सृष्टिखण्डः - अध्यायः १८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्मउवाच
अत्यद्भुतमिदं ब्रह्मन्श्रुतवानस्मि तत्त्वतः
अभिषेकं तु गायत्र्याः सदस्यत्र तथा कृतम् ॥१॥
विरोधं चैव सावित्र्या शापदानं तथा कृतम्
विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता ॥२॥
गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी
तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहम् ॥३॥
प्रहृष्टानि च रोमाणि प्रशांतं च मनो मम
श्रुत्वा मे परमा प्रीतिः कौतूहलमथैव हि ॥४॥
नारायणस्तु भगवान्कृत्वा तां परमां च वै
ब्रह्मपत्न्याः स्तुतिं भक्त्या न्यस्यतां पर्वतोपरि ॥५॥
उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकम्
श्रीमति ह्रीमती चैव या च देवीश्वरी तथा ॥६॥
एतदेव श्रुतं ब्रह्मंस्तव वक्त्राद्विनिःसृतम्
उत्तरं तत्र यद्भूतं यच्च तस्मिन्स्थले कृतम् ॥७॥
आनुपूर्व्या च तत्सर्वं भगवान्वक्तुमर्हति
श्रुतेन मे देहशुद्धिर्भविष्यति न संशयः ॥८॥
पुलस्त्य उवाच
यजतः पुष्करे तस्य देवस्य परमेष्ठिनः
शृणुराजन्निदं चित्रं पूर्वमेव यथाकृतम् ॥९॥
आदौ कृतयुगे तस्मिन्यजमाने पितामहे
मरीचिरंगिराश्चैव पुलस्त्यः पुलहः क्रतुः ॥१०॥
दक्षः प्रजापतिश्चैव नमस्कारं प्रचक्रिरे
विद्योतमानाः पुरुषाः सर्वाभरणभूषिताः ॥११॥
उपनृत्यंति देवेशं विष्णुमप्सरसां गणाः
ततो गंधर्वतूर्यैस्तु प्रतिनंद्य विहायसि ॥१२॥
बहुभिः सह गंधर्वैः प्रगायति च तुंबरुः
महाश्रुतिश्चित्रसेन ऊर्णायुरनघस्तथा ॥१३॥
गोमायुस्सूर्यवर्चाश्च सोमवर्चाश्च कौरव
युगपच्च तृणायुश्च नंदिश्चित्ररथस्तथा ॥१४॥
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
कलिः पंचदशश्चात्र तारकश्चात्र षोडशः ॥१५॥
हाहाहूहूश्च गंधर्वो हंसश्चैव महाद्युतिः
इत्येते देवगंधर्वा उपगायंति ते विभुम् ॥१६॥
तथैवाप्सरसो दिव्या उपनृत्यंति तं विभुं
धातार्यमा च सविता वरुणोंशो भगस्तथा ॥१७॥
इंद्रो विवस्वान्पूषा च त्वष्टा पर्जन्य एव च
इत्येते द्वादशादित्या ज्वलंतो दीप्ततेजसः ॥१८॥
चक्रुरस्मिन्सुरेशाश्च नमस्कारं पितामहे
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः ॥१९॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः
भवो विश्वेश्वरश्चैव कपर्दी च विशांपते ॥२०॥
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ॥२१॥
विश्वेदेवाश्च साध्याश्च तस्मै प्रांजलयः स्थिताः
शेषाद्यास्तु महानागा वासुकिप्रमुखाहयः ॥२२॥
काश्यपः कंबलश्चापि तक्षकश्च महाबलः
एते नागा महात्मानस्तस्मै प्रांजलयः स्थिताः ॥२३॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः
वारुणिश्चैवारुणिश्च वैनतेया व्यवस्थिताः ॥२४॥
नारायणश्च भगवान्स्वयमागत्य लोकवान्
प्राह लोकगुरुं श्रीमान्सहसर्वैर्महर्षिभिः ॥२५॥
त्वया ततमिदं सर्वं त्वया सृष्टं जगत्पते
तस्माल्लोकेश्वरश्चासि पद्मयोने नमोस्तु ते ॥२६॥
यदत्र ते मया कार्यं कर्तव्यं च तदादिश
एवं प्रोवाच भगवान्सार्धं देवर्षिभिः प्रभुः ॥२७॥
नमस्कृत्य सुरेशाय ब्रह्मणेऽव्यक्तजन्मने
स च तत्रस्थितो ब्रह्मा तेजसा भासयन्दिशः ॥२८॥
श्रीवत्सलोमसंच्छन्नो हेमसूत्रेण राजता
सुरर्षिप्रतिमः श्रीमान्स्वयंभूर्भूतभावनः ॥२९॥
शुचिरोमा महावक्षाः सर्वतेजोमयः प्रभुः
यो गतिः पुण्यशीलानामगतिः पापकर्मणां ॥३०॥
योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं
यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम् ॥३१॥
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकांक्षिणः
जन्मनो मरणाच्चैव मुच्यंते योगभाविताः ॥३२॥
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः
सेवंसेवं यताहारा दुश्चरं व्रतमास्थिताः ॥३३॥
योनंत इति नागेषु प्रोच्यते सर्वयोगिभिः
सहस्रमूर्द्धा रक्ताक्षः शेषादिभिरनुत्तमैः ॥३४॥
यो यज्ञ इति विप्रेंद्रैरिज्यते स्वर्गलिप्सुभिः
नानास्थानगतिः श्रीमानेकः कविरनुत्तमः ॥३५॥
यं देवं वेत्ति वेत्तारं यज्ञभागप्रदायिनं
वृषाग्निसूर्यचंद्राक्षं देवमाकाशविग्रहं ॥३६॥
तं प्रपद्यामहे देवं भगवन्शरणार्थिनः
शरण्यं शरणं देवं सर्वदेवभवोद्भवं ॥३७॥
ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं
प्रियार्थं चैव देवानां सर्वस्य जगतः स्थितौ ॥३८॥
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमं
येन प्रवर्तितं सर् तं नतास्मस्सुरोत्तमं ॥३९॥
त्रेताग्निना तु यजता देवेन परमेष्ठिना
यथासृष्टिः कृता पूर्वं यज्ञसृष्टिस्तथा पुनः ॥४०॥
तथा ब्रह्माप्यनंतेन लोकानां स्थितिकारिणा
अन्वास्यमानो भगवान्वृद्धोप्यथ च बुद्धिमान् ॥४१॥
यज्ञवाटमचिंत्यात्मा गतस्तत्र पितामहः
धनाढ्यैर्ऋत्विजैः पूर्णं सदस्यैः परिपालितम् ॥४२॥
गृहीतचापेन तदा विष्णुना प्रभविष्णुना
दैत्यदानवराजानो राक्षसानां गणाः स्थिताः ॥४३॥
आत्मानमात्मना चैव चिंतयामास वै द्रुतं
चिंतयित्वा यथातत्वं यज्ञं यज्ञः सनातनः ॥४४॥
वरणं तत्र भगवान्कारयामास ऋत्विजाम्
भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः ॥४५॥
चक्रुर्बह्वृचमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं
शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि ॥४६॥
यज्ञविद्या वेदविद्या पदक्रमविदां तथा
घोषेण परमर्षीणां सा बभूव निनादिना ॥४७॥
यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ॥४८॥
मीमांसा हेतुवाक्यज्ञैः कृता नानाविधा मुखे
तत्र तत्र च राजेंद्र नियतान्संशितव्रतान् ॥४९॥
जपहोमपरान्मुख्यान्ददृशुस्तत्रवै द्विजान्
यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः ॥५०॥
सुरासुरगुरुः श्रीमान्सेव्यमानः सुरासुरैः
उपासते च तत्रैनं प्रजानां पतयः प्रभुं ॥५१॥
दक्षो वसिष्ठः पुलहो मरीचिश्च द्विजोत्तमः
अंगिरा भृगुरत्रिश्च गौतमो नारदस्तथा ॥५२॥
विद्यामानमंतरिक्षं वायुस्तेजो जलं मही
शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च ॥५३॥
विकृतश्च विकारश्च यच्चान्यत्कारणं महत्
ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार एव च ॥५४॥
शब्दः शिक्षा निरुक्तं च कल्पश्च्छंदः समन्विताः
आयुर्वेद धनुर्वेदौ मीमांसा गणितं तथा ॥५५॥
हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः
एतैरंगैरुपांगैश्च वेदाः सर्वे विभूषिताः ॥५६॥
उपासते महात्मानं सहोंकारं पितामहं
तपश्च क्रतवश्चैव संकल्पः प्राण एव च ॥५७॥
एते चान्ये च बहवः पितामहमुपस्थिताः
अर्थो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा ॥५८॥
शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥५९॥
मरुतो विश्वकर्मा च पितरश्चापि भारत
दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासते ॥६०॥
गायत्री दुर्गतरणी वाणी सप्तविधा तथा
अक्षराणि च सर्वाणि नक्षत्राणि तथैव च ॥६१॥
भाष्याणि सर्वशास्त्राणि देहवंति विशांपते
क्षणा लवा मुहूर्ताश्च दिनं रात्रिस्तथैव च ॥६२॥
अर्द्धमासाश्च मासाश्च क्रतवः सर्व एव च
उपासते महात्मानं ब्रह्माणं दैवतैः सह ॥६३॥
अन्याश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या मतिस्तथा ॥६४॥
श्रुतिः स्मृतिस्तथा क्षांतिः शांतिः पुष्टिस्तथा क्रिया
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः ॥६५॥
उपतिष्ठंति ब्रह्माणं सर्वास्ता देवमातरः
विप्रचित्तिः शिविः शंकुरयःशंकुस्तथैव च ॥६६॥
वेगवान्केतुमानुग्रः सोग्रो व्यग्रो महासुरः
परिघः पुष्करश्चैव सांबोश्वपतिरेव च ॥६७॥
प्रह्लादोथ बलि कुंभः संह्रादो गगनप्रियः
अनुह्रादो हरिहरौ वराहश्च कुशो रजः ॥६८॥
योनिभक्षो वृषपर्वा लिंगभक्षोथ वै कुरुः
निःप्रभः सप्रभः श्रीमांस्तथैव च निरूदरः ॥६९॥
एकचक्रो महाचक्रो द्विचक्रः कुलसंभवः
शरभः शलभश्चैव क्रपथः क्रापथः क्रथः ॥७०॥
बृहद्वांतिर्महाजिह्वः शंकुकर्णो महाध्वनिः
दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः ॥७१॥
वायुर्गरिष्ठो नमुचिश्शम्बरो विज्वरो विभुः
विष्वक्सेनश्चंद्रहर्ता क्रोधवर्द्धन एव च ॥७२॥
कालकः कलकांतश्च कुंडदः समरप्रियः
गरिष्ठश्च वरिष्ठश्च प्रलंबो नरकः पृथुः ॥७३॥
इंद्रतापन वातापी केतुमान्बलदर्पितः
असिलोमा सुलोमा च बाष्कलि प्रमदो मदः ॥७४॥
सृगालवदनश्चैव केशी च शरदस्तथा
एकाक्षश्चैव राहुश्च वृत्रः क्रोधविमोक्षणः ॥७५॥
एते चान्ये च बहवो दानवा बलवर्द्धनाः
ब्रह्माणं पर्युपासंत वाक्यं चेदमथोचिरे ॥७६॥
त्वया सृष्टाः स्म भगवंस्त्रैलोक्यं भवता हि नः
दत्तं सुरवरश्रेष्ठ देवेभ्यधिकाः कृताः ॥७७॥
भगवन्निह किं कुर्मो यज्ञे तव पितामह
यद्धितं तद्वदास्माकं समर्थाः कार्यनिर्णये ॥७८॥
किमेभिस्ते वराकैश्च अदितेर्गर्भसंभवैः
दैवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा ॥७९॥
पितामहोसि सर्वेषामस्माकं दैवतैः सह
तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः ॥८०॥
श्रियं प्रति विरोधश्च भविष्यति न संशयः
इदानीं प्रेक्षणं कुर्मः सहिताः सर्वदानवैः ॥८१॥
पुलस्त्य उवाच
सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः
शक्रेण सहितः शंभुमिदमाह महायशाः ॥८२॥
विघ्नं प्रकर्तुं वै रुद्र आयाता दनुपुंगवाः
ब्रह्मणामंत्रिताश्चेह विघ्नार्थं प्रयतंति ते ॥८३॥
अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते
समाप्ते तु क्रतावस्मिन्युद्धं कार्यं दिवौकसां ॥८४॥
यथानिर्दानवा भूमिस्तथा कार्यं त्वया विभो
जयार्थं चेह शक्रस्य भवता च मया सह ॥८५॥
द्विजानां परिवेष्टारो मरुतः परिकल्पिताः
दानवानां धनं यच्च गृहीत्वा तद्यजामहे ॥८६॥
अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह
व्ययं तस्य करिष्यामो दासभावे निवेशिताः ॥८७॥
वदंतमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत्
एते दनुसुताः क्रुद्धा युष्माकं कोपनेप्सिताः ॥८८॥
भवता च क्षमा कार्या रुद्रेण सह दैवतैः
कृते युगावसाने तु समाप्तिं चक्रतौ गते ॥८९॥
मया च प्रेषिता यूयमेते च दनुपुंगवाः
संधिर्वा विग्रहो वापि सर्वैः कार्यस्तदैव हि ॥९०॥
पुलस्त्य उवाच
पुनस्तान्दानवान्ब्रह्मा वाक्यमाह स्वयंप्रभुः
दानवैर्न विरोधोत्र यज्ञे मम कथंचन ॥९१॥
मैत्रभावस्थिता यूयमस्मत्कार्ये च नित्यशः
दानवा ऊचुः
सर्वमेतत्करिष्यामः शासनं ते पितामह ॥९२॥
अस्माकमनुजा देवा भयं तेषां न विद्यते
पुलस्त्य उवाच
एतच्छुत्वा तदा तेषां परितुष्टः पितामहः ॥९३॥
मुहूर्तं तिष्ठतां तेषामृषिकोटिरुपागता
श्रुत्वा पैतामहं यज्ञं तेषां पूजां तु केशवः ॥९४॥
आसनानि ददौ तेषां तदा देवः पिनाकधृत्
वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः ॥९५॥
गामर्घं च ततो दत्वा पृष्ट्वा कुशलमव्ययम्
निवेशं पुष्करे दत्वा स्थीयतामिति चाब्रवीत् ॥९६॥
ततस्ते ऋषयः सर्वे जटाजिनधरास्तथा
शोभयंतः सरःश्रेष्ठं गङ्गामिव दिवौकसः ॥९७॥
मुंडाः काषायिणश्चैके दीर्घश्मश्रुधराः परे
विरलैर्दशनैः केचिच्चिपिटाक्षास्तथा परे ॥९८॥
बृहत्तनूदराः केपि केकराक्षास्तथापरे
दीर्घकर्णा विकर्णाश्च कर्णैश्च त्रुटितास्तथा ॥९९॥
दीर्घफाला विफालाश्च स्नायुचर्मावगुंठिताः
निर्गतं चोदरं तेषां मुनीनां भावितात्मनां ॥१००॥
दृष्ट्वा तु पुष्करं तीर्थं दीप्यमानं समंततः
तीर्थलोभान्नरव्याघ्र तस्य तीरे व्यवस्थिताः ॥१०१॥
वालखिल्या महात्मानो ह्यश्मकुट्टास्तथापरे
दंतोलूखलिनश्चान्ये संप्रक्षालास्तथापरे ॥१०२॥
वायुभक्षा जलाहाराः पर्णाहारास्तथापरे
नाना नियमयुक्ताश्च तथा स्थंडिलशायिनः ॥१०३॥
सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः
किमेतदिति चिंत्याथ निरीक्ष्य च परस्परम् ॥१०४॥
अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता
मुखदर्शनमित्येव नाम कृत्वा तु तापसाः ॥१०५॥
स्नाता नियमयुक्ताश्च सुरूपास्ते तदाभवन्
देवपुत्रोपमा जाता अनौपम्य गुणान्विताः ॥१०६॥
शोभमाना नरश्रेष्ठ स्थिताः सर्वे वनौकसः
यज्ञोपवीतमात्रेण व्यभजंस्तीर्थमंजसा ॥१०७॥
जुह्वतश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः
चिंतयंतो हि राजेंद्र तपसा दग्धकिल्बिषाः ॥१०८॥
न यास्यामो परं तीर्थं ज्येष्ठभावेत्विदं सरः
ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजातयः ॥१०९॥
तत्र कुब्जान्बहून्दृष्ट्वा स्थितांस्तीर्थसमीपतः
बभूवुर्विस्मितास्तत्र जना ये च समागताः ॥११०॥
दत्वा दानं द्विजातिभ्यो भांडानि विविधानि च
श्रुत्वा सरस्वतीं प्राचीं स्नातुकामा द्विजागताः ॥१११॥
सरस्वतीतीर्थवरा नानाद्विजगणैर्युता
बदरेंगुदकाश्मर्य प्लक्षाश्वत्थविभीतकैः ॥११२॥
पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा
सरस्वतीतीर्थरुहैर्धन्वनैः स्यंदनैस्तथा ॥११३॥
कपित्थैः करवीरैश्च बिल्वैराम्लातकैस्तथा
अतिमुक्तकपंडैश्च पारिजातैश्च शोभिता ॥११४॥
कदंबवनभूयिष्ठा सर्वसत्वमनोरमा
वाय्वंबुफलपर्णादैर्दंतोलूखलिकैरपि ॥११५॥
तथाश्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृता
स्वाध्यायघोषसंघुष्टा मृगयूथशताकुला ॥११६॥
अहिंसैर्धर्मपरमैस्तथा चातीव शोभिता
सुप्रभा कांचनाख्या च प्राची नंदा विशालका ॥११७॥
स्रोतोभिः पंचभिस्तत्र वर्तते पुष्करे नदी
पितामहस्य सदसि वर्त्तमाने महीतले ॥११८॥
वितते यज्ञवाटे तु स्वागतेषु द्विजादिषु
पुण्याहघोषैर्विततैर्देवानां नियमैस्तथा ॥११९॥
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तथा
तत्र चैव महाराज दीक्षिते च पितामहे ॥१२०॥
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना
मनसा चिंतिता ह्यर्था धर्मार्थकुशलास्तथा ॥१२१॥
उपतिष्ठंति राजेंद्र द्विजातींस्तत्र तत्र ह
जगुश्च देवगंधर्वा ननृतुश्चाप्सरोगणाः ॥१२२॥
वादित्राणि च दिव्यानि वादयामासुरंजसा
तस्य यज्ञस्य संपत्या तुतुषुदेर्वता अपि ॥१२३॥
विस्मयं परमं जग्मुः किमु मानुषयोनयः
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे ॥१२४॥
अब्रुवन्नृषयो भीष्म तदा तुष्टास्सरस्वतीम्
सुप्रभां नाम राजेंद्र नाम्ना चैव सरस्वतीम् ॥१२५॥
ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीम्
पितामहं भासयंतीं क्रतुं ते बहु मेनिरे ॥१२६॥
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥१२७॥
पुण्यस्य पुण्यताकारि पंचस्रोतास्सरस्वती
सुप्रभा नाम राजेंन्द्र नाम्ना चैव सरस्वती ॥१२८॥
यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः
ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम् ॥१२९॥
साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः
समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी ॥१३०॥
प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती
इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि ॥१३१॥
क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम्
क्षतात्किल करे तस्य राजन्शाकरसोस्रवत् ॥१३२॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत् ॥१३३॥
प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम्
शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः ॥१३४॥
विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु
आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप ॥१३५॥
नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि
गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥१३६॥
भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना
नृत्यमानेन भवता जगत्सर्वं च नृत्यति ॥१३७॥
तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः
मुनिरुवाच
किं न पश्यसि मे देव कराच्छाकरसोस्रवत् ॥१३८॥
तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ॥१३९॥
अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां
एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव ॥१४०॥
ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा ॥१४१॥
ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं
तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन् ॥१४२॥
नान्यद्देवादहं मन्ये रुद्रात्परतरं महत्
चराचरस्य जगतो गतिस्त्वमसि शूलधृत् ॥१४३॥
त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥१४४॥
देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये ॥१४५॥
सर्वस्त्वमसि देवानां कर्ता कारयिता च यः
त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः ॥१४६॥
एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत्
भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह ॥१४७॥
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ॥१४८॥
प्राचीमेवेह वत्स्यामि त्वया सार्द्धमहं सदा
सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः ॥१४९॥
न तस्य दुर्लर्भं किंचिदिह लोके परत्र च
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ॥१५०॥
प्राचीतटे जाप्यपरो न चेह म्रियते पुनः
आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं ॥१५१॥
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः
जलाहारो वायुभक्षः पर्णाहारश्च तापसः ॥१५२॥
तथा स्थंडिलशायी च ये चान्ये नियमाः पृथक्
करोति यो द्विजश्रेष्ठो नियमांस्तान्व्रतानि च ॥१५३॥
स याति शुद्धदेहश्च ब्रह्मणः परमं पदं
तस्मिंस्तीर्थे तु यैर्दत्तं तिलमात्रं तु कांचनं ॥१५४॥
मेरुदानसमं तत्स्यात्पुरा प्राह प्रजापतिः
तस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति हि मानवाः ॥१५५॥
एकविंशकुलोपेताः स्वर्गं यास्यंति ते नराः
पितॄणां च शुभं तीर्थं पिंडेनैकेन तर्पिताः ॥१५६॥
ब्रह्मलोकं गमिष्यंति स्वपुत्रेणेह तारिताः
भूयश्चान्नं न चेच्छंति मोक्षमार्गं व्रजंति ते ॥१५७॥
प्राचीनत्वं सरस्वत्या यथा भूतं शृणुष्व तत्
सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः ॥१५८॥
तटं त्वया प्रयातव्यं प्रतीच्यां लवणोदधेः
वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्व ह ॥१५९॥
एवं कृते सुराः सर्वे भवंति भयवर्जिताः
अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा ॥१६०॥
तस्माद्रक्षस्व विबुधानेतस्मादचिराद्भयात्
मातेव भव सुश्रोणि सुराणामभयप्रदा ॥१६१॥
एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना
आह नाहं स्वतंत्रास्मि पिता मे व्रियतां स्वराट् ॥१६२॥
तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता
पित्रादेशाद्विना नाहं पदमेकमपि क्वचित् ॥१६३॥
गच्छामि तस्मात्कोप्यन्य उपायश्चिंत्यतामहो
तदाशयं विदित्वाहुस्ते समेत्य पितामहं ॥१६४॥
नान्येन शक्यते नेतुं वडवाग्निः पितामह
अदृष्टदोषाम्मुक्त्वैकां कुमारीं तनयां तव ॥१६५॥
सरस्वतीं समानीय कृत्वांके वरवर्णिनीं
शिरस्याघ्रायसस्नेहमुवाचाथसरस्वतीम् ॥१६६॥
मां च देवि सुराः प्राहुः स त्वं ब्रूहि यशस्विनीम्
नीत्वा विनिक्षिपेदेनं बाडवं लवणांबुनि ॥१६७॥
पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररी यथा
पित्रा तदैव सा कन्या रुरुदे दीनमानसा ॥१६८॥
शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं
सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम् ॥१६९॥
तत्तथाविधमालोक्य पितामहपुरस्सराः
विबुधाः शोकभावस्य सर्वे वशमुपागताः ॥१७०॥
संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा
पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम् ॥१७१॥
मान लाभश्च भविता तव देवानुभावतः
नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते ॥१७२॥
एवमुक्ता तु सा बाला बाष्पाकुलितलोचना
प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा ॥१७३॥
मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा
त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता ॥१७४॥
तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः
मंगलानां च निर्घोषैर्जगदापूरितं शुभैः ॥१७५॥
सितांबरधराधन्या सितचंदनमंडिता
शरदंबुजसच्छाय तारहारविभूषिता ॥१७६॥
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा
शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश ॥१७७॥
स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत्
अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी ॥१७८॥
द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि
एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम् ॥१७९॥
यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे
विबुधैस्त्वं परिवृता दर्शनं तव संश्रये ॥१८०॥
उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते
अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति ॥१८१॥
तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते
श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम् ॥१८२॥
ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः
मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते ॥१८३॥
तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते
गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे ॥१८४॥
यमुनापि तथैवं सा गायत्री च मनोरमा
सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा ॥१८५॥
ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती
उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी ॥१८६॥
अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम्
अवतीर्णा महाभागा देवानां पश्यतां तदा ॥१८७॥
विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः
संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः ॥१८८॥
अनेकशाखाविततश्चतुर्मुख इवापरः
तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम् ॥१८९॥
श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम्
वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते ॥१९०॥
जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः
केतकीभिः सुरभिभिरशोभत सरिद्वरा ॥१९१॥
कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा
हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा ॥१९२॥
तत्रांभस्था तदा देवं प्रोवाचाथ जनार्दनम्
समर्पयस्व तं वह्निं देवादेशं करोम्यहम् ॥९१३॥
एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा
न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम् ॥१९४॥
पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे
एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे ॥१९५॥
ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं
समर्पयत गोविंदः सरस्वत्या महोदरे ॥१९६॥
सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ
अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी ॥१९७॥
मर्यादापर्वते तस्मिन्संभूता विमला सरित्
पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम् ॥१९८॥
पितामहेन यत्रासीद्यज्ञसत्रं निषेवितम्
सिध्यर्थं मुनिमुख्यानामागतासौ महानदी ॥१९९॥
येषु तत्र कृतो होमः कुंडेष्वासीद्विरिंचिना
तानि सर्वाणि संप्लाव्य तोयेनाप्युद्गता हि सा ॥२००॥
तत्र क्षेत्रे महापुण्या पुष्करे सा तथोत्थिता
तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा ॥२०१॥
सापि तत्क्षेत्रमासाद्य पुण्यं पुण्या महानदी
सरस्वती स्थिता देवी मर्त्यानां पापनाशिनी ॥२०२॥
तत्र ये शुभकर्माणः पुष्करस्थां सरस्वतीम्
पश्यंति ते न पश्यंति सुघोरां तामधोगतिं ॥२०३॥
यः पुनस्तत्र भावेन नरः स्नानं समाचरेत्
स ब्रह्मलोकमासाद्य ब्रह्मणा सह मोदते ॥२०४॥
यस्तु दद्यात्तत्र दधि ब्राह्मणाय मनोरमम्
सोप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान् ॥२०५॥
वरं प्रावरणं योपि भक्त्या दद्याद्द्विजातये
सोपि सद्वस्त्रदानस्य फलं दशगुणं लभेत् ॥२०६॥
ज्येष्ठकुंडे नरः स्नात्वा यः संतर्पयते पितॄन्
स तानुद्धरते सर्वान्नरकादपि शुद्धधीः ॥२०७॥
क्षेत्रे पैतामहे पूते पुण्यां प्राप्य सरस्वतीम्
नरः किं प्रार्थयेदन्यत्तीर्थं ब्रह्मसुतोब्रवीत् ॥२०८॥
तस्मात्सर्वेषु तीर्थेषु स्नातः प्राप्नोति यत्फलम्
तत्सर्वं प्राप्नुयान्मर्त्यो ज्येष्ठकुंडे सकृत्प्लुतः ॥२०९॥
किमत्र बहुनोक्तेन क्षेत्रं तीर्थं गतिश्शुभा
येनैतत्त्रितयं प्राप्तं प्राप्ता तेन गतिः परा ॥२१०॥
काले क्षेत्रे तथा तीर्थे स्नात्वा हुत्वापि तत्र यः
प्रयच्छते द्विजायार्थं सोनंतं सुखमश्नुते ॥२११॥
कार्त्तिके मासि शुक्ले च वैशाखे शशिभूषणे
चंद्रसूर्योपरागे च काले च कुरुजांगले ॥२१२॥
क्षेत्रेष्वेतेषु तीर्थानि यान्युक्तानि मुनीश्वरैः
तेषां पुण्यतमं तीर्थमिदमाह पितामहः ॥२१३॥
कुंडे तु मध्यमे स्नात्वा कार्तिक्यां यः पुमान्द्विजे
प्रयच्छते चापि द्रव्यं सोश्वमेधमवाप्नुयात् ॥२१४॥
एवं कनिष्ठकेप्यत्र कुंडे स्नात्वा समाधिना
यः प्रयच्छति विप्राय सुरूपामपि शालिकाम् ॥२१५॥
स प्रयाति नरः क्षिप्रमग्निलोकं मनोरमम्
त्रिःसप्तकुलसंयुक्तो भुंक्ते तत्र महाफलम् ॥२१६॥
तस्मात्सर्वप्रयत्नेन गमनाय मतिः स्थिरा
पुरुषेण तु कर्तव्या पुष्करावाप्तये शुभा ॥२१७॥
पुष्करारण्यमासाद्य प्राची यत्र सरस्वती
मतिः स्मृतिः शुभा प्रज्ञा मेधा बुद्धिर्दयापरा ॥२१८॥
सरस्वत्यास्तु पर्यायाष्षडेते संप्रकीर्तिताः
ततः प्रभृति यत्रासौ प्राचीभूता सरस्वती ॥२१९॥
तत्रस्थं तज्जलं येपि पश्यंति तटसंस्थिताः
तेप्यश्वमेधस्यफलं लभंते नात्र संशयः ॥२२०॥
योवतीर्य पुनस्तत्र कश्चित्स्नानं समाचरेत्
नरः समाधियुक्तो वै ब्रह्मणोनुचरो भवेत् ॥२२१॥
शाकादिनापि हि पितॄन्यस्तत्रार्चयते नरः
सोप्येति विपुलान्भोगांस्तेषामेवानुभावतः ॥२२२॥
ये पुनर्विधिना तत्र श्राद्धं कुर्वंति मानवाः
ते नयंति पितॄन्स्वर्गं नरकादपि दुःखदात् ॥२२३॥
तृप्यंति पितरस्तस्य यस्तत्र कुशमिश्रितम्
स्नात्वा प्रयच्छते तोयं पूतं तेषां तिलान्वितम् ॥२२४॥
सर्वेषामेव तीर्थानामिदमेवाधिकं स्मृतम्
आदितीर्थमिदं तस्मात्तीर्थानां भुवि विश्रुतम् ॥२२५॥
धर्मापवर्गयोःनक्रीडाननिधिभूतमवस्थितम्
सरस्वत्यानपुनश्चैवनसमेतंनगुणवत्तरम् ॥२२६॥
धर्मार्थकाममोक्षाणां चतुर्णामपि दायकम्
येप्यत्र मलनाशाय पुमांसो विविशुर्जलम् ॥२२७॥
गोप्रदानसमं तेषां सुखेनैव फलं भवेत्
सुवर्णदानेन सममेवमाहुर्मनीषिणः ॥२२८॥
तर्पणात्पिण्डदानाच्च नरकेष्वपि संस्थिताः
स्वर्गं प्रयान्ति पितरस्तत्र पुत्रेण तारिताः ॥२२९॥
पुष्करेपि सरस्वत्यां ये पिबन्ति जलं जनाः
ते लभन्तेऽक्षयान्लोकान्ब्रह्मविश्वेशवंदितान् ॥२३०॥
स्वर्गनिश्रेणिकाभूता पुष्करे च सरस्वती
सा पुण्यवद्भिस्संप्राप्तुं पुंभिश्शक्या महानदी ॥२३१॥
मुनिभर्धर्मतत्त्वज्ञैस्तत्र तत्र निषेविता
तस्मात्सर्वत्र सा देवी पवित्रा सर्वतस्स्थिता ॥२३२॥
पुष्करे तु विशेषेण पूतात्पूततमा हि सा
नदी सरस्वती पुण्या सुलभा जगति स्थिता ॥२३३॥
दुर्लभा सा कुरुक्षेत्रे प्रभासे पुष्करे तथा
तत्तीर्थं सर्वतीर्थानां प्रवरं विहितं भुवि ॥२३४॥
धर्मार्थकाममोक्षाणां चतुर्णामपि साधकम्
प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते ॥२३५॥
स करस्थं समुत्सृज्य ह्यमृतं विषमिच्छति
ज्येष्ठे ज्येष्ठा प्रयागस्य मध्यमे मध्यमा स्मृता ॥२३६॥
प्रदक्षिणं ततो गच्छेत्कनीयांसं विचक्षणः
त्रिष्वप्येतेषु स्नायीत कुर्याच्चापि प्रदक्षिणम् ॥२३७॥
प्रयच्छति पितृभ्यो यस्तोयं तेषां तिलान्वितम्
तेपि तुष्टाः पुनस्तस्य प्रयच्छंत्यमितं फलम् ॥२३८॥
यः स्नात्वा प्रयतो नित्यं ततः पश्येत्पितामहम्
अनुलोमविलोमाभ्यां तथा व्यस्तसमस्तयोः ॥२३९॥
स्नातव्यं पुष्करे नित्यं ब्रह्मलोकमभीप्सिता
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च ॥२४०॥
पुष्कराणि प्रसिद्धानि न विद्मस्तत्र कारणं
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करं ॥२४१॥
शृंगशद्बाभिधानानि शुभप्रस्रवणानि च
धर्मार्थकाममोक्षाणां संकल्पैरफलं नरः ॥२४२॥
यस्तत्र संत्यजेद्देहं मोक्षं प्राप्नोत्यसंशयम्
प्रयतः संयतस्तस्यां स्नात्वा दद्याद्विजे शुभाम् ॥२४३॥
गामेकां मंत्रपूतां च लोकानाप्नोतिमोक्षदान्
किमत्र बहुनोक्तेन रात्रावपि हि योर्थिने ॥२४४॥
अर्थं प्रयच्छते स्नात्वा सोनन्तं सुखमश्नुते
तत्र दानं प्रशंसंति तिलानां मुनिसत्तमाः ॥२४५॥
कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा
पिण्याकेन गुडेनापि पिंडं योत्र प्रयच्छति ॥२४६॥
पितॄणां प्रयतो भूत्वा पितृलोकं स यछति
पुष्करारण्यमासाद्य पुनस्तस्मात्सरस्वती ॥२४७॥
अंतर्द्धानं गता गंतुं प्रवृत्तागपश्चिमामुखी
नातिदूरे ततस्तस्य पुष्करस्य सुशोभना ॥२४८॥
खर्जूरवनमासाद्य फलपुष्पोपशोभितं
तत्रोषित्वा पुनर्देवी वने मुनिमनोरमे ॥२४९॥
सर्वर्तुकुसुमाकीर्णे सिद्धचारणसेविते
नंदा नाम सरिच्छ्रेष्ठा त्रिषुलोकेषु विश्रुता ॥२५०॥
मीननक्रझषोपेता विमलोदकपूरिता
सूत उवाच
अथ देवव्रतःप्राह किमन्या सा सरिद्वरा ॥२५१॥
एतन्मे कौतुकं ब्रह्मन्नंदा शब्दा सरस्वती
यथाभूता येन कृता कारणेन सरिद्वरा ॥२५२॥
एवमुक्ते पुलस्त्यः स भीष्मायैतत्पुरातनं
आख्यातुमुपचक्राम नंदा नाम यतस्स्मृतं ॥२५३॥
क्षत्रव्रतधरो नित्यमासीद्राजा प्रभंजनः
प्रवृत्तोसौ मृगान्हंतुं वने तस्मिन्महाबलः ॥२५४॥
स ददर्श ततस्तस्मिन्मृगीं गुल्मांतरे स्थितां
मार्गणेन सुतीक्ष्णेन तां विव्याध पुरोगतां ॥२५५॥
सा विलोक्य दिशः सर्वास्तं दृष्ट्वा शरपाणिनं
आह किं ते कृतं मूढ त्वयैतत्कर्मदुष्करं ॥२५६॥
स्तनं तावत्प्रयच्छामि सुतस्याधोमुखी स्थिता
मांसलोभेन विद्धाहं तरसा ह्यकुतोभया ॥२५७॥
पिबंतं गुप्तवत्सं च गूढमैथुनमागतं
एवंविधं मृगं राजन्न हन्यात्प्राङ्मया श्रुतं ॥२५८॥
स्तनं तु तनयस्यास्य प्रयच्छंती त्वया हता
बाणेनाशनिकल्पेन निर्दोषा वनमागता ॥२५९॥
तस्मात्त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि
वनेस्मिन्कंटकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि ॥२६०॥
शापप्रदानं श्रुत्वैवं स राजापुरतः स्थितः
प्रोवाच प्रांजलिर्भूत्वा तां मृगीं व्यथितेन्द्रियः ॥२६१॥
स्तनं तु तनयस्येह प्रयच्छंती न मे मता
अज्ञानेन हता भद्रे प्रसीद सुसमाधिना ॥२६२॥
व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा
एवंविधस्य शापस्य विमोक्षं शंस मे मृगि ॥२६३॥
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभम्
राजन्नब्दशतांते तु शापस्यागतया गवा ॥२६४॥
नंदया सह संवादमासाद्यांतो भविष्यति
मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा ॥२६५॥
नखदंष्ट्रायुधोपेतो व्याघ्ररूपोति भीषणः
तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदः ॥२६६॥
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान्
एवं तत्र वने तस्य संवत्सरशतं गतम् ॥२६७॥
आत्मानं निंदमानस्य मृगमांसानि खादतः
कदाहं मानुषं भावं गमिष्यामीदृशं पुनः ॥२६८॥
कुत्सितं न करिष्यामि वियोनिकरणं महत्
कुर्वता मांसलोभेन मृगयां परिधावता ॥२६९॥
आपदासहितं प्राप्तं मानुषाणां भयावहम्
दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह ॥२७०॥
पापेन पापतां नीतो ह्यपापेऽपि सतां कुले
उत्पन्नो विकृतिं नीतः पश्य कालस्य पर्ययम् ॥२७१॥
तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता
तया तु प्राप्यते दुःखं न च मोक्षो भविष्यति ॥२७२॥
कथं मे भविता मोक्षः कथं सत्या मृगी भवेत्
गते वर्षशते तस्य वसतस्तद्वने तदा ॥२७३॥
आयातं गोकुलं काले यवसोदककारणात्
गोवाटवाटीसंस्थानं तत्तत्र समवस्थितम् ॥२७४॥
वनोपकण्ठे मंथानरवेणापूरितं च यत्
क्षीबैर्गोपैः समाकीर्णं पादपैरपितद्वनम् ॥२७५॥
निशिवंशरवोपेतं गोपीनां च शुभप्रदम्
एवं तु वसतस्तस्य खर्जूरवनसंसदि ॥२७६॥
हृष्टा तुष्टा च पुष्टा च नंदा वै नाम नामतः
गोमंडलस्य सामुख्या हंसवर्णा घटस्रवा ॥२७७॥
दीर्घघोणा विभक्तांगी बंधुरांगी तनुत्वचा
नीलकंठा शुभग्रीवा घंटाली मधुरस्वना ॥२७८॥
सा च यूथस्य सर्वस्य पुरश्चरति निर्भया
घासस्थानं चरेच्छन्नं गत्वैका च यथासुखम् ॥२७९॥
यथेष्टकामा सुरभी छन्नं चरति वै तृणम्
रोहितो नाम तत्रान्यः पर्वतः सरितस्तटे ॥२८०॥
अनेककंदरदरी गुहासत्व निषेवितः
तस्य पूर्वोत्तरेभागे घोरे तृणसमाकुले ॥२८१॥
संकटे विषमे दुर्गे भैरवे लोमहर्षणे
मृगसिंहसमाकीर्णे बहु श्वापद सेविते ॥२८२॥
वल्लीवृक्षादिगहने शिवाशत निनादिते
दुर्गेस्मिन्वसते रौद्रः कामरूपी भयंकरः ॥२८३॥
द्वीपी शोणित दिग्धांसो घोरदंष्ट्रानखायुधः
नंदो नाम स धर्मात्मा स च गोपीहिते रतः ॥२८४॥
अच्छिन्नाग्रैस्तृणैर्दीर्घैर्गोधनं परिरक्षति
तस्य यूथपरिभ्रष्टा सानंदा तृणलिप्सया ॥२८५॥
चरंती व्याघ्रपुरतः सा धेनुः प्रत्युपस्थिता
अभ्यद्रवच्च तां द्वीपी तिष्ठतिष्ठेति चाब्रवीत् ॥२८६॥
त्वमद्य विहितो भक्षः स्वयं प्राप्तासि धेनुके
द्वीपिनश्च वचः श्रुत्वा निष्ठुरं रोमहर्षणं ॥२८७॥
शुक्लरूपान्वितं बालं भद्रमिंदुसमप्रभम्
वत्सं स्मरति सा धेनुः स्नेहाक्ता गद्गदाक्षरम् ॥२८८॥
दह्यंती पुत्रशोकेन नंदा सा पुत्रवत्सला
रुदंती करुणं चैव निराशा पुत्रदर्शने ॥२८९॥
द्वीपी दृष्ट्वा तु तां धेनुं क्रंदमानां सुदुःखिताम्
उवाच वचनं घोरं धेनुके किं प्ररुद्यते ॥२९०॥
दैवात्सुखोपपन्नासि भक्षस्त्वं मे यदृच्छया
रुदंत्या वा हसंत्या वा तवात्तं जीवितं भवेत् ॥२९१॥
विहितं भुज्यते लोके स्वयंप्राप्तासि धेनुके
मृत्युस्ते विहितोद्यैव वृथा किमनुशोचसि ॥२९२॥
पप्रच्छ तां पुनर्द्वीपी किमर्थं रुदितं त्वया
कौतुकं चात्र मे जातं महन्मे कथयस्व वै ॥२९३॥
व्याघ्रस्य वचनं श्रुत्वा नंदा वाक्यमथाब्रवीत्
क्षंतुमर्हसि मे नाथ कामरूपिन्नमोस्तु ते ॥२९४॥
त्वां समासाद्य लोकस्य परित्राणं न विद्यते
जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया ॥२९५॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येर्थे न शोचामि मृगाधिप ॥२९६॥
देवैरपि यथा सर्वैर्मर्त्तव्यमवशैर्ध्रुवम्
तस्मात्तु नाहमेवैका व्याघ्र शोचामि जीवितम् ॥२९७॥
किंतु स्नेहेन वै साधो दुःखेन रुदितं मया
अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि ॥२९८॥
प्रथमे वयसि प्राप्ते प्रसूताहं मृगाधिप
इष्टः प्रथमजातश्च सुतस्तु मम बालकः ॥२९९॥
क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्रति
स च गोपकुले बद्धः क्षुधार्तो मामवेक्षते ॥३००॥
तमहं चानुशोचामि कथं जीविष्यते सुतः
तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गता ॥३०१॥
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि
सखीनामर्पयित्वा तु संदिश्य च हिताहितम् ॥३०२॥
पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि
स नंदाया वचः श्रुत्वा मृगेंद्रः पुनरब्रवीत् ॥३०३॥
किं ते पुत्रेण कर्त्तव्यं मरणं किं न बुध्यसे
त्रस्यंति सर्वभूतानि म्रियंते मां निरीक्ष्य च ॥३०४॥
त्वं पुनः कृपयाविष्टा पुत्रपुत्रेति भाषसे
न पुत्रा न तपो दानं न माता न पिता गुरुः ॥३०५॥
शक्नुवंति परित्रातुं नरं कालप्रपीडितम्
कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलम् ॥३०६॥
वृषभैर्नादितं दिव्यं बालवत्सविभूषितम्
भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः ॥३०७॥
नित्यं प्रमुदितं दिव्यं सर्वदेवप्रपूजितम्
यत्पवित्रं पवित्राणां मंगलानां च मंगलम् ॥३०८॥
यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमम्
समस्तगुणसंपन्नमीश्वरायतनं महत् ॥३०९॥
यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमम्
गोपीमंथनशब्देन बालवत्सरवेण च ॥३१०॥
गवां हुंकारशब्देन अलक्ष्मीः प्रतिहन्यते
यत्र वत्साश्च हुंकारं करुणं मातृकांक्षया ॥३११॥
यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः
प्रगीतनृत्यसंलापं नंदितास्फोटनादितम् ॥३१२॥
इतस्ततः स्थितैर्वत्सैर्नर्द्यमानं समंततः
सरोवद्राजते गोष्टं चलद्भिरिव पंकजैः ॥३१३॥
तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलम्
गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि ॥३१४॥
पंचभूतानि मे भद्रे पिबंतु रुधिरं तव
न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम् ॥३१५॥
नंदोवाच
एवं प्रथमवत्साया मृगेंद्र शृणु मे वचः
दृष्ट्वा सखीः सुतं बालं गोपांश्च प्रतिपालकान् ॥३१६॥
गोपीजनमुपामंत्र्य जननीं च विशेषतः
शपथैरागमिष्यामि मन्यसे यदि मुंच मां ॥३१७॥
यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च
तेन पापेन लिप्येहं यद्यहं नागमे पुनः ॥३१८॥
यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनाम्
तेन पापेन लिप्येहं यद्यहं नागमे पुनः ॥३१९॥
गोषु विघ्नांश्च ये कुर्युः स्वपंतीं ताडयंति च
तेन पापे नलिप्येहं यद्यहं नागमे पुनः ॥३२०॥
सकृद्दत्वा तु यः कन्यां द्वितीये दातुमिच्छति
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः ॥३२१॥
यस्त्वनर्हान्बलीवर्दान्विषमे वाहयेत्पुमान्
कथायां कथ्यमानायां विघ्नं कारयते तु यः ॥३२२॥
तेन पापेन लिप्येहं यद्यहं नागमे पुनः
गृहे यस्यागतं मित्रं निराशं प्रतिगच्छति ॥३२३॥
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः
इत्येतैः पातकैर्घोरैरागमिष्याम्यहं पुनः ॥३२४॥
बुध्वा संप्रत्ययं द्वीपी पुनर्वचनमब्रवीत्
व्याघ्र उवाच
संजातः प्रत्ययोस्माकं शपथैर्धेनुके तव ॥३२५॥
कदाचिन्मन्यसे गत्वा मूर्खोयं वंचितो मया
अत्रापि केचिद्वक्ष्यंति शपथे नास्ति पातकम् ॥३२६॥
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च
प्राणत्यागे समुत्पन्ने श्रद्धातव्यं न च त्वया ॥३२७॥
लोकेस्मिन्नास्तिकाः केचिन्मूर्खाः पंडितमानिनः
भ्रामयिष्यंति ते चित्तं चक्रारूढमिव क्षणात् ॥३२८॥
कुतर्कहेतुवृत्तांतैरज्ञानावृतचेतसः
मोहयंति नराः क्षुद्रा आगमानविशारदाः ॥३२९॥
अतथ्यान्यपि तथ्यानि दर्शयंत्यतिपेशलाः
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥३३०॥
प्रायः कृतार्थो लोकोयं मन्यते नोपकारिणम्
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥३३१॥
न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः
सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते ॥३३२॥
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये
कृताः परस्परं पूर्वं तान्न मन्यामहे वयम् ॥३३३॥
सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ
तस्य वैवस्वतो राजा धर्मस्यार्द्धं निकृंतति ॥३३४॥
मा ते बुद्धिर्भवेदेवं शपथैरेष वंचितः
त्वयैव दर्शितं सर्वं यथेष्टं कुरु सांप्रतं ॥३३५॥
नंदोवाच
एवमेव महासाधो कस्त्वां वंचयितुं क्षमः
आत्मैव वंचितस्तेन यः परं वंचयिष्यति ॥३३६॥
द्वीप्युवाच
धेनुके पश्य गच्छ त्वं पुत्रकं पुत्रवत्सले
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि ॥३३७॥
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबांधवान्
सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु ॥३३८॥
एवं सा शपथं कृत्वा धेनुर्वै सत्यवादिनी
अनुज्ञाता मृगेंद्रेण प्रयाता पुत्रवत्सला ॥३३९॥
अश्रुपूर्णमुखीदीना वेपमाना सुदुःखिता
हंभारवं प्रमुंचंती पतिता शोकसागरे ॥३४०॥
करीव चरणग्राहं गृहीतः सलिलाशये
अशक्ता स्वपरित्राणे विलपंती मुहुर्मुहुः ॥३४१॥
सा तत्र गोकुलं प्राप्ता हरिन्नद्यास्तटे स्थितम्
श्रुत्वा वत्सं तु क्रोशंतं पर्यधावत संमुखी ॥३४२॥
उपसृप्य च तं बालं बाष्पपर्याकुलेक्षणम्
संप्राप्य मातरं वत्सः शंकितः परिपृच्छति ॥३४३॥
न ते पश्याम्यहं स्वास्थ्यं धैर्यं नैवाद्य लक्षये
उद्विग्ना चापि ते दृष्टिर्भीता चातीव लक्ष्यसे ॥३४४॥
नन्दोवाच
पिब पुत्र स्तनं मेद्य कारणं यदि पृच्छसि
अशक्ताहं तवाख्यातुं कुरु तृप्तिं यथेप्सिताम् ॥३४५॥
अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनम्
एकाहमद्य मे पीत्वा प्रभाते कस्य पास्यसि ॥३४६॥
त्वां त्यक्त्वा पुत्र गंतव्यं शपथैरागता ह्यहम्
क्षुत्क्षामस्य च व्याघ्रस्य दातव्यमात्मजीवितम् ॥३४७॥
नंदायाश्च वचः श्रुत्वा वत्सो वचनमब्रवीत्
वत्स उवाच
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि ॥३४८॥
श्लाघ्यं ममापि मरणं त्वया सह न संशयः
एकाकिनापि मर्तव्यं मयार्तेन त्वया विना ॥३४९॥
यदि मां संहितं मातर्वने व्याघ्रो हनिष्यति
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति ॥३५०॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः
अथवा तिष्ठ मातस्त्वं शपथाः संतु ते मम ॥३५१॥
जनन्या च वियुक्तस्य जीविते किं प्रयोजनम्
अनाथस्य वने नित्यं को मे नाथो भविष्यति ॥३५२॥
नास्ति मातृसमो बंधुर्बालानां क्षीरजीविनाम्
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥३५३॥
नास्ति मातृसमः स्नेहो नास्ति मातृसमं मुखम्
नास्ति मातृसमो देव इहलोके परत्र च ॥३५४॥
एवं वै परमो धर्मः प्रजापतिविनिर्मितः
ये तिष्ठंति सदा पुत्रास्ते यांति परमां गतिम् ॥३५५॥
नंदोवाच
ममैव विहितो मृत्युर्न त्वं पुत्रागमिष्यसि
न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना ॥३५६॥
अपश्चिममिमं पुत्र मातृसंदेशमुत्तमम्
अत्रातिष्ठस्व मद्वाक्यात्ततः शुशूषणं पुनः ॥३५७॥
जलेस्थले च विचरन्प्रमादं तात मा कुरु
प्रमादात्सर्वभूतानि विनश्यंति न संशयः ॥३५८॥
न च लोभेन चर्तव्यं विषमस्थं तॄणं क्वचित्
लोभाद्विनाशः सर्वेषामिहलोके परत्र च ॥३५९॥
समुद्रमटवीं पुत्र विशंति लोभमोहिताः
लोभादकार्यमत्युग्रं विद्वानपि समाचरेत् ॥३६०॥
लोभात्प्रमादाद्विस्रंभात्त्रिभिर्नाशो भवेन्नॄणाम्
तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत् ॥३६१॥
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नः
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छचोरादिसंकटात् ॥३६२॥
तिरश्चां पापयोनीनामेकत्र वसतामपि
विपरीतानि चित्तानि विज्ञायंते न पुत्रक ॥३६३॥
नखिनां च नदीनां च शृंगिणां शस्त्रधारिणाम्
न विश्वासस्त्वया कार्यः स्त्रीणां प्रेष्यजनस्य च ॥३६४॥
न विश्वसेदविश्वस्ते विश्वस्तेनाति विश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति ॥३६५॥
न विश्वसेत्स्वदेहेपि बलिष्ठे भीतचेतसि
वक्ष्यंति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः ॥३६६॥
गंधः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः
गावः पश्यंति गंधेन राजानश्चारचक्षुषा ॥३६७॥
नैकस्तिष्ठेद्वनेघोरे धर्ममेकं च चिंतयेत्
नचोद्वेगस्त्वयाकार्यः सर्वस्य मरणं ध्रुवं ॥३६८॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति
विश्रम्य च पुनर्याति तद्वद्भूतसमागमः ॥३६९॥
पुत्र नित्यं जगत्सर्वं तत्रैकः शोचसे कथं
तावत्त्वं शोकमुत्सृज्य मद्वाक्यमनुपालय ॥३७०॥
शिरस्याघ्राय तं पुत्रमवलिह्य च मूर्द्धनि
शोकेन महताविष्टा बाष्पव्याकुललोचना ॥३७१॥
विनिःश्वसंती नागीव दीर्घमुष्णं मुहुर्मुहुः
पुत्रहीनं जगच्छून्यं प्रपश्यंतीव साऽभवत् ॥३७२॥
महापंकनिमग्नेव तिष्ठंती चावसीदती
विलप्य नंदिनी पुत्रमुवाचेदं पुनर्वचः ॥३७३॥
नास्ति पुत्रसमः स्नेहो नास्तिपुत्रसमं सुखं
नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः ॥३७४॥
अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेऽसुखम्
पुत्रेण लभते लोकमपुत्रो नरकं व्रजेत् ॥३७५॥
लोको वदति वाक्यानि चंदनं किल शीतलं
पुत्रगात्रपरिष्वंगश्चंदनादतिशीतलः ॥३७६॥
इति पुत्रगुणानुक्त्वा निरीक्ष्य च पुनःपुनः
स्वमातरं सखीर्गोपीस्त्वरमाणा च पृच्छति ॥३७७॥
यूथस्याग्रे चरंतीं मामाससाद मृगाधिपः
मुक्ताहं तेन शपथैः पुनर्यास्यामि तत्र वै ॥३७८॥
सुतं च मातरं चैव सखीर्द्रष्टुं च गोकुलं
आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै ॥३७९॥
मातः क्षमस्व तत्सर्वं दौःशील्यादि कृतं मम
बालस्तवायं दौहित्रः किमत्रान्यद्ब्रवीम्यहं ॥३८०॥
विपुले चंपके मातर्भद्रे सुरभि मानिनि
वसुधारे प्रियानंदे महानंदे घटस्रवे ॥३८१॥
अज्ञानाज्ज्ञानतो वापि यदुक्तं किंचिदप्रियं
तत्क्षमध्वं महाभागा यच्चान्यच्च कृतं मया ॥३८२॥
सर्वाः सर्वगुणोपेताः सर्वा लोकस्य मातरः
सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकं ॥३८३॥
अनाथं विकलं दीनं रक्षध्वं मम पुत्रकं
मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ ॥३८४॥
यस्मादनाथमबलं पुत्रवत्पालयिष्यथ
क्षमध्वं च महाभागा यास्यामि सत्यसंश्रयात् ॥३८५॥
न चिंता महती कार्या सखीभिश्च कथंचन
प्रथमस्यास्य जातस्य स्थितं मरणमग्रतः ॥३८६॥
श्रुत्वा तु नंदावचनं माता सख्यश्च दुःखिताः
विषादं परमं जग्मुरिदमूचुश्च विस्मिताः ॥३८७॥
अहोऽत्र महदाश्चर्यं यद्व्याघ्रवचनं त्वया
प्रकर्तुमुद्यतं भीमं नंदा त्वं सत्यवादिनी ॥३८८॥
शपथैः सत्यवाक्येन वंचयित्वा महाभयं
नाशनीयं प्रयत्नेन न गंतव्यं कथंचन ॥३८९॥
नंदे न चैव गंतव्यमधर्मः क्रियते त्वया
यद्बालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते ॥३९०॥
अत्र गाथा पुरा प्रोक्ता ऋषिभिर्ब्रह्मवादिभिः
प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकं ॥३९१॥
उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणं
अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत् ॥३९२॥
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च
ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकं ॥३९३॥
नंदोवाच
परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः
नात्मार्थमुत्सहे वक्तुं जीवितार्थे कथंचन ॥३९४॥
एकः संश्लिष्यते गर्भे मरणे भरणे तथा
भुंक्ते चैकः सुखं दुःखमतः सत्यं वदाम्यहम् ॥३९५॥
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः
उदधिस्सत्यवाक्येन मर्यादां न विलंघते ॥३९६॥
विष्णवे पृथिवीं दत्वा बलि पातालमाश्रितः
छद्मनापि बलिर्बद्धः सत्यवाक्यं न चात्यजत् ॥३९७॥
प्रवर्धमानः शैलेंद्रः शतशृंगः समुत्थितः
सत्येन संस्थितो विंध्यः प्रबन्धं नातिवर्तते ॥३९८॥
स्वर्गापवर्गनरकाः सत्यवाचि प्रतिष्ठिताः
यस्तु लोपयते वाचमशेषं तेन लोपितं ॥३९९॥
योऽन्यथा संतमात्मानमन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥४००॥
यास्यामि नरकं घोरं विलोप्यात्मानमात्मना
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृंतति ॥४०१॥
अगाधे सलिले शुद्धे सत्य तीर्थे क्षमा ह्रदे
स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिं ॥४०२॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतं
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥४०३॥
सत्यं साधुफलं श्रुतं च परमं क्लेशादिभिर्वर्जितं
साधूनां निकटं सतां कुलधनं सर्वाश्रमाणां फलं
यस्मात्तं समवाप्य गच्छति दिवं संत्यज्यतेऽसौ कथं
लोकैरत्र समागमे प्रतिदिनं सत्यं वदध्वं ध्रुवं ॥४०४॥
सख्य ऊचुः
नंदे सा त्वं नमस्कार्या सर्वैरपि सुरासुरैः
या त्वं परमसत्वेन प्राणांस्त्यजसि दुस्त्यजान् ॥४०५॥
ब्रूमः किं तत्र कल्याणि या त्वं धर्मधुरंधरा
त्यागेनानेन नाऽप्राप्यं त्रैलोक्ये वस्तु किंचन ॥४०६॥
अवियोगं च पश्यामस्त्यागादस्मात्सुतेन हि
नार्याः कल्याणचित्तायानापदः संति कुत्रचित् ॥४०७॥
दृष्ट्वा गोपीजनं सर्वं परिक्रम्य च गोकुलं
नंदा संप्रस्थिता देवान्वृक्षांश्चापृच्छ्य सा पुनः ॥४०८॥
क्षितिं वरुणमग्निं च वायुं चापि निशाकरं
दशदिग्देवतावृक्षान्नक्षत्राणि ग्रहैः सह ॥४०९॥
सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः
ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः ॥४१०॥
वने चरंतं च तृणं ते रक्षंतु सुतं मम
चंपकाशोक पुन्नागास्सरलार्जुनकिंशुकाः ॥४११॥
शृण्वंतु पादपाः सर्वे संदेशं मम विक्लवं
वत्समेकाकिनं दीनं चरंतं विषमे वने ॥४१२॥
रक्षध्वं वत्सकं बालं स्नेहात्पुत्रमिवौरसं
मात्रापित्राविहीनं च अनाथं दीनमानसं ॥४१३॥
विचरंतमिमां भूमिं क्रंदमानं सुदुःखितं
तस्येह क्रंदमानस्य मत्पुत्रस्य महावने ॥४१४॥
महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च
शून्यस्यैकाकिनः सर्वं जगच्छून्यं प्रपश्यतः ॥४१५॥
चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणं
संदिश्य नंदा प्रीत्यैवं पुत्रस्नेहवशं गता ॥४१६॥
शोकाग्निना च सन्दीप्ता विच्छिन्ना पुत्रदर्शने
वियुक्ता चक्रवाकीव लतेव पतिता तरोः ॥४१७॥
अंधेव दृष्टिरहिता प्रस्खलंती पदे पदे
अगच्छत्सा पुनस्तत्र यत्रासौ पिशिताशनः ॥४१८॥
आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रो भयावहः
तावत्तस्याः सुतो वत्स ऊर्द्ध्वपुच्छोतिवेगवान् ॥४१९॥
आगत्य मातुरग्रेसौ मृगेंद्रस्याग्रतोऽभवत्
आगतं तु सुतं दृष्ट्वा मृत्युं तमग्रतः स्थितं ॥४२०॥
व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत्
भोभो मृगेंद्रागताहं सत्यधर्मव्रते स्थिता ॥४२१॥
कुरु तृप्तिं यथाकाममस्मन्मांसेन सांप्रतम्
संतर्पय स्वभूतानि पिब त्वं शोणितं मम ॥४२२॥
मृतायां तु मयि त्वं भो भक्षयेमं तु बालकम्
द्वीप्युवाच
स्वागतं तव कल्याणि धेनुके सत्यवादिनी ॥४२३॥
न हि सत्यवतां किंचिदशुभं भवति क्वचित्
त्वयोक्तं धेनुके पूर्वं सत्यं प्रत्यागमे पुनः ॥४२४॥
तेन मे कौतुकं प्राप्तं प्राप्ता गच्छेत्कथं पुनः
तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः ॥४२५॥
अन्यथा मां समासाद्य जीवंती यास्यसे कथम्
यच्च नः कौतुकं जातं सत्यमन्वेषणं मम ॥४२६॥
तस्मादनेन सत्येन मुक्तासि च मयाऽधुना
भगिनी भवती मह्यं भागिनेयः सुतस्तव ॥४२७॥
दत्तोपदेशस्य शुभे मम पापिष्ठकर्मणः
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः ॥४२८॥
सत्येन गौः क्षीरधारां प्रमुंचति हविः प्रियाम्
स वै धन्यतमो गोपो यस्त्वत्क्षीरेण जीवति ॥४२९॥
भूमिप्रदेशा धन्यास्ते सतृणा वीरुधः शुभे
ते धन्याश्च कृतार्थाश्च तैरेव सुकृतं कृतम् ॥४३०॥
तैराप्तं जन्मनः सारं ये पिबंति पयस्तव
मृगेंद्रः प्रत्ययं गत्वा विस्मयं परमं गतः ॥४३१॥
प्रत्यादेशोऽयमस्माकं सत्यं देवैः प्रदर्शितः
सत्यमिष्टं गवां दृष्ट्वा न मे वाञ्छास्ति जीवितुम् ॥४३२॥
तत्करिष्याम्यहं कर्म येन मुच्येय किल्बिषात्
मया जीवसहस्राणि भक्षितानि शतानि च ॥४३३॥
गतिं कामिह गच्छामि दृष्ट्वा गोः सत्यमीदृशम्
अहं पापो दुराचारो नृशंसो जीवघातकः ॥४३४॥
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम्
गमिष्ये पुण्यतीर्थानि करिष्ये पापशोधनम् ॥४३५॥
पतिष्ये गिरिमारुह्य प्रवेक्ष्ये वा हुताशनम्
धेनोऽद्य यन्मया कार्यं तपः पापाद्विशुद्धये ॥४३६॥
तदादिशस्व संक्षेपान्न कालो विस्तरस्य तु
धेनुरुवाच
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥४३७॥
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे
सर्वेषामेव दानानामिदमेवैकमुत्तमम् ॥४३८॥
अभयं सर्वभूतानां नास्ति दानमतः परम्
चराचराणां भूतानामभयं यः प्रयच्छति ॥४३९॥
स च सर्वभयान्मुक्तः परं ब्रह्माधिगच्छति
नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः ॥४४०॥
यथा हस्तिपदेष्वन्यत्पदं सर्वं प्रलीयते
सर्वे धर्मास्तथा व्याघ्र प्रलीयंते ह्यहिंसया ॥४४१॥
योगवृक्षस्य छाया या तापत्रयविनाशिनी
धर्मज्ञाने च पुष्पाणि स्वर्गमोक्षौ फलानि च ॥४४२॥
दुःखत्रयाभितप्तस्य छाया योगतरोः स्मृता
न बाध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम् ॥४४३॥
इत्येतत्परमं श्रेयः कीर्तितं ते समासतः
ज्ञातं चैव त्वया सर्वं केवलं मां तु पृच्छसि ॥४४४॥
द्वीप्युवाच
अहं मृग्या पुरा शप्तो व्याघ्ररूपेण संस्थितः
ततः प्राणिवधात्सर्वमशेषं मम विस्मृतम् ॥४४५॥
त्वत्संपर्कोपदेशाभ्यां संजातं स्मरणं पुनः
त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिं ॥४४६॥
तदहं त्वां पुनः पृच्छे प्रश्नमेकं हृदि स्थितम्
साग्रं वर्षशतं जातं चिंतयानस्य मे शुभे ॥४४७॥
भवत्या भाग्ययोगेन कदाचित्स्वर्गशोभने
कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम् ॥४४८॥
किं तेऽभिधानं कल्याणि ब्रूहि मेऽज्ञस्य सुव्रते
नंदोवाच
मम नंदेति संज्ञा तु कृता नंदेन स्वामिना ॥४४९॥
सांप्रतं भक्षयामीति ह्यतिष्ठः केन हेतुना
नंदेति श्रुत्वा तन्नाम मुक्तशापः प्रभंजनः ॥४५०॥
पुनर्नृपत्वमापन्नो बलरूपसमन्वितः
एतस्मिन्नंतरे धर्मस्तां ज्ञात्वा सत्यवादिनीम् ॥४५१॥
द्रष्टुं समागतस्तत्र प्राब्रवीच्च पयस्विनीम्
तव सत्यव्रताद्धृष्टो धर्मोहमिह चागतः ॥४५२॥
नंदे वृणीष्व भद्रं ते वरं वरतमं हि यत्
एवमुक्ता हि सा देवी नंदा तं प्रार्थयद्वरम् ॥४५३॥
तवानुभावात्ससुता गच्छामि पदमुत्तमम्
भवेदिदं शुभं तीर्थं मुनीनां धर्मदायकम् ॥४५४॥
मन्नाम्ना च सरिदियं नंदा नाम सरस्वती
वरप्रदानाद्देवेश तदेतत्प्रार्थितं मया ॥४५५॥
पुलस्त्य उवाच
सा तत्क्षणाद्गता देवी स्थानं सत्यवतां शुभम्
प्रभंजनोपि तद्राज्यं संप्राप्तः प्रागुपार्जितम् ॥४५६॥
नंदा येन गता स्वर्गं नंदां प्राप्य सरस्वतीम्
तेनाख्यया बुधैस्तस्याः प्रोक्ता नंदा सरस्वती ॥४५७॥
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात्
दक्षिणेन पुनर्याता प्लावयंती धरातलम् ॥४५८॥
आगच्छन्नपि यस्तस्या नाम गृह्णाति मानवः
जीवन्सुखं स आप्नोति मृतो भवति खेचरः ॥४५९॥
तत्र ये शुभकर्माणस्त्यजंति स्वां तनुं नराः
ते विद्याधरराजानो भवंति सुखिनो जनाः ॥४६०॥
नराणां स्वर्गनिःश्रेणी स्नानात्पानात्सरस्वती
तत्र स्नानं प्रकुर्वन्ति येष्टम्यां सुसमाहिताः ॥४६१॥
ते मृताः स्वर्गमासाद्य मोदंते सुमनोरमाः
सरस्वती सदा स्त्रीणां तत्र सौभाग्यदायिका ॥४६२॥
उपोषिता तृतीयायामपि सौभाग्यभाजना
तत्र तद्दर्शनेनापि मुच्यते पापसंचयात् ॥४६३॥
स्पृशंति ये नराः केचित्तेपि ज्ञेया मुनीश्वराः
रजतस्य प्रदानेन रूपवान्जायते नरः ॥४६४॥
पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता
नंदा नामेति विपुला प्रवृत्ता दक्षिणामुखी ॥४६५॥
गत्वा ततो नातिदूरं पुनर्याता पराङ्मुखी
ततः प्रभृति सा देवी प्रसभं प्रकटा स्थिता ॥४६६॥
तस्यास्तटेषु पुण्येषु तीर्थान्यायतनानि च
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः ॥४६७॥
तेषु सर्वेषु भवति धर्महेतुस्सरस्वती
स्नानात्पानात्प्रदानाद्वा हिरण्यस्य महानदी ॥४६८॥
हाटकक्षितिगौरीणां नंदातीर्थे महोदयं
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलं ॥४६९॥
धान्यप्रदानं प्रवदंति शस्तं वसुप्रदानं च तथा मुनींद्राः
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुः प्रवरं प्रदिष्टम् ॥४७०॥
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तत्र कुर्यात्प्रमदा पुमान्वा
तीर्थेषु सायुज्यमवाप्य सोऽयं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टं ॥४७१॥
तस्योपकंठे तु मृतास्तु ये वै कर्मक्षयात्स्थावरजंगमाश्च
तैश्चापि सर्वैः सहसा प्रसह्य लभ्येत यज्ञस्य फलं दुरापम् ॥४७२॥
ततस्तु सा धर्मफलप्रदा भवेज्जन्मादि दुःखार्दित चेतसां नृणाम्
सर्वात्मना पुण्यफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी ॥४७३॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे नंदाप्राचीमाहात्म्येष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP