॥
अहं ज्योतिरहं वायुरहं भूमिरहं जलम्
आकाशोहं समुद्राश्च नक्षत्राणि दिशो दश ॥१२८॥
अहं वर्षमहं सोमः पर्जन्योहमहं रविः
अहं पुराणं परमं तथैवाहं परायणम् ॥१२९॥
भविष्ये चापि सर्वत्र भविष्यत्सर्वसंग्रहः
यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन ॥१३०॥
यच्चानुभवसे लोके तत्सर्वं मामनुस्मर
विश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य माम् ॥१३१॥
युगे युगे च रक्षामि मार्कंडेयाखिलं जगत्
तदेतत्कथितं सर्वं मार्कंडेयावधारय ॥१३२॥
शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मम
मम ब्रह्मा शरीरस्थो देवाश्च ॠषिभिः सह ॥१३३॥
व्यक्तमव्यक्तयोगं मामवगच्छ मुरद्विषम्
अहमेकाक्षरो मंत्रस्त्र्यक्षरश्च पितामहः ॥१३४॥
परस्त्रिवर्गओंकारः परमात्मप्रदर्शनः
एवमादिपुराणं च वदतेमां महामते ॥१३५॥
वक्त्रं यातो भगवतो मार्कंडेयो महामुनिः
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ॥१३६॥
तस्यासम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययम्
यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगतचंद्रभास्करे ॥१३७॥
शनैश्चरन्प्रभुरथ हंससंज्ञितः सृजन्जगद्विहरति कालपर्यये
अथ चैवं शुचिर्भूत्वा वरयामास वै तपः ॥१३८॥
छादयित्वात्मनो देहं पयसांबुजसंभवः
ततो महात्मातिबलो मर्त्यलोकविसर्जने ॥१३९॥
महतां चैव भूतानां विश्वो विश्वमचिंतयत्
तस्य चिंतयमानस्य नियते संस्थितेर्णवे ॥१४०॥
निराकाशे तोयमये सूक्ष्मे जगति संक्षये
ईशः संक्षोभयामास सोर्णवं सलिलं गतः ॥१४१॥
अथांतरादपां सूक्ष्ममथ च्छिद्रमभूत्पुरा
शब्दं प्रति ततो भूतो मारुतश्छिद्रसंभवः ॥१४२॥
संलब्ध्वांतरसंक्षोभं व्यवर्धत समीरणः
नभस्वता बलवता वेगाद्विक्षोभितोर्णवः ॥१४३॥
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नंभसि मथ्यतः
कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान् ॥१४४॥
ततः संशोषयामास पावकः सलिलं बहु
समस्तजलधिश्छिद्रमभवद्विसृतं नभः ॥१४५॥
आत्मतेजोभवाः पुण्या आपोमृतरसोपमाः
आकाशं छिद्रसंभूतं वायुराकाशसंभवः ॥१४६॥
अथ संघर्षसम्भूतं पावकं चास्य संभवम्
दृष्ट्वा पितामहो देवो महाभूतविभावनः ॥१४७॥
दृष्ट्वा भूतानि भगवान्लोकसृष्ट्यर्थमुत्तमम्
ब्रह्मणो जन्मसहितं बहुरूपो ह्यचिंतयत् ॥१४८॥
चतुर्युगानां संख्यातं सहस्रं युगपर्यये
यत्पृथिव्यां द्विजेंद्राणां तपसा भावितात्मनाम् ॥१४९॥
बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यते
ज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां याति योग्यताम्1.39. ॥१५०॥
तं योगवंतं विज्ञाय संपूर्णैश्वर्यमुत्तमम्
पदे ब्रह्मणि विश्वस्य न्ययोजयत योगवित् ॥१५१॥
ततस्तस्मिन्महातोये महेशो हरिरच्युतः
जलक्रीडां च विधिवत्स चक्रे सर्वलोककृत् ॥१५२॥
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः
सहस्त्रवर्णं विरजं भास्कराभं हिरण्मयम् ॥१५३॥
हुताशनज्वलितशिखोज्जवलप्रभं समुत्थितं शरदमलार्कतेजसम्
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम् ॥१५४॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पद्मप्रादुर्भावोनामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP