सृष्टिखण्डः - अध्यायः ७७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वैशंपायन उवाच -
प्रभवत्ययमाकाशे नित्यं द्विजवर प्रभो
कोऽयं को वा प्रभावोस्य कुत्र जातो घृणीश्वरः ॥१॥
किं करोति हि कार्यं वै यतो रश्मिमयो भृशम्
देवैर्मुनिवरैस्सिद्धैश्चारणैर्दैत्यराक्षसैः ॥२॥
निखिलैर्मानुषैः पूज्यः सदैव ब्राह्मणादिभिः
व्यास उवाच -
परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिस्सृतम् ॥३॥
साक्षाद्ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदम्
मयूखैर्निर्मलैः कूटमतिचंडं सुदुःसहम् ॥४॥
दृष्ट्वा प्रदुद्रुवुर्लोकाः करैश्चंडैः प्रपीडिताः
ततश्च सागराः सर्वे वरनद्यो नदादयः ॥५॥
शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाः
अथ शक्रादयो देवा ब्रह्माणं समुपागताः ॥६॥
इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्
आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः ॥७॥
अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगः
एताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः ॥८॥
दिव्योपपादका देवा ये वात्रैव जरायुजाः
अंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः ॥९॥
सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः
अनेन रक्षिता लोका जनिताः पालिता ध्रुवम् ॥१०॥
अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्
यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते ॥११॥
तमाराध्य जना मोक्षं साधयंति द्विजातयः
संध्योपासनकाले तु विप्रा ब्रह्मविदः किल ॥१२॥
उद्बाहवो भवंत्येव ते च देवप्रपूजिताः
अस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं ॥१३॥
समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौ
धरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः ॥१४॥
संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्
दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम् ॥१५॥
महापातकसंकीर्णमुपपातकसंवृतम्
पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात् ॥१६॥
अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यते
नांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम् ॥१७॥
लभते च इहामुत्र समुपास्य विरोचनम्
अदृष्टा नैव लोकैश्च देवा हरिहरादयः ॥१८॥
ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः
देवा ऊचुः
अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम् ॥१९॥
अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्
सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि ॥२०॥
अस्य तेजःप्रभावेण प्रणष्टास्सागरादयः
न समर्था वयं सोढुं कथमन्ये पृथग्जनाः ॥२१॥
तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्
यजंति च नरा भक्त्या तदुपायो विधीयताम् ॥२२॥
देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्
गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै ॥२३॥
देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः
ब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः ॥२४॥
सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ
अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम् ॥२५॥
उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरः
त्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम् ॥२६॥
प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूः
चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत् ॥२७॥
देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु च
सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत् ॥२८॥
रूपगंधादिकारी त्वं रसानां स्वादुता त्वया
एवं विश्वेश्वरः सूरो निखिलस्थितिकारकः ॥२९॥
तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो
त्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः ॥३०॥
सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकः
ध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः ॥३१॥
प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनः
त्वदृते सर्वलोकानामुपकारी न विद्यते ॥३२॥
आदित्य उवाच -
पितामह महाप्राज्ञ विश्वेंद्र विश्वभावक
ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे ॥३३॥
ब्रह्मोवाच -
मयूखस्त्वतिचंडश्च लोकानामतिदुःसहः
यथैव मृदुतामेति तथा कुरु सुरेश्वर ॥३४॥
आदित्य उवाच -
किरणाः कोटिकोटिर्मे लोकनाशकराः पराः
न चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो ॥३५॥
ततो विरिंचिना तूर्णं रविवाक्यवशाद्ध्रुवं
आहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि ॥३६॥
चिच्छेद च रवेर्भानून्प्रलयानलसन्निभान्
तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम् ॥३७॥
अमोघं यमदंडं च शूलं पशुपतेस्तथा
कालस्य च परः खड्गश्शक्तिर्गुरुप्रमोदिनी ॥३८॥
चंडिकायाः परं शस्त्रं विचित्रं शूलकं तथा
चक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा ॥३९॥
सहस्रकिरणं शिष्टमन्यच्चैव प्रशातितम्
अजनोपायभावेन पुनश्च कश्यपान्मुने ॥४०॥
अदितेर्गर्भसंजात आदित्य इति वै स्मृतः
अयं चरति विश्वांते मेरुशृंगं भ्रमत्यपि ॥४१॥
सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजने
ग्रहाश्चंद्रादयस्तत्र चरंति विधिनोदिताः ॥४२॥
सूरः संचरते मासान्द्वादशद्वादशात्मकः
संक्रमादस्य संक्रांतिः सर्वैरेव प्रतीयते ॥४३॥
तासु यद्वा फलं ब्रूमो लोकानां निखिलं मुने
धनुर्मिथुनमीनेषु कन्यायां षडशीतयः ॥४४॥
वृषवृश्चिककुंभेषु सिंहे विष्णुपदी स्मृता
तर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा ॥४५॥
षडशीतिसहस्राणि षडशीतौ फलं भवेत्
विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं ॥४६॥
विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं
दातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि ॥४७॥
शीते तूलपटीदानान्न दुःखं जायते तनौ
तुलादाने तल्पदाने द्वयोरेवाक्षयं फलं ॥४८॥
सर्वोपकरणां शय्यां यो ददाति विमत्सरः
वर्णमुख्याय विप्राय स राजपदवीं लभेत् ॥४९॥
तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगे
दत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत् ॥५०॥
सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्
माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे ॥५१॥
पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिवि
सुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम् ॥५२॥
रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्
एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः ॥५३॥
दत्वान्नाभरणं राजा मंडलेशो धनीश्वरः
तिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम् ॥५४॥
सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्
भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते ॥५५॥
धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्
यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति ॥५६॥
यत्किंचिद्दीयते दानं स्वल्पं वा यदि वा बहु
अक्षयं परलोकेषु युगाद्यासु तथैव च ॥५७॥
यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवः
पुनाति सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ ॥५८॥
तृतीया माघमासस्य सिता मन्वंतरा स्मृता
तस्यां यद्दीयते दानं सर्वमक्षयमुच्यते ॥५९॥
धनं भोग्यं तथा राज्यं नाकं कल्पांतरस्थितम्
तस्माद्दानं सतां पूजा प्रेत्यानंतफलप्रदा ॥६०॥
मन्वंतरा तु माघे स्यात्सप्तमी या शितीतरा
तिथिः पुण्यतमा प्रोक्ता पुराणैरभिरक्षिता ॥६१॥
माघमासे सिते पक्षे सप्तमी कोटिभास्करा
तामुपोष्य नरः पुण्यां मुच्यते नात्र संशयः ॥६२॥
सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥६३॥
यच्च तत्र कृतं पापं मया सप्तसु जन्मसु
तन्मे रोगं च शोकं च भास्करी हंतु सप्तमी ॥६४॥
जननी सर्वभूतानां सप्तमी सप्तसप्तिके
सप्तम्यामुदिते देवि नमस्ते रविमंडले ॥६५॥
अर्कपत्रं यवाः पुष्पं सुगंधं बदरीफलम्
तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम् ॥६६॥
यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्
सर्वपापं क्षयं याति सप्तजन्मकृतं च यत् ॥६७॥
नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैः
हविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः ॥६८॥
वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्
कोरदूषकपत्रं च रंभाच्छागीघृतं तथा ॥६९॥
केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव च
अल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत् ॥७०॥
अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रती
सौरव्रतं महापुण्यं पुराणैरभिनंदितम् ॥७१॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च
आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम् ॥७२॥
एवं स्वर्गक्षयादेव राजा भूमौ महाधनी
मर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम् ॥७३॥
तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्
आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः ॥७४॥
रविवारे भवेद्या च सप्तमी माघशुक्लके
महाजयेति विख्याता अन्यत्र विजया स्मृता ॥७५॥
विजया कोटिलक्षं स्यादनंतं स्यान्महाजया
तत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात् ॥७६॥
अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्
ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात् ॥७७॥
एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्
उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह ॥७८॥
समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्
लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत् ॥७९॥
अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्
हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः ॥८०॥
रत्नभांडं महार्थं च हैमैरेव कृतं च यत्
स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः ॥८१॥
रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति
स्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति ॥८२॥
अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्
यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः ॥८३॥
माघादौ द्वादशींमायां सप्तमीं कारयेत्स तु
इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते ॥८४॥
अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः
पापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात् ॥८५॥
लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः
व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि ॥८६॥
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे
पुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम् ॥८७॥
हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसु
पुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः ॥८८॥
पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्
सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत् ॥८९॥
अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते
मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा
क्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुना
कृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं ॥९०॥
अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितं
विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यं
शुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्
सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्
तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणं
घृतमपि तत्परिमाणम् ॥९१॥
आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करः
तदा नक्तं विजानीयान्न नक्तं निशिभोजनं ॥९२॥
प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैः
अन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं ॥९३॥
ततो ध्यानम् -
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितं
द्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं ॥९४॥
तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदं
पद्मासनगतं देवं रक्तगंधानुलेपनं ॥९५॥
आदित्यं चिंतयेद्देवं पूजाकाले विशेषतः
अथ मंत्रश्चायं -
भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात् ॥९६॥
जप्य एष परः प्रोक्तःसप्तम्यां विजयावहः
करवीरैः करंजैश्च रक्तकुंकुमसन्निभैः ॥९७॥
पश्चाच्च पारणा कार्या तथाष्टम्यां विशेषतः
अष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं ॥९८॥
व्रते फलं न चाप्नोति नवम्यां पारणे कृते॥
पारणं त्वपराह्णे तु कटुतिक्ताम्लवर्जितं ॥९९
तंडुलं शोधयेद्यत्नात्तृणबीजादिकं त्यजेत्
मुद्ग माष तिलादीनि घृतं च परिवर्जयेत् ॥१००॥
ब्राह्मणान्भोजयेद्भक्त्या शक्तः क्षीरादिहव्यकैः
यथाशक्त्यन्नपानैश्च व्यंजनैश्च निरामिषैः ॥१०१॥
विप्राय दक्षिणां दद्याद्विभज्य चानुरूपतः
इमामनंतफलदां यः कुर्यात्सप्तमीं नरः ॥१०२॥
सर्वपापप्रशमनीं धनपुत्रविवर्धनीम्
मासि मासि द्विजश्रेष्ठ व्रतं कृत्वार्कतुष्टये ॥१०३॥
यः कुर्यात्पारणं भक्त्या सूर्यलोकं स गच्छति
कल्पकोटिं वसेत्स्वर्गे ततो याति परां गतिं ॥१०४॥
इदमेव परं गुह्यं भाषितं शंभुना पुरा
श्रवणात्सततं तस्य व्रतस्य परिपालनात्
श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितं ॥१०५॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अर्काङ्गसप्तमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP