संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ७७ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ७७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७७ Translation - भाषांतर वैशंपायन उवाच - प्रभवत्ययमाकाशे नित्यं द्विजवर प्रभोकोऽयं को वा प्रभावोस्य कुत्र जातो घृणीश्वरः ॥१॥किं करोति हि कार्यं वै यतो रश्मिमयो भृशम्देवैर्मुनिवरैस्सिद्धैश्चारणैर्दैत्यराक्षसैः ॥२॥निखिलैर्मानुषैः पूज्यः सदैव ब्राह्मणादिभिःव्यास उवाच - परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिस्सृतम् ॥३॥साक्षाद्ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदम्मयूखैर्निर्मलैः कूटमतिचंडं सुदुःसहम् ॥४॥दृष्ट्वा प्रदुद्रुवुर्लोकाः करैश्चंडैः प्रपीडिताःततश्च सागराः सर्वे वरनद्यो नदादयः ॥५॥शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाःअथ शक्रादयो देवा ब्रह्माणं समुपागताः ॥६॥इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः ॥७॥अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगःएताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः ॥८॥दिव्योपपादका देवा ये वात्रैव जरायुजाःअंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः ॥९॥सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमःअनेन रक्षिता लोका जनिताः पालिता ध्रुवम् ॥१०॥अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते ॥११॥तमाराध्य जना मोक्षं साधयंति द्विजातयःसंध्योपासनकाले तु विप्रा ब्रह्मविदः किल ॥१२॥उद्बाहवो भवंत्येव ते च देवप्रपूजिताःअस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं ॥१३॥समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौधरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः ॥१४॥संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम् ॥१५॥महापातकसंकीर्णमुपपातकसंवृतम्पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात् ॥१६॥अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यतेनांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम् ॥१७॥लभते च इहामुत्र समुपास्य विरोचनम्अदृष्टा नैव लोकैश्च देवा हरिहरादयः ॥१८॥ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतःदेवा ऊचुःअस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम् ॥१९॥अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि ॥२०॥अस्य तेजःप्रभावेण प्रणष्टास्सागरादयःन समर्था वयं सोढुं कथमन्ये पृथग्जनाः ॥२१॥तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्यजंति च नरा भक्त्या तदुपायो विधीयताम् ॥२२॥देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै ॥२३॥देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयःब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः ॥२४॥सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौअन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम् ॥२५॥उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरःत्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम् ॥२६॥प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूःचराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत् ॥२७॥देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु चसर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत् ॥२८॥रूपगंधादिकारी त्वं रसानां स्वादुता त्वयाएवं विश्वेश्वरः सूरो निखिलस्थितिकारकः ॥२९॥तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभोत्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः ॥३०॥सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकःध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः ॥३१॥प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनःत्वदृते सर्वलोकानामुपकारी न विद्यते ॥३२॥आदित्य उवाच - पितामह महाप्राज्ञ विश्वेंद्र विश्वभावकब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे ॥३३॥ब्रह्मोवाच - मयूखस्त्वतिचंडश्च लोकानामतिदुःसहःयथैव मृदुतामेति तथा कुरु सुरेश्वर ॥३४॥आदित्य उवाच - किरणाः कोटिकोटिर्मे लोकनाशकराः पराःन चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो ॥३५॥ततो विरिंचिना तूर्णं रविवाक्यवशाद्ध्रुवंआहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि ॥३६॥चिच्छेद च रवेर्भानून्प्रलयानलसन्निभान्तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम् ॥३७॥अमोघं यमदंडं च शूलं पशुपतेस्तथाकालस्य च परः खड्गश्शक्तिर्गुरुप्रमोदिनी ॥३८॥चंडिकायाः परं शस्त्रं विचित्रं शूलकं तथाचक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा ॥३९॥सहस्रकिरणं शिष्टमन्यच्चैव प्रशातितम्अजनोपायभावेन पुनश्च कश्यपान्मुने ॥४०॥अदितेर्गर्भसंजात आदित्य इति वै स्मृतःअयं चरति विश्वांते मेरुशृंगं भ्रमत्यपि ॥४१॥सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजनेग्रहाश्चंद्रादयस्तत्र चरंति विधिनोदिताः ॥४२॥सूरः संचरते मासान्द्वादशद्वादशात्मकःसंक्रमादस्य संक्रांतिः सर्वैरेव प्रतीयते ॥४३॥तासु यद्वा फलं ब्रूमो लोकानां निखिलं मुनेधनुर्मिथुनमीनेषु कन्यायां षडशीतयः ॥४४॥वृषवृश्चिककुंभेषु सिंहे विष्णुपदी स्मृतातर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा ॥४५॥षडशीतिसहस्राणि षडशीतौ फलं भवेत्विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं ॥४६॥विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितंदातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि ॥४७॥शीते तूलपटीदानान्न दुःखं जायते तनौतुलादाने तल्पदाने द्वयोरेवाक्षयं फलं ॥४८॥सर्वोपकरणां शय्यां यो ददाति विमत्सरःवर्णमुख्याय विप्राय स राजपदवीं लभेत् ॥४९॥तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगेदत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत् ॥५०॥ सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे ॥५१॥पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिविसुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम् ॥५२॥रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः ॥५३॥दत्वान्नाभरणं राजा मंडलेशो धनीश्वरःतिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम् ॥५४॥सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते ॥५५॥धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति ॥५६॥यत्किंचिद्दीयते दानं स्वल्पं वा यदि वा बहुअक्षयं परलोकेषु युगाद्यासु तथैव च ॥५७॥यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवःपुनाति सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ ॥५८॥तृतीया माघमासस्य सिता मन्वंतरा स्मृतातस्यां यद्दीयते दानं सर्वमक्षयमुच्यते ॥५९॥धनं भोग्यं तथा राज्यं नाकं कल्पांतरस्थितम्तस्माद्दानं सतां पूजा प्रेत्यानंतफलप्रदा ॥६०॥मन्वंतरा तु माघे स्यात्सप्तमी या शितीतरातिथिः पुण्यतमा प्रोक्ता पुराणैरभिरक्षिता ॥६१॥माघमासे सिते पक्षे सप्तमी कोटिभास्करातामुपोष्य नरः पुण्यां मुच्यते नात्र संशयः ॥६२॥सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमीअरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥६३॥यच्च तत्र कृतं पापं मया सप्तसु जन्मसुतन्मे रोगं च शोकं च भास्करी हंतु सप्तमी ॥६४॥जननी सर्वभूतानां सप्तमी सप्तसप्तिकेसप्तम्यामुदिते देवि नमस्ते रविमंडले ॥६५॥अर्कपत्रं यवाः पुष्पं सुगंधं बदरीफलम्तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम् ॥६६॥यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्सर्वपापं क्षयं याति सप्तजन्मकृतं च यत् ॥६७॥नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैःहविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः ॥६८॥वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्कोरदूषकपत्रं च रंभाच्छागीघृतं तथा ॥६९॥केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव चअल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत् ॥७०॥अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रतीसौरव्रतं महापुण्यं पुराणैरभिनंदितम् ॥७१॥वर्षकोटिसहस्राणि वर्षकोटिशतानि चआदित्यस्य समं भोग्यं लभते दिवि शाश्वतम् ॥७२॥एवं स्वर्गक्षयादेव राजा भूमौ महाधनीमर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम् ॥७३॥तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः ॥७४॥रविवारे भवेद्या च सप्तमी माघशुक्लकेमहाजयेति विख्याता अन्यत्र विजया स्मृता ॥७५॥विजया कोटिलक्षं स्यादनंतं स्यान्महाजयातत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात् ॥७६॥अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात् ॥७७॥एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह ॥७८॥समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत् ॥७९॥अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः ॥८०॥रत्नभांडं महार्थं च हैमैरेव कृतं च यत्स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः ॥८१॥रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छतिस्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति ॥८२॥अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः ॥८३॥माघादौ द्वादशींमायां सप्तमीं कारयेत्स तुइहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते ॥८४॥अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधःपापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात् ॥८५॥लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिःव्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि ॥८६॥शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणेपुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम् ॥८७॥हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसुपुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः ॥८८॥पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत् ॥८९॥अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुतेमूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथाक्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुनाकृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं ॥९०॥अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितंविशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यंशुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणंघृतमपि तत्परिमाणम् ॥९१॥आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करःतदा नक्तं विजानीयान्न नक्तं निशिभोजनं ॥९२॥प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैःअन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं ॥९३॥ततो ध्यानम् - सर्वलक्षणसंपूर्णं सर्वाभरणभूषितंद्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं ॥९४॥तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदंपद्मासनगतं देवं रक्तगंधानुलेपनं ॥९५॥आदित्यं चिंतयेद्देवं पूजाकाले विशेषतःअथ मंत्रश्चायं - भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात् ॥९६॥जप्य एष परः प्रोक्तःसप्तम्यां विजयावहःकरवीरैः करंजैश्च रक्तकुंकुमसन्निभैः ॥९७॥पश्चाच्च पारणा कार्या तथाष्टम्यां विशेषतःअष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं ॥९८॥व्रते फलं न चाप्नोति नवम्यां पारणे कृते॥पारणं त्वपराह्णे तु कटुतिक्ताम्लवर्जितं ॥९९तंडुलं शोधयेद्यत्नात्तृणबीजादिकं त्यजेत्मुद्ग माष तिलादीनि घृतं च परिवर्जयेत् ॥१००॥ ब्राह्मणान्भोजयेद्भक्त्या शक्तः क्षीरादिहव्यकैःयथाशक्त्यन्नपानैश्च व्यंजनैश्च निरामिषैः ॥१०१॥विप्राय दक्षिणां दद्याद्विभज्य चानुरूपतःइमामनंतफलदां यः कुर्यात्सप्तमीं नरः ॥१०२॥सर्वपापप्रशमनीं धनपुत्रविवर्धनीम्मासि मासि द्विजश्रेष्ठ व्रतं कृत्वार्कतुष्टये ॥१०३॥यः कुर्यात्पारणं भक्त्या सूर्यलोकं स गच्छतिकल्पकोटिं वसेत्स्वर्गे ततो याति परां गतिं ॥१०४॥इदमेव परं गुह्यं भाषितं शंभुना पुराश्रवणात्सततं तस्य व्रतस्य परिपालनात्श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितं ॥१०५॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अर्काङ्गसप्तमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP