संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः १९ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः १९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १९ Translation - भाषांतर भीष्म उवाचपुष्करस्य च नंदायाः श्रुतं माहात्म्यमुत्तमंऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात् ॥१॥सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतंयज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे ॥२॥कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिःआश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः ॥३॥पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वतेनागैस्तत्र पंचतीर्थं कृतं तैस्तु महाविषैः ॥४॥पिंडप्रदानवापी च केन पूर्वं विनिर्मिताउदङ्मुखी भूमिगता कथं गंगासरस्वती ॥५॥ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करेकर्तव्या यत्फलं तस्या जायते तद्वदस्व मे ॥६॥पुलस्त्य उवाचप्रश्नभारो महानेष भवता परिकल्पितःतदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं ॥७॥यस्य हस्तौ च पादौ च मनश्चैव सुसंयतंविद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥८॥प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित्अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥९॥अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतःआत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥१०॥ऋषीणां परमं गुह्यमिदं भरतसत्तमपूर्वं यत्र महाराज सत्रे पैतामहे तथा ॥११॥यतीनामुग्रतपसां येषां कोटिः समागतामुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे ॥१२॥सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाःहर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः ॥१३॥यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशंकृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः ॥१४॥आसन्नश्च ततस्तेषां तदा तुष्टः पितामहःकोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां ॥१५॥अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यतिइहागत्य नरो यो वै यदंगं प्रथमं जले ॥१६॥प्लावविष्यति रूपार्थं रूपिता तीर्थकारिताभविष्यति न संदेहो योजनायतमंडले ॥१७॥अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम् ॥१८॥गमनादेव राजेंद्र पुष्करस्य त्वरिंदमराजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ॥१९॥सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करेतत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥२०॥अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशींतत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥२१॥गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः ॥२२॥पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयतेतत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा ॥२३॥ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् ॥२४॥पुष्करं नाम विख्यातं महापातकनाशनम्दशकोटिसहस्राणि तीर्थानां वै महीपते ॥२५॥सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दनआदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः ॥२६॥गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोःयत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ॥२७॥दिव्य योगा महाराज पुण्येन महतान्विताःमनसाप्यभिकामस्य पुष्कराणि मनस्विनः ॥२८॥पूयन्ते सर्वपापानि नाकपृष्ठे स मोदतेतस्मिंस्तीर्थे महाराज नित्यमेव पितामहः ॥२९॥उवास परमप्रीतो देवदानवसम्मतःपुष्करेषु महाराज देवास्सर्षिपुरोगमाः ॥३०॥सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताःतत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ॥३१॥अश्वमेधाद्दशगुणं प्रवदंति मनीषिणःअप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ॥३२॥अन्नेन तेन संप्रीता कोटिर्भवति पूजितातेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥३३॥शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम्तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ॥३४॥तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरःब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ॥३५॥पैतामहं सरः पुण्यं पुष्करं नाम नामतःवैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत् ॥३६॥सरस्वती पुण्यतमा यस्माद्याता महार्णवम्आदिदेवो महायोगी यत्रास्ते मधुसूदनः ॥३७॥ख्यात आदिवराहेति नाम्ना त्रिदशपूजितःहीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः ॥३८॥न वियोनिं व्रजंत्येते स्नात्वा तीर्थे महात्मनःकार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं ॥३९॥फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुमसायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि ॥४०॥उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरवजन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ॥४१॥पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यतियथासुराणां प्रवरः सर्वेषां तु पितामहः ॥४२॥तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यतेत द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः ॥४३॥क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छतियस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ॥४४॥कार्तिकीं वा वसेदेकां पुष्करे सममेव तुपुष्करे दुष्करो होमः पुष्करे दुष्करं तपः ॥४५॥पुष्करे दुष्करं दानं वासश्चैव सुदुष्करःब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं ॥४६॥स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकःनाममात्रोपि यो विप्रो गत्वा संध्यामुपासते ॥४७॥वर्षाणि द्वादशैवेह तेन संध्या ह्युपासिताभवेत्तु नात्र संदेहः पुरा प्रोक्तं स्वयंभुवा ॥४८॥सावित्री कथितो दोषः कुले तस्य न जायतेया पत्नी ददते भर्तुः संध्योपास्तिं करिष्यतः ॥४९॥करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत्ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं ॥५०॥एकाकिना गतेनापि संध्या वंद्या यथाक्रमंपौष्करेणाथ तोयेन भृंगारे निहितेन तु ॥५१॥तेनापि द्वादशाब्दानि संध्योपास्ता न संशयःभवेत्समीपगा पत्नी कुर्वतः पितृतर्पणं ॥५१॥दक्षिणां दिशमास्थाय गायत्र्या राजसत्तमपितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी ॥५३॥युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुतेएतदर्थं हि विद्वांसः कुर्वंते दारसंग्रहं ॥५४॥तीर्थे गत्त्वा प्रदास्यामः पिंडान्वै श्राद्धपूर्वकंतेषां पुत्रा धनं धान्यमविच्छिन्ना च संततिः ॥५५॥भवेद्वै नात्र संदेह एतदाह पितामहःतर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥५६॥आश्रमानपि ते वच्मि शृणुष्वैकमना नृपअगस्त्येन कृतश्चात्र आश्रमो देवसंमितः ॥५७॥सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतःब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा ॥५८॥नागानां च पुरी रम्या यज्ञपर्वतरोधसिअगस्त्यस्य महाराज प्रभावममितात्मनः ॥५९॥कथयामि समासेन शृणु त्वं सुसमाहितःपूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः ॥६०॥कालेया इति विख्याता गणाः परमदारुणाःते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः ॥६१॥ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरेकृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह ॥६२॥विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितंतमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ ॥६३॥दधीचिरिति विख्यातो महानृषिरुदारधीःतं गत्वा सहितास्सर्वे वरं च प्रतियाचत ॥६४॥स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मनास वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः ॥६५॥स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षयास शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ॥६६॥तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढंमहच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं ॥६७॥तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुःएतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां ॥६८॥एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहंशतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः ॥६९॥सरस्वत्याः परे पारे नानाद्रुमलतावृतंषट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव ॥७०॥पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्महिषैश्च वराहैश्च सृमरैश्चमरैरपि ॥७१॥तत्रतत्रानुचरितैः शार्दूलभयवर्जितैःकरेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ॥७२॥स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितंसिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं ॥७३॥मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिःतेषु तेषु च कुंजेषु नादितं सुमनोरमं ॥७४॥त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम् ॥७५॥जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य चअयाचंत वरं सर्वे यथोक्तं परमेष्ठिना ॥७६॥ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाचकरोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि ॥७७॥तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्जसुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य ॥७८॥प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुःत्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥७९॥चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टःअनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं ॥८०॥ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठःत्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात् ॥८१॥ततः स वज्रेणयुतो दैवतैरभिपूजितःआससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥८२॥कालकेयैर्महाकायैस्समंतादभिरक्षितंसमुद्यत प्रहरणैः सशृंगैरिव पर्वतैः ॥८३॥ततो युद्धं समभवद्देवानां सह दानवैःमुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥८४॥उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिःआसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः ॥८५॥शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलंतालैरिव महीपाल वृतं तैरेव दृश्यते ॥८६॥ते हेमकवचा भूत्वा कालेयाः परिघायुधाःत्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः ॥८७॥तेषां वेगवतां वेगं सहितानां प्रधावताम्न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात् ॥८८॥तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरःवृत्रं च वर्द्धमानं तु कश्मलं महदाविशत् ॥८९॥तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनःस्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥९०॥विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदासर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥९१॥स समाप्यायितः शक्रो विष्णुना दैवतैः सहऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥९२॥ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम्तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं ॥९३॥ततो महेंद्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महांतम्भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे ॥९४॥स शक्रवज्राभिहतः पपात महास्वनः कांचनमाल्यधारीयथा महाशैलवरः पुरस्तात्स मंदरो विष्णुकरात्प्रमुक्तः ॥९५॥तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुंवज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति ॥९६॥सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवंतिशेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ॥९७॥ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाःसमुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम् ॥९८॥झषाकुलं रत्नसमाकुलं च तदा स्म मंत्रं सहिताः प्रचक्रुःतत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिंतयंतः ॥९९॥भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुःतेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिंतयतां बभूव ॥१००॥ये संति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यःलोकाश्च सर्वे तपसा ध्रियंते तस्मात्त्वरध्वं तपसः क्षयाय ॥१०१॥ये संति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाःतेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम् ॥१०२॥एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाःदुर्गंसमाश्रित्य महोर्मिमंतं रत्नाकरं वारुणमालयं स्म ॥१०३॥समुद्रं ते समासाद्य वारुणं त्वंभसां निधिंकालेयास्समपद्यंत त्रैलोक्यस्य विनाशने ॥१०४॥ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन्आश्रमेषु च ये संति पुण्येष्वायतनेषु च ॥१०५॥वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिःअशीतिः शतमष्टौ च वने चान्ये तपस्विनः ॥१०६॥च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्फलमूलाशनानां हि मुनीनां भक्षितं शतं ॥१०७॥एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवाभरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः ॥१०८॥वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताःएवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा ॥१०९॥निशायां पर्यधावंत शक्ता भुजबलाश्रयात्कालेन महता ते वै जघ्नुर्मुनिगणान्बहून् ॥११०॥न चैतानवबुध्यंत मनुजा मनुजाधिपनिस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् ॥१११॥जगदासीन्निरुत्साहं कालेयभयपीडितंएवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर ॥११२॥आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दशकेचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः ॥११३॥अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्केचित्तत्र महेष्वासाः शूराः परमदर्पिताः ॥११४॥मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरेनचैताननुजग्मुस्ते समुद्रं समुपाश्रितान् ॥११५॥शमं न जग्मुः परममाजग्मुः क्षयमेव चजगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये ॥११६॥आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वरसमेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे ॥११७॥नारायणं पुरस्कृत्य वैकुंठमपराजितम्ततो देवास्समेतास्ते तदोचुर्मधुसूदनम् ॥११८॥त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभोत्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति ॥११९॥त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षणवाराहं रूपमास्थाय जगदर्थे समुद्धृता ॥१२०॥आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरानारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥१२१॥अवध्यः सर्वभूतानां बलिश्चापि महासुरःवामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया ॥१२२॥असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतःयज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः ॥१२३॥एवमादीनि कर्माणि येषां संख्या न विद्यतेअस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥१२४॥तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहेरक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ॥१२५॥भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाःस्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः ॥१२६॥लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताःत्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥१२७॥इदं च समनुप्राप्तं लोकानां भयमुत्तम्जानीमो न च केनैते वध्यंते ब्राह्मणा निशि ॥१२८॥ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यतित्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते ॥१२९॥विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताःविष्णु उवाचविदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम् ॥१३०॥भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराःकालकेया इति ख्याता गणाः परमदारुणाः ॥१३१॥ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमताजीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥१३२॥ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह ॥१३३॥न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि तेसमुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम् ॥१३४॥एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः ॥१३५॥तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्उपास्यमानमृषिभिर्द्देवैरिव पितामहम् ॥१३६॥तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम्अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः ॥१३७॥देवा ऊचुःनहुषेणाभितप्तानां लोकानां त्वं गतिः पुराभ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककंटकः ॥१३८॥क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमःवचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥१३९॥तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाःत्वामेव नाथमागम्य निर्वृतिं परमां गताः ॥१४०॥अस्माकं भयभीतानां नित्यमेव भवान्गतिःततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि ॥१४१॥भीष्म उवाचकिमर्थं सहसा विंध्यः प्रवृद्धः क्रोधमूर्च्छितःएतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥१४२॥पुलस्त्य उवाचअद्रिराजं महाशैलं मेरुं कनकपर्वतम्उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत ॥१४३॥तं दृष्ट्वा तु तदा विंध्यः शैलः सूर्यमथाब्रवीत्यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥१४४॥प्रदक्षिणं च क्रियते मामेवं कुरु भास्करएवमुक्तस्ततः सूर्यः शैलेंद्रं प्रत्यभाषत ॥१४५॥नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥१४६॥एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलःसूर्याचंद्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ॥१४७॥ततो हि देवाः सहितास्तु सर्वे सेंद्राः समागम्य महाद्रिराजम्निवारयामासुरथोत्पतंतं न वै स तेषां वचनं चकार ॥१४८॥ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम्अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते ॥१४९॥देवा ऊचुःसूर्याचंद्रमसोर्मार्गं नक्षत्राणां गतिं तथाशैलराडावृणोत्येष विंध्यः क्रोधवशानुगः ॥१५०॥तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वरतच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ॥१५१॥सोभिगम्याब्रवीद्विंध्यं सादरं समुपस्थितम्मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ॥१५२॥दक्षिणामभिगंतास्मि दिशं कार्येण केनचित्यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय ॥१५३॥निवृत्ते मयि शैलेंद्र ततो वर्धस्व कामतःपुलस्त्य उवाचअद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥१५४॥एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धतेअगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि ॥१५५॥कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताःअगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु ॥१५६॥त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्किमर्थं समुपायाता वरं मत्तः किमिच्छथ ॥१५७॥एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन्इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन् ॥१५८॥एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम्ततो विहन्याम च सानुबंधं कालेयसंज्ञं सुरविद्विषां बलम् ॥१५९॥त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्करिष्ये भवतां कामं लोकानां सुखकारकम् ॥१६०॥एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमंभसाम्तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत ॥१६१॥मनुष्योरगगंधर्वा यक्षाः किंपुरुषास्तथाअनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥१६२॥ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम्नृत्यंतमिव चोर्मीभिर्वल्गंतमिव वायुना ॥१६३॥हसंतमिव फेनौघैः स्खलंतं कंदरेषु चनानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम् ॥१६४॥अगस्त्यसहिता देवाः सगंधर्वमहोरगाःऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥१६५॥समुद्रं स समासाद्य वारुणिर्भगवानृषिःउवाच सहितान्देवानृषींस्तांस्तु समागतान् ॥१६६॥पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमःएष लोकहितार्थाय पिबामि वरुणालयम् ॥१६७॥भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः ॥१६८॥समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतःपीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः ॥१६९॥विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्त्वं नस्त्राता विधाता च लोकानां लोकभावनःत्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत् ॥१७०॥संपूज्यमानस्त्रिदशैर्महात्मा गंधर्वमुख्येषु नदत्सु चैवदिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार ॥१७१॥दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाःप्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः ॥१७२॥ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिःन सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम् ॥१७३॥ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाःचक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत ॥१७४॥ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिःयतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥१७५॥ते हेमनिष्काभरणाः कुंडलांगदधारिणःनिहता बह्वशोभंत पुष्पिता इव किंशुकाः ॥१७६॥हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाःविदार्य वसुधां देवीं पातालतलमाश्रिताः ॥१७७॥निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम्तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ॥१७८॥त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्त्वत्तेजसा च निहताः कालेया भीमविक्रमाः ॥१७९॥पूरयस्व महाविप्र समुद्रं लोकभावनम्यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥१८०॥एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवःजीर्णं तद्धि मया तोयमुपायोन्यः प्रचिंत्यताम् ॥१८१॥पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैःएवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः ॥१८२॥विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराःपरस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम् ॥१८३॥प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम्त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम् ॥१८४॥पूरणार्थं समुद्रस्य मंत्रयंतः परस्परम्ऊचुः प्रांजलयः सर्वे सागरस्य हि पूरणम् ॥१८५॥तानुवाच समेतांस्तु ब्रह्मा लोकपितामहःगच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम् ॥१८६॥महता कालयोगेन प्रकृतिं यास्यतेऽर्णवःज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः ॥१८७॥गंगौघेन समुद्रं च पुनः संपूरयिष्यतिएवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः ॥१८८॥उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम्देवकार्यं तु भवता दानवानां विनाशनम् ॥१८९॥यतस्संतारिता देवास्तेन तुष्टोस्मि वै मुनेअभिप्रेतो वरो यस्ते याचयस्व ददामि तम् ॥१९०॥एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम्इहस्थेन मया देव देवकार्यमिदं कृतम् ॥१९१॥सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमःत्वया चोक्तस्तु भगवन्भविता नात्र संशयः ॥१९२॥ब्रह्मोवाचयात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु येइह कुंडेषु ये स्नानं तर्पणं पितृदेवयोः ॥१९३॥अर्चनं चैव देवेषु सर्वमक्षयकारकम्अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः ॥१९४॥दास्यंति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपेश्राद्धेन पितरस्तृप्ता यावदाभूतसंप्लवम् ॥१९५॥कंदमूलफलैर्वापि तर्पयिष्यति यो मुनिम्सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः ॥१९६॥यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम्उदङ्मुखी देवनदी निर्गता पुष्करं प्रति ॥१९७॥अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतःअश्वमेधफलं तस्य भवत्येव न संशयः ॥१९८॥यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिताअक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर ॥१९९॥यो यमिच्छति कामं तु सर्वं तस्य भविष्यतिन वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि ॥२००॥स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः ॥२०१॥जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वाअत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति ॥२०२॥एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहःजगामामंत्र्य स मुनिमगस्त्यं मुनिसत्तमम् ॥२०३॥अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परंतपअगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता ॥२०४॥सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वहअत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः ॥२०५॥अंगिरा गौतमश्चैव सुमतिः सुमुखस्तथाविश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः ॥२०६॥रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुःदुर्वासा जमदग्निश्च मार्कण्डेयोथ गालवः ॥२०७॥उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिःस्थूलाक्षः सकलाक्षश्च कण्वो मेधातिथिः कृतः ॥२०८॥नारदः पर्वतश्चैव स्वगंधी च्यवनो द्विजःतृणाम्बु शबलो धौम्यः शतानंदो कृतव्रणः ॥२०९॥जमदग्निस्तथा रामो ह्यष्टकश्चैवमादयःकृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः ॥२१०॥एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमेवेष्टिता नियमैश्चापि दयायुक्तास्तपस्विनः ॥२११॥आनृशंस्यं जयो धैर्यं तपः सत्यं क्षमार्जवम्दया दानं जपश्चैव सर्वेषां तत्प्रतिष्ठितं ॥२१२॥इह यत्क्रियते कर्म तत्परत्रोपभुज्यतेज्ञात्वा तदित्त्थं मुनयः परमार्थपरायणाः ॥२१३॥न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाःन नृशंसा न पिशुना न कृतघ्ना न मानिनः ॥२१४॥सत्य तेजस्विनः शूरा दयावंतः क्षमापराःयज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः ॥२१५॥निर्ममा निरहंकारास्तत्र गच्छंति पुष्करेन रोगो न जरामृत्युर्भवितात्र महात्मनां ॥२१६॥न तत्र मूढा विशंति पुरुषा विषयात्मकाःकामलोभमदद्रोह क्रोधमोहैरुपद्रुताः ॥२१७॥तुल्य मानापमानाश्च निर्द्वंद्वास्संयतेंद्रियाःध्यानयोगपराश्चैव ते तु गच्छंति पुष्करं ॥२१८॥आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजातयःये वर्तंते यमं त्रातुं तेषां लोका महोदयाः ॥२१९॥ये न हिंसंति भूतानि कर्मणा मनसा गिराअनृशंसतराः संतः सर्वदा च प्रियंवदाः ॥२२०॥अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाःनित्यं स्वाध्यायवंतश्च नित्यं स्नानपरायणाः ॥२२१॥मातृवत्स्वसृवच्चैव तथा दुहितृवच्च हपरदारान्प्रपश्यंति सततं विगतस्पृहाः ॥२२२॥येधिक्षिप्ता न कुप्यंति न हिंसंति च हिंसिताःसमदुःखसुखाः संतो महात्मानो जितेंद्रियाः ॥२२३॥ते हि सर्वे प्रपश्यंति पुरा चेरुर्महीमिमांसमाधिना चिंतयंतो ब्रह्मलोकं सनातनं ॥२२४॥अथाभवदनावृष्टिः कदाचिन्महती तदाकृच्छ्रप्रायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः ॥२२५॥ततो निरन्ने लोकेस्मिंश्चात्मानं ते परीप्सवःमृतं कुमारमादाय कृच्छ्रप्रायास्तदापचन् ॥२२६॥अथ पर्यचरत्तत्र क्लिश्यमानान्हि तानृषीन्दृष्ट्वा राजा विषादार्त्तः प्रोवाचेदं वचस्तदा ॥२२७॥राजोवाचप्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदितातस्मात्प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः ॥२२८॥वरान्ग्रामान्व्रीहियवान्रसान्रत्नानि कांचनंगाश्च धेनूश्च तत्सर्वं मा मांसं पचत द्विजाः ॥२२९॥ऋषय ऊचुःराजन्प्रतिग्रहो घोरो मध्वास्वादो विषोपमःतज्जानतां नः कस्मात्त्वं कुरुषे सम्प्रलोभनं ॥२३०॥दशसूना समश्चक्री दशचक्रिसमो ध्वजीदशध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥२३१॥दशसूना सहस्राणि यो वाहयति शौंडिकःतेन तुल्यस्ततो राजा घोरस्तस्य प्रतिग्रहः ॥२३२॥यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितःतामिस्रादिषु घोरेषु नरकेषु स पच्यते ॥२३३॥तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिवअन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः ॥२३४॥अथ राज्ञःसमादेशात्तत्र गत्वाथ मंत्रिणःउदुंबराणि व्यकिरन्हेमगर्भाणि भूतले ॥२३५॥ततो ह्यन्नं विचिन्वंतो गृह्णंश्चोदुंबराण्यपिगुरूणि हि विदित्वा तु न ग्राह्याण्यत्रिरब्रवीत् ॥२३६॥अत्रिरुवाचनास्महे मूढविज्ञाना नास्महे मंदबुद्धयःहैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः ॥२३७॥इहैवेदं वसुप्रीत्यै प्रेत्य वैकुंठितोदयंतस्मान्न ग्राह्यमेवैतत्सुखमानंत्यमिच्छता ॥२३८॥शतेनगुणितं निष्कं सहस्रेण समन्वितम्यश्चान्यतः प्रतीच्छेत्स पापिष्टां लभते गतिम् ॥२३९॥यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियःनूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेत् ॥२४०॥वसिष्ठ उवाचतपसां संचयो यस्य द्रव्याणां यस्य संचयःतपःसंचय एवेह विशिष्टो धनसंचयात् ॥२४१॥त्यजतः संचयान्सर्वान्यांति नाशमुपद्रवाःनहि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥२४२॥यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम्तथा तस्य हि संतोषाद्ब्राह्मं तेजो विवर्द्धते ॥२४३॥अकिंचनत्वं राज्यं च तुलया समतोलयत्अकिंचनत्वमधिकं राज्यादपि हितात्मनः ॥२४४॥कश्यप उवाचअनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान् ॥२४५॥अर्थैश्वर्यविमूढो हि श्रेयसो भ्रश्यते द्विजःअर्थसंपद्विमोहाय विमोहो नरकाय च ॥२४६॥तस्मादर्थमनर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत्यस्य धर्मार्थमर्थेहा तस्यानीहा गरीयसी ॥२४७॥प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरंयोर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः ॥२४८यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणःभरद्वाज उवाचजीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥२४९॥धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतिचक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा ॥२५०॥सूच्या सूत्रं यथा वस्त्रे समानयति सूचकःतद्वत्संसारसूत्रं हि तृष्णासूच्योपनीयते ॥२५१॥यथा शृंगं रुरोः काये वर्द्धमाने च वर्द्धतेअनंतपारा दुष्पूरा तृष्णा दुःखशतावहा ॥२५२॥अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्गौतम उवाचसंतुष्टः को न शक्नोति फलैश्चाप्यतिवर्तितुम् ॥२५३॥लुब्धइंद्रियलौल्येन संकटान्यवगाहतेसर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं ॥२५४॥उपानद्गूढपादस्य तस्य चर्मावृतेव भूःसंतोषामृततृप्तानां यत्सुखं शांतचेतसां ॥२५५॥कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्असंतोषः परं दुःखं संतोषः परमं सुखम् ॥२५६॥सुखार्थी पुरुषस्तस्मात्संतुष्टः संततं भवेत्विश्वामित्र उवाचकामं कामयमानस्य यदि कामः समृद्ध्यति ॥२५७॥अथैनमपरः कामो भूयो विध्यति बाणवत्न जातुकामः कामानामुपभोगेन शाम्यति ॥२५८॥हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धतेकामानभिलषन्मोहान्न नरः सुखमेधते ॥२५९॥श्येनालयतरुच्छायां व्रजन्निव कपिंजलःचतुस्सागरपर्यन्तां यो भुंक्ते पृथिवीमिमाम् ॥२६०॥तुल्याश्मकाञ्चनोयश्च सकृतार्थो न पार्थिवःजमदग्निरुवाचप्रतिग्रहसमर्थोपि नादत्ते यः प्रतिग्रहम् ॥२६१॥ये लोका दानशीलानां स तानाप्नोति शाश्वतान्योर्थानिच्छेन्नृपाद्विप्रः शोचितव्यो महर्षिभिः ॥२६२॥न स पश्यति मूढात्मा नरके यातनाभयम्प्रतिग्रहसमर्थोपि न प्रसज्येत्प्रतिग्रहे ॥२६३॥प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यतिप्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥२६४॥य एव ददतां लोकास्त एवाप्रतिगृह्णताम्अरुन्धत्युवाचबिसतंतुर्यथानित्यमंभस्थस्सततं विशेत् ॥२६५॥तृष्णा चैवमनाद्यंता तथा देहगता सदाया दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥२६६॥योसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखंचांडाल उवाचउग्रादितो भयाद्यस्माद्बिभ्यती मे महेश्वराः ॥२६७॥बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम्पशुसख उवाचयदाचरंति विद्वांसः सदा धर्मपरायणाः ॥२६८॥तदेव विदुषा कार्यमात्मनो हितमिच्छताइत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै ॥२६९॥ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताःततस्ते विचरंतो वै मध्यमं पुष्करं गताः ॥२७०॥ददृशुः सहसा प्राप्तं परिव्राजं शुनःसखंतेनेह सहितास्तत्र गत्वा किंचिद्वनांतरं ॥२७१॥सरः परमपश्यंत वृतं पद्मैर्जलाशयम्निविष्टाः सरसस्तीरे चिंतयंतो गतिं शुभाम् ॥२७२॥शुनःसखो मुनीन्सर्वानुवाच क्षुधितांस्तदासर्वे वदंतु सहिताः कीदृशी क्षुत्प्रवेदना ॥२७३॥तमूचुः सहितास्ते तु परिव्राजं शुनःसखंऋषय ऊचुःशक्तिखड्गगदाभिश्च चक्रतोमरसायकैः ॥२७४॥बाधिते वेदना या तु क्षुधया सापि निर्जिताश्वासकुष्ठक्षयाष्ठीली ज्वरापस्मार शूलकैः ॥२७५॥व्याधिभिर्जनिता सापि क्षुधाया नाधिका भवेत्हिरण्यांगदकेयूरमकुटोज्ज्वलकुंडलाः ॥२७६॥क्षुधायां न विराजंते तत्र ये संस्थिता नराःयथा भूमिगतं तोयं रविरश्मिर्विकर्षति ॥२७७॥तद्वच्छरीरजा नाड्यः शोष्यंते जठराग्निनान शृणोति न चाघ्राति चक्षुषा नैव पश्यति ॥२७८॥दह्यते क्षीयते मूढः शुष्यते क्षुधयार्दितःन पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि ॥२७९॥न चाधो नैव चोर्द्ध्वं च क्षुधाविष्टो हि विंदतिमूकत्वं बधिरत्वं च जडत्वमथ पंगुता ॥२८०॥भैरवत्वममर्यादं क्षुधायां संप्रवर्द्धतेजनकं जननीं पुत्रान्भार्यां दुहितरं तथा ॥२८१॥भ्रातरं स्वजनं वापि त्यजति क्षुधयार्दितःन पितॄन्पूजयेत्सम्यक्देवं चापि गुरुं तथा ॥२८२॥ऋषीनुपगतांश्चापि क्षुधाविष्टो न विंदतिएवमन्नविहीनस्य भवंत्येतानि देहिनां ॥२८३॥तदेवं संप्रयच्छेत अन्नं श्रद्धासमन्वितःब्रह्मभूतस्ततः सोथ ब्रह्मणा सह मोदते ॥२८४॥सुसंस्कृतं च योप्यन्नं दद्यादहरहर्द्विजेयः पठेदन्नदानं तु श्राद्धे चैव विशेषतः ॥२८५॥एकाग्रमानसो भूत्वा अमावस्येंदुसंक्षयेभूतोपघातसंपूर्णे श्राद्धे श्रावयते सदा ॥२८६॥पितरस्तस्य तुष्यंति यावज्जीवं न संशयःदेवद्विजसमीपस्थोन्नस्यदाता विमुच्यते ॥२८७॥प्रबुद्धो वा प्रमत्तो वा प्रसंगादागतोपि वाभक्त्या विरहितो वापि शृण्वन्पापाद्विमुच्यते ॥२८८॥दानेन संयुता विप्राः सुखिनो धर्मभागिनःयमो दमो वै नियमः प्रोक्तस्तत्वार्थदर्शिभिः ॥२८९ब्राह्मणानां विशेषेण दमो धर्मः सनातनःदमस्तेजो वर्द्धयति पवित्रो दम उत्तमः ॥२९०विपाप्मा चैव तेजस्वी पुरुषो दमतो भवेत्ये केचिन्नियमा लोके ये च धर्माश्शुभान्वयाः ॥२९१॥सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यतेतपो यज्ञस्तथा दानं दमादेव प्रवर्तते ॥२९२॥किमरण्येत्वदांतस्य दांतस्यापि किमाश्रमेयत्रयत्र वसेद्दांतस्तदरण्यं महाश्रमः ॥२९३॥शीलवृत्तसमेतस्य निगृहीतेंद्रियस्य चआर्जवे वर्तमानस्य आश्रमैः किं प्रयोजनम् ॥२९४॥वनेपि दोषाः प्रभवंति रागिणां गृहेपि पंचेंद्रियनिग्रहस्तपःअकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥२९५॥सुकर्मधर्मार्जितजीवितानां सदा च संतुष्य गृहे रतानाम्जितेंद्रियाणामतिथिप्रियाणां गृहेपि धर्मो नियमस्थितानाम् ॥२९६न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसंगे निरतस्य चैवन भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणेरतस्य ॥२९७॥एकांतशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्यअध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ॥२९८॥सुखं च दांतः स्वपिति सुखेन प्रतिबुध्यतेसमः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते ॥२९९॥न रथेन सुखं याति न हयेन न दंतिनायथात्मना विनीतेन सुखं याति महापथे ॥३००॥न तु कुर्याद्धरिः स्पृष्टः सर्पो वाप्यतिरोषितःअरिर्वा नित्यसंक्रुद्धो यथात्मा दमवर्जितः ॥३०१॥न यमं यममित्याहुरात्मा वै यम उच्यतेआत्मा वै यमितो येन स यमस्तु विशिष्यते ॥३०२॥यमो यम इति प्रोक्तो वृथा तूद्विजते जनःआत्मा वै यमितो येन यमस्तस्य करोति किम् ॥३०३॥क्रव्यादेभ्यश्च भूतेभ्योऽदान्तेभ्यश्च सदा भयम्तेषां विप्रतिषेधार्थं दंडः सृष्टः स्वयंभुवा ॥३०४॥दंडो रक्षति भूतानि दंडः पालयते प्रजाःनिवारयति पापिष्ठान्दंडो दुर्जय एव वा ॥३०५॥श्यामो युवा लोहिताक्षः सर्वभूतभयावहःदंडः शास्ता मनुष्याणां यस्मिन्धर्मः प्रतिष्ठितः ॥३०६॥अथाश्रमेषु सर्वेषु दम एवोत्तमं व्रतम्तानि लिंगानि वक्ष्यामि यैर्दांत इति कीर्त्यते ॥३०७॥अकार्पण्यमपारुष्यं संतोषः सुविधानताअनसूया गुरोः पूजा दया भूतेष्वपैशुनम् ॥३०८॥षड्भिरेष दमः प्रोक्त ऋषिभिः शांतबुद्धिभिःदयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव ॥३०९॥अपमाने न कुप्येत संमाने न प्रहृष्यतिसमदुःखसुखो धीरः स शांत इति कीर्त्यते ॥३१०शेते सुखं हि शांतस्तु सुखं हि प्रतिबुध्यतेश्रेयस्तरमतस्तिष्ठेदवमन्ता विनश्यति ॥३११॥अपमानितस्तु न ध्यायेत्तस्य पापं कदाचनस्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत् ॥३१२॥आत्मानमपि जानीयात्परं दोषैस्तु नाक्षिपेत्मंत्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः ॥३१३॥दमश्छादयते सर्वं हीनमंगं पटो यथाअधीयते निरर्थन्ते नाभिजानंति ये दमम् ॥३१४॥श्रुतस्य हि दमो मूलं दमो धर्मः सनातनःयो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम् ॥३१५॥स तेन धृतिमान्ख्यातो न तु द्रव्येण मोहितःव्रतानामपि सर्वेषां दम एव परायणम् ॥३१६॥यद्यधीते षडंगानि वेदतत्त्वार्थविद्द्विजःदमेन तु विहीनश्च पूज्यत्वं नेह गच्छति ॥३१७॥दमेनहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरंगैःसांख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥३१८॥अमृतस्येव तृप्येत अपमानस्य योगवित्विषवच्च जुगुप्सेत संमानस्य सदा द्विजः ॥३१९॥अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयःअर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ॥३२०॥पुनराप्यायते धेनुः सतृणैः सलिलैर्यथाएवं जपैश्च होमैश्च पुनराप्यायते द्विजः ॥३२१॥आक्रोशकसमो लोके सुहृदन्यो न विद्यतेयस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ॥३२२॥आक्रोशमानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेत्सन्नियम्य तदात्मानममृतेनाभिषिंचति ॥३२३॥कपालं वृक्षमूलानि कुचेलमसहायताअनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम् ॥३२४॥कामक्रोधौ विनिर्जित्य किमरण्ये करिष्यतिअभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते ॥३२५॥गुणैर्मन्त्रा विधार्यन्ते क्रोधस्सत्त्वेन धार्यतेयस्तु क्रोधं समुत्पन्नं संधारयति चात्मनः ॥३२६॥अक्रोधेन जयेद्वीरः कस्तेन सदृशो भुवियस्तु क्रोधं समुत्पन्नं संतं संयम्य तिष्ठति ॥३२७॥तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः ॥३२८॥धर्मस्य नियमो यो हि मया ते कथितो भृशम्अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां ॥३२९॥अन्ये दमवतां लोकास्ते वै परमपूजिताःएकः क्षमावतां दोषो द्वितीयो नोपपद्यते ॥३३०॥यदिदं क्षमया युक्तमशक्तम्मन्यते जनःन चैष दोषो मंतव्यः क्षमा प्रज्ञावतां बलम् ॥३३१॥प्रशमं योभिजानाति इष्टापूर्तं महीयतेयत्क्रोधयुक्तो जपति जुहोति च यदर्चति ॥३३२॥सर्वं क्षरति तत्तस्य भिन्नकुंभादिवोदकम्दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत् ॥३३३॥स धर्मनावमारुह्य दुर्गाण्यति तरिष्यतिदमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः ॥३३४॥स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनःश्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम् ॥३३५॥आत्मनः प्रतिकूलानि परेषां न समाचरेत्मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत् ॥३३६॥आत्मवत्सर्वभूतानि यः पश्यति स पश्यतिपचनं वैश्वदेवार्थे परार्थे यच्च जीवितम् ॥३३७॥एतद्भवेच्च सर्वस्वं धातूनामिव कांचनम्सर्वभूतहितं राजन्नधीत्यामृतमश्नुते ॥३३८॥एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे ॥३३९॥सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्तत्रावतारं कृत्वा ते बिसानि च कलापशः ॥३४०॥तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम् ॥३४१॥बिसान्येतान्यपश्यंत इदं वचनमब्रुवन्ऋषय ऊचुःकेन क्षुधाभितप्तानामस्माकं पापकर्मणाम् ॥३४२॥नृशंसेनापनीतानि बिसान्याहारकांक्षिणाते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः ॥३४३॥चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिवकश्यप उवाचसर्वत्र सर्वं हरतु न्यासलोपं करोतु च ॥३४४॥कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यःदंभेन धर्मं चरतु राजानं चोपसेवताम् ॥३४५॥मधुमांसं समश्नातु बिसस्तैन्यं करोति यःअनृतं भाषतु सदा विषयांश्चोपसेवतु ॥३४६॥ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यःवसिष्ठ उवाचअनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु ॥३४७॥अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यःएककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः ॥३४८॥तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यःभरद्वाज उवाचनृशंसस्सोऽस्तु सर्वेषु समृध्या चाप्यहंकृतः ॥३४९॥मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यःप्रत्याक्रोशत्ववाक्रुष्टस्ताडयत्वन्यताडितः ॥३५०॥विक्रीणातु रसांश्चैव बिसस्तैन्यं करोति यःगौतम उवाचअतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः ॥३५१॥शूद्रान्नं च सदाश्नातु बिसस्तैन्यं करोति यःदत्वा दानं कीर्तयतु परभार्यासु तुष्यतु ॥३५२॥एकाकीमिष्टमश्नीयाद्बिसस्तैन्यं करोति यःविश्वामित्र उवाचनित्यकामपरः सोस्तु दिवसे चैव मैथुनी ॥३५३॥नित्यं तु पातकी चैव बिसस्तैन्यं करोति यःपरापवादं वदतु परदारांश्च सेवतु ॥३५४॥परनिंदारतश्चास्तु बिसस्तैन्यं करोति यःमातरं पितरं चैव सोवमन्यतु दुर्मतिः ॥३५५॥समातर्यन्यबुद्धिस्याद् बिसस्तैन्यं करोति यःपरपाकं सदाश्नातु परनारीं च सेवतु ॥३५६॥वेदविक्रयकृच्चास्तु बिसस्तैन्यं करोति यःजमदग्निरुवाचपरस्य यातु प्रेष्यत्वं स तु जन्मनि जन्मनि ॥३५७॥सर्वधर्मक्रियाहीनो बिसस्तैन्यं करोति यःशुनःसख उवाचन्यायेन वेदानध्येतु गृहस्थोस्तु प्रियातिथिः ॥३५८॥सत्यं वदतु वाजस्रं बिसस्तैन्यं करोति यःअग्निं जुहोतु विधिवद्यज्ञं यजतु नित्यशः ॥३५९॥ब्रह्मणस्सदनं यातु बिसस्तैन्यं करोति यःऋषय ऊचुःइष्टमेव द्विजातीनां यदिदं शपथीकृतं ॥३६०॥त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसखशुनःसख उवाचमया ह्यंतर्हितान्यासन्बिसानीमानि वो द्विजाः ॥३६१॥धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम्अलोभादक्षयालोका जिता वो मुनिसत्तमाः ॥३६२॥विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयम्ततो महर्षयस्ते तु विज्ञायाथ पुरंदरम् ॥३६३॥ऊचुः पुरंदरं चेदं वाक्यं वाक्यविशारदाःइहागत्य नरो यस्तु मध्यमं पुष्करं विशेत् ॥३६४॥त्रिरात्रोपोषितो भूत्वा लभेदावश्यकं फलम्द्वादशवार्षिकीदीक्षा स्मृता यातु वनौकसां ॥३६५॥तस्याः फलं समग्रं च लभेदिह न संशयःनासौ दुर्गतिमाप्नोति स्वगणैः सह मोदते ॥३६६॥विरिञ्चिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनम्पुलस्त्य उवाचइंद्रेण सह संप्रीतास्तदा जग्मुस्त्रिविष्टपम् ॥३६७॥एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिहनैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम् ॥३६८॥इदं यः शृणुयान्नित्यमृषीणां चरितं शुभम्विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते ॥३६९॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे सप्तर्षिसंवादोनामैकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP