संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ४९

सृष्टिखण्डः - अध्यायः ४९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच -
केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते
केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति ॥१॥
ब्रह्मोवाच -
शयनीयात्समुत्थाय रात्र्यंशे द्विजसत्तमः
देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम् ॥२॥
गोविंदं माधवं कृष्णं हरिं दामोदरं तथा
नारायणं जगन्नाथं वासुदेवमजं विभुम् ॥३॥
सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्
ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्च ग्रहांस्तथा ॥४॥
शङ्करं च शिवं शंभुमीश्वरं च महेश्वरम्
गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम् ॥५॥
पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥६॥
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चीरजीविनः ॥७॥
एतान्यस्तु स्मरेन्नित्यं प्रातरुत्थाय मानवः
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥८॥
सकृदुच्चरिते तात सर्वयज्ञफलं लभेत्
गवां शतसहस्राणां दानस्य फलमश्नुते ॥९॥
ततश्चापि शुचौ देशे मलमूत्रं परित्यजेत्
दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः ॥१०॥
परतो दंतकाष्ठं च तृणैरुदुंबरादिभिः
अतः परं च संध्यायां संयतश्च द्विजो भवेत् ॥११॥
पूर्वाह्णे रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकाम्
सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि ॥१२॥
ततः समाचरेत्स्नानं यथाज्ञानेन यत्नतः
अंगं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्ततः ॥१३॥
शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः
बाह्वोः पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा ॥१४॥
एका लिंगे गुदे तिस्रस्तथा वामकरे दश
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥१५॥
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥१६॥
अनेनैव तु मंत्रेण मृत्तिकां यस्तनौ क्षिपेत्
सर्वपापक्षयस्तस्य शुचिर्भवति मानवः ॥१७॥
ततस्तु वेदपूर्वेण स्नानं कुर्याद्विचक्षणः
नदे नद्यां तथा कूपे पुष्करिण्यां तटाकके ॥१८॥
जलराशौ च वप्रे च घटस्नानं तथोत्तरम्
कारयेद्विधिवन्मर्त्यः सर्वपापक्षयाय च ॥१९॥
प्रातःस्नानं महापुण्यं सर्वपापप्रणाशनम्
यः कुर्यात्सततं विप्रो विष्णुलोके महीयते ॥२०॥
प्रातः संध्यासमीपे च यावद्दंडचतुष्टयम्
तावत्पानीयममृतं पितॄणामुपतिष्ठते ॥२१॥
परतो घटिकायुग्मं यावद्यामैकमाह्निकम्
मधुतुल्यं जलं तस्मिन्पितॄणां प्रीतिवर्धनम् ॥२२॥
ततस्तु सार्द्धयामैकं जलं क्षीरमयं स्मृतम्
क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम् ॥२३॥
अतः परं च पानीयं यावद्धि प्रहरत्रयम्
तत्परं लोहितं प्रोक्तं यावदस्तंगतो रविः ॥२४॥
चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत्पितॄन्
तत्तोयं रक्षसामेव ग्रहणेन विना स्मृतम् ॥२५॥
पानीयं सर्वसिर्द्ध्य्थं पुरैव निर्मितं मया
रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरंधराः ॥२६॥
न प्राप्नुवंति पितरो ये च लोकांतरं गताः
दुष्प्राप्यं सलिलं तेषामृते स्वान्मर्त्यवासिनः ॥२७॥
तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः
बंधुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः ॥२८॥
नारद उवाच -
जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि
यथा जानामि देवेश तत्वतो वक्तुमर्हसि ॥२९॥
ब्रह्मोवाच -
जलस्य देवता विष्णुःस र्वलोकेषु गीयते
जलपूतो भवेद्यस्तु विष्णुस्तच्छंकरो भवेत् ॥३०॥
जलं गंडूषमात्रं तु पीत्वा पूतो भवेन्नरः
विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम् ॥३१॥
सर्वदेवालयो दर्भो मयायं निर्मितः पुरा
कुशमूले भवेद्ब्रह्मा कुशमध्ये तु केशवः ॥३२॥
कुशाग्रे शंकरं विद्धि कुश एते प्रतिष्ठिताः
कुशहस्तः सदा मेध्यः स्तोत्रं मंत्रं पठेद्यदि ॥३३॥
सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते
कुशाः काशास्तथा दूर्वा यवपत्राणि व्रीहयः ॥३४॥
बल्वजाः पुंडरीकाश्च कुशास्सप्त प्रकीर्तिताः
आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः ॥३५॥
विना मंत्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्
अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च ॥३६॥
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः
दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा ॥३७॥
अग्निस्तंभभयाद्देवा न चेच्छन्त्यतिविस्तरम्
स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन् ॥३८॥
नीलपंडविमोक्षेण त्वमावास्या तिलोदकैः
वर्षासु दीपदानेन पितॄणामनृणो भवेत् ॥३९॥
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्
विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते ॥४०॥
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्
उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम् ॥४१॥
अयने विषुवे चैव राकामायां तथैव च
तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते ॥४२॥
तथा मन्वंतराख्यायामन्यस्यां पुण्यसंस्थितौ
ग्रहणे चंद्रसूर्यस्य पुण्यतीर्थे गयादिषु ॥४३॥
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्
तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसंचयम् ॥४४॥
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः
अधिकारी भवेत्पश्चात्पितॄणां तर्पणे बुधः ॥४५॥
श्राद्धे भोजनकाले च पाणिनैकेन दापयेत्
उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः ॥४६॥
दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत्पितॄन्
तृप्यतामिति वाक्येन नामगोत्रेण वै पुनः ॥४७॥
अकृष्णैर्यत्तिलैर्मोहात्तर्पयेत्पितृसंचयम्
भूम्यां ददाति यदपो दाता चैव जले स्थितः ॥४८॥
वृथा तद्दीयते दानं नोपतिष्ठति कस्यचित्
स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ॥४९॥
नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम्
आर्द्रवासा जले यस्तु कुर्यादुदकतर्पणम् ॥५०॥ 1.49.50
पितरस्तस्य तृप्यंति सहदेवैस्सदानघ
रजकैः क्षालितं वस्त्रमशुद्धं कवयो विदुः ॥५१॥
हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति
शुष्कवासाः शुचौ देशे स्थाने यत्तर्पयेत्पितॄन् ॥५२॥
ततो दशगुणेनैव तुष्यंति पितरो ध्रुवम्
स्नानं संध्यां च पाषाणे खड्गे वा ताम्रभाजने ॥५३॥
तर्पणं कुरुते यस्तु प्रत्येकं च शताधिकम्
रौप्यांगुलीयं तर्जन्यां धृत्वा यत्तर्पयेत्पितॄन् ॥५४॥
सर्वं च शतसाहस्रगुणं भवति नान्यथा
तथैवानामिकायां तु धृत्वा स्वर्णांगुलीं बुधः ॥५५॥
तर्पयेत्पितृसंदोहं लक्षकोटिगुणं भवेत्
अंगुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम् ॥५६॥
धृत्वानामिकया रत्नमंजलेरक्षयंफलं
स्नानार्थमभिगच्छंतं देवाः पितृगणैः सह ॥५७॥
वायुभूतानुगच्छंति तृषार्ताः सलिलार्थिनः
निराशास्ते निवर्तंते वस्त्रनिष्पीडनेन च ॥५८॥
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्
तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे ॥५९॥
स्रवंति सर्वतीर्थानि तस्मान्न परिपीडयेत्
देवाः पिबंति शिरसि श्मश्रुतः पितरस्तथा ॥६०॥
चक्षुषोरपि गंधर्वा अधस्तात्सर्वजंतवः
देवाः पितृगणाः सर्वे गंधर्वा जंतवस्तथा ॥६१॥
स्नानमात्रेण तुष्यंति स्नानात्पापं न विद्यते
नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः ॥६२॥
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते
स्नानं तर्पणपर्यंतं देवा महर्षयो विदुः ॥६३॥
अतः परं च देवानां पूजनं कारयेद्बुधः
गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते ॥६४॥
आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्
शिवं च कृत्यकामार्थं सर्वकामाय चंडिकाम् ॥६५॥
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्
वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम् ॥६६॥
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्
गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम् ॥६७॥
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्
नारद उवाच -
किमर्थं च जलं तात देवाः पितृगणैः सह ॥६८॥
न प्राप्नुवंति सर्वज्ञ लभंते मानवा यथा
ब्रह्मोवाच
पुरा सृष्टं मया तोयं सर्वदेवमयामृतम् ॥६९॥
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः
घ्नंति ते पितरं देवमस्मद्वाक्यान्न मानुषम् ॥७०॥
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः
मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम् ॥७१॥
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः
अस्नायी च मलं भुंक्ते अजपी पूयशोणितम् ॥७२॥
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते
ब्रह्महत्यासमं पापं देवानामप्यपूजने ॥७३॥
सन्ध्याकृत्यमकृत्वा च सूर्यं हंति च पापकृत्
नारद उवाच -
ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम् ॥७४॥
इतरेषां च वर्णानां प्रवृत्तमखिलं वद
ब्रह्मोवाच -
आचाराल्लभते चायुराचाराल्लभते सुखम् ॥७५॥
आचारात्स्वर्गं मोक्षं च आचारो हंत्यलक्षणम्
अनाचारो हि पुरुषो लोके भवति निंदितः ॥७६॥
दुःखभागी च सततं व्याधितोल्पायुरेव च
नरके नियतं वासो ह्यनाचारान्नरस्य च ॥७७॥
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः
गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम् ॥७८॥
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्
भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति ॥७९॥
शिलापात्रं तु तैलेन फालंगो वालकेन तु
स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति ॥८०॥
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु
खननाद्दाहनाच्चैव उपलेपन धावनात् ॥८१॥
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति
तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च ॥८२॥
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमंडलुः ॥८३॥
आत्मनः कथिताश्शुद्धा न परेषां कदाचन
न भुंजीतैकवस्त्रेण न स्नायादेकवाससा ॥८४॥
न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन
संस्कारं केशदंतानां प्रातरेव समाचरेत् ॥८५॥
गुरूणां च नमस्कारं नित्यमेव समाचरेत्
हस्तपादे मुखे चैव पंचार्द्रो भोजनं चरेत् ॥८६॥
पंचार्द्रकस्तु भुंजानः शतं वर्षाणि जीवति
देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि ॥८७॥
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च
गोगणं देवतं विप्रं घृतं मधु चतुष्पथम् ॥८८॥
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्
गोविप्रावग्निविप्रौ च विप्रौ द्वौ दंपती तथा ॥८९॥
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्
उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम् ॥९०॥
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ॥९१॥
सूर्याचंद्रमसावेवं नक्षत्राणि च सर्वशः
नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम् ॥९२॥
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्
नदीनां च प्रतीरे च पत्युश्च सरितां तथा ॥९३॥
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके
शरीरस्य मलत्यागं न कुर्याज्जीवने तथा ॥९४॥
विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च
न क्षौरं कारयेद्धीरः कुजस्याह्नि कदाचन ॥९५॥
मलं न धारयेद्दंते नखं न वदने क्षिपेत्
तैलाभ्यंगं न कुर्वीत वासरे रविभौमयोः ॥९६॥
स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनम्
न हरेच्छ्रोत्रियस्वं च देवस्यापि गुरोरपि ॥९७॥
राज्ञस्तपस्विनां चैव पंगोरंधस्य योषितः
पंथा देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ॥९८॥
रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च
विवादं न च कुर्वीत नृप विप्र चिकित्सकैः ॥९९॥
ब्राह्मणं गुरुपत्नीं च दूरतः परिवर्जयेत्
पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम् ॥१००॥ 1.49.100
निर्धूतं ज्ञानहीनं च दूरतः परिवर्जयेत्
स्त्रियं दुष्टां च दुर्वृत्तामपवाद प्रदायिनीम् ॥१०१॥
कुकर्मकारिणीं दुष्टां सदैव कलहप्रियाम्
प्रमत्तामधिकांगीञ्च निर्लज्जां बाह्यचारिणीम् ॥१०२॥
व्ययशीलामनाचारां दूरतः परिवर्जयेत्
मलिनां नाभिवंदेत गुरुपत्नीं कदाचन ॥१०३॥
न स्पृशेत्तां च मेधावी स्पृष्ट्वा स्नानेन शुद्ध्यति
स तया सह केलिं च वर्जयेच्च सदैव हि ॥१०४॥
शृणुयाच्च वचो नूनं न पश्येच्च गुरोः स्त्रियम्
वधूं पुत्रस्य भ्रातुश्च स्वपुत्रीं युवतीं ध्रुवम् ॥१०५॥
अन्यां च गुरुपत्नीं च नेक्षेत्स्पर्शं न कारयेत्
ताभिः सह कथालापं तथा भ्रूभंगदर्शनम् ॥१०६॥
कलहं निस्त्रपां वाणीं सदैव परिवर्जयेत्
न दद्याच्च सदा पादं तुषांगारास्थिभस्मसु ॥१०७॥
कार्पासास्थिषु निर्माल्ये चितिकाष्ठे चितौ गुरौ
शुष्कं मीनं न भक्षेत पूतिगंधिममेध्यकम् ॥१०८॥
विघसं चान्यदुच्छिष्टं पाकार्थं च परस्य च
न स्थातव्यं न गंतव्यं क्षणमप्यसता सह ॥१०९॥
न तिष्ठेच्च क्षणं धीरो दीपच्छाये कलिद्रुमे
अस्पृश्यैस्सह चालापं पतितैः कुपितैः सह ॥११०॥
न कुर्यात्क्षणमात्रं तु कृत्वा गच्छेच्च रौरवम्
कनिष्ठं नाभिवंदेत पितृव्यं मातुलं तथा ॥१११॥
उत्थाय चासनं दद्यात्कृतांजल्यग्रतः स्थितः
तैलाभ्यक्तं तथोच्छिष्टमार्द्रवस्त्रं च रोगिणम् ॥११२॥
पारावारगतोद्विग्नं वहंतं नाभिवादयेत्
यज्ञस्यांतर्गतं नष्टं क्रीडंतं स्त्रीजनैः सह ॥११३॥
बालक्रीडागतं चापि पुष्पयुक्तं कुशैर्युतम्
शिरः प्रावृत्य कर्णौ वा अप्सु मुक्तशिखोपि वा ॥११४॥
अकृत्वा पादयोः पूजां नाचामेद्दक्षिणामुखः
उपवीतविहीनश्च नग्नको मुक्तकच्छकः ॥११५॥
एकवस्त्रपिधानश्च आचांतो नैव शुध्यति
मध्यमाभिर्मुखं पूर्वं तिसृभिः समुपस्पृशेत् ॥११६॥
अंगुष्ठदेशिनीभ्यां च नासां च तदनंतरम्
अंगुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् ॥११७॥
कनिष्ठांगुष्ठतश्श्रोत्रे नाभिमंगुष्ठकेन तु
तलेन हृदयं न्यस्य सर्वाभिर्मस्तकोपरि ॥११८॥
बाहूचाग्रेण संस्पृश्य ततः शुद्धो भवेन्नरः
अनेनाचमनं कृत्वा मानवः प्रयतो भवेत् ॥११९॥
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते
प्राणस्त्रिपुटशृंग्या च व्यानोपानश्च मुद्रया ॥१२०॥
समानस्तु समस्ताभिरुदानस्तर्जनीं विना
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥१२१॥
उपप्रीणंतु ते प्रीता येभ्यो भूमौ प्रदीयते
शयनं चार्द्रपादेन शुष्कपादेन भोजनम् ॥१२२॥
नांधकारे च शयनं भोजनं नैव कारयेत्
पश्चिमे दक्षिणे चैव न कुर्याद्दंतधावनम् ॥१२३॥
उत्तरे पश्चिमे चैव न स्वपेद्धि कदाचन
स्वप्नादायुः क्षयं याति ब्रह्महा पुरुषो भवेत् ॥१२४॥
न कुर्वीत ततः स्वप्नं शस्तं च पूर्वदक्षिणम्
आयुष्यं प्राङ्मुखो भुंक्तेऽयशस्यं दक्षिणामुखः ॥१२५॥
श्रियं प्रत्यङ्मुखो भुंक्ते यशो भुङ्क्त उदङ्मुखः
प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते ॥१२६॥
वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे
देवानामेकभुक्तं तु द्विभुक्तं स्यान्नरस्य च ॥१२७॥
त्रिभुक्तं प्रेतदैत्यस्य चतुर्थं कौणपस्य तु
निरामिषं हविर्देवा मत्स्यमांसादि मानुषाः ॥१२८॥
पूतिपर्युषितं दुष्टमन्ये भुंजंत्यनावृताः
स्वर्गस्थितानामिह जीवलोके चत्वारि तेषां हृदये च संति ॥१२९॥
दानं प्रशस्तं मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च
कार्पण्यवृत्तिस्वजनेषु निंदा कुचेलता नीचजनेषु भक्तिः ॥१३०॥
अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य
नवनीतोपमा वाणी करुणा कोमलं मनः ॥१३१॥
धर्मबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्
दयादरिद्रहृदयं वचः क्रकच कर्कशम् ॥१३२॥
पापबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्
श्रावयेच्छृणुयाद्वापि सदाचारादिकं नरः ॥१३३॥
आचारादेः फलं लब्ध्वा पापात्पूतोऽच्युतो दिवि ॥१३४॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे सदाचारवर्णनंनामैकोनपञ्चाशोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP