सृष्टिखण्डः - अध्यायः ७५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
व्यास उवाच -
श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः
दुद्रुवुर्दैत्यसंघांस्तान्सर्वे सर्वान्समंततः ॥१॥
आजगाम महाबाहुः कुंभो नाम महासुरः
नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम् ॥२॥
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्
ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः ॥३॥
चक्रबंधं महाबंधं पुरोवध्यनिबंधनम्
प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम् ॥४॥
तेन कृत्वा महायुद्धमवसाने धनेश्वरः
पातयामास तं स्फोटं तस्य कुंभस्य चोरसि ॥५॥
भग्नदंष्ट्रस्ततः कुंभो निपपात महीतले
स्यंदनस्थो महावीर्यो जंभो हरिहयं तदा ॥६॥
जघानशरसंघैश्च तथैवैरावणं भृशम्
वासवो भिदुरेणैव संबिभेदासुरोत्तमम् ॥७॥
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः
तथारण्यं सुघोरं च अघोरं घोरमेव च ॥८॥
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे
सेनान्यश्चैव प्रत्येकं पातयामास लाघवात् ॥९॥
सौरभं शरसंघैश्च जयंतो वशमानयत्
शक्तिहस्तं च संह्रादं यमदंडं नरांतकम् ॥१०॥
हत्वा च पातयामास स भस्मीकृतविग्रहः
कालश्च खड्गपातेन पातयामास बाभ्रवम् ॥११॥
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे
अग्निना दह्यमानाश्च सप्तैते च महाबलाः ॥१२॥
भद्रबाहुर्महाबाहुः सुगंधो गंध एव च
भौरिको वल्लिको भीम एते सेनाग्रगामिनः ॥१३॥
रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः
पाशबद्धा महावीर्या वरुणस्य महात्मनः ॥१४॥
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः
शूरस्य रश्मिजालेन निहताः पञ्चदानवाः ॥१५॥
तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः
क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः ॥१६॥
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना
नैर्ऋतो गदया भीमं पातयामास भूतले ॥१७॥
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः
निपेतुः संयुगे भीताः संमुखा रणपंडिताः ॥१८॥
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्
मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः ॥१९॥
निपातिता रणे दैत्याः शतशो बलशालिनः
कुबेरस्य गदापातैर्निपतंति सहस्रशः ॥२०॥
शक्रस्य भिदुरेणैव भेदिता दैत्यपुंगवाः
असंख्याताः पतंत्युर्व्यां स्कंदशक्त्या तथा हताः ॥२१॥
गणेशपर्शुपातेन पतंति मुख्यमुख्यकाः
वैकुंठकरमुक्तेन चक्रेण तीव्रकर्मणा ॥२२॥
दैत्यानां प्रवराणां च शिरांसि निपतंति कौ
शमनो यमदंडेन कोटिकोटिसहस्रशः ॥२३॥
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्
मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान् ॥२४॥
पातेन तक्षकादीनां सुधांशोः शिशिरेण च
अश्वारोही खरोमन्योहनिपाशस्तथा गजान् ॥२५॥
परिघेण गजं कुंभे दैत्यानां नाशयत्ततः
एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत् ॥२६॥
एवं सिद्धैश्च गंधर्वैरप्सरोभिर्महाबलैः
अन्याभिर्देवताभिश्च समातृगणनायकैः ॥२७॥
निपातिता महोघोरा ये ते प्रलयदानवाः
शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः ॥२८॥
यष्टिपरिघकुंतैश्च पातयंत्यसुरान्सुराः
एवं संक्षीयमाणेषु दैत्यराट्समपद्यत ॥२९॥
आदित्यरथसंकाशं रथरत्नविभूषितम्
शातकुंभमयं दिव्यं घंटाचामरभूषितम् ॥३०॥
पताकाध्वजसंपूर्णं रम्यं शक्ररथोपमम्
समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः ॥३१॥
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः
ससैन्यानि गजान्वीरो रथांश्च सह सैंधवान् ॥३२॥
पातयामास भूमौ च शतशोथ सहस्रशः
एवं चरन्स वृंदेषु निखिलेषु दिवौकसाम् ॥३३॥
पातयामास दैत्येंद्रः शरौघान्मृत्युसन्निभान्
क्रमेण समरे चाथ देवसैन्यान्यमंथत ॥३४॥
यथा पुष्करिणीवृंदे गजः कंजवनं शितैः
शरपातैरथो वेगात्सिंहनादैः पुनः पुनः ॥३५॥
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च
दशभिश्च सुतीक्ष्णाग्रैर्जयंतं स जघान ह ॥३६॥
रेमंतं पंचभिर्बाणैः शक्रं पंचदशेन तु
चित्ररथं विंशतिभिःपंचविंशतिभिर्गुहम् ॥३७॥
हेरंबं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्
तथैव कालं मृत्युं च पाणिना द्विगुणेन च ॥३८॥
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः
षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक् ॥३९॥
वसून्सर्वांश्च सशरैः सिद्धगंधर्वपन्नगान्
दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ ॥४०॥
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्
आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः ॥४१॥
महेशशूलसंकाशैः शरैर्मर्मविभेदिभिः
ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः ॥४२॥
तस्यैव संमुखे स्थातुं न शेकुः प्रवरास्सुराः
ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः ॥४३॥
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः
एतस्मिन्नंतरे विष्णुः प्राह जिष्णुं खगेश्वरम् ॥४४॥
अधुना गच्छ दैत्यस्य संमुखं रणमूर्धनि
नाशाय सततस्तूर्णं गतस्तस्यांतिकं जवात् ॥४५॥
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्
रथस्य संमुखे दैत्य उवाच विष्णुमव्ययम् ॥४६॥
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्
ततो विष्णुरुवाचेदं गर्जंतं दैत्यपुंगवम् ॥४७॥
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव
ततः शरशतैरेव जघान विष्णुमव्ययम् ॥४८॥
असंभ्रांतः स चिच्छेद यमदंडनिभान्शरान्
पुनः शरसहस्राणि प्रेरयामास तं रणे ॥४९॥
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः
प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः ॥५०॥
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः
लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः ॥५१॥
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुंगवः
बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे ॥५२॥
जघान माधवं वेगाद्धिरण्याक्षो महाबलः
तं च संचूर्णयामास गदया लीलया हरिः ॥५३॥
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि
तथैव लाघवाच्चूर्णं हरिणा दानवारिणा ॥५४॥
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः
शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः ॥५५॥
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा
तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः ॥५६॥
शरैर्दीप्तैर्महाघोरैरसुराणां भयंकरैः
विव्याध सर्वगात्रेषु शंभुशूलोपमैश्शरैः ॥५७॥
दानवाधिपतिः संख्ये ह्यव्ययो हरिरीश्वरः
स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम् ॥५८॥
कालजिह्वोपमां घोरामष्टघंटासमन्विताम्
हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम् ॥५९॥
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्
ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः ॥६०॥
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्
तेषां शिरांसि संच्छिद्य माधवं पुनरागमत् ॥६१॥
स दैत्यं शक्तिपातेन पातयामास वै रणे
चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम् ॥६२॥
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्
ततो मुमोच मायास्त्रं चासुरं चातिदारुणम् ॥६३॥
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्
जघान समरे विष्णुं हिरण्याक्षः प्रतापवान् ॥६४॥
ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः
प्रचिच्छेद शरैरेव शूलेनैवमताडयत् ॥६५॥
स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः
विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः ॥६६॥
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः
वरूथं सध्वजं केतुं रथं चैवातपत्रकम् ॥६७॥
यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः
पातिते च रथे दैत्यः संप्लुत्याथ रथं परम् ॥६८॥
आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली
ततो युद्धं महाघोरमभवल्लोमहर्षणम् ॥६९॥
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्
अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत् ॥७०॥
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्
ततो दैत्यो महासत्वो ववृधे वामनो यथा ॥७१॥
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्
भूमंडलं समुद्धृत्य विवेश च रसातलम् ॥७२॥
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः
ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत् ॥७३॥
दधार रूपं वाराहं दैत्यराजजिघांसया
धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम् ॥७४॥
तत्र गत्वा रसामूले रसातलगतां महीम्
दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुंधराम् ॥७५॥
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः
समाजगाम दैत्येंद्रो धृष्टं वाग्भिस्तुदन्ननु ॥७६॥
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा
जलोपरि दधारेमां धरां भूधर एव च ॥७७॥
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्
ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः ॥७८॥
क्रोधेन महताविष्टो जघान गदया हरिम्
मायया सूकरो विष्णुस्तां गदां समवंचयत् ॥७९॥
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्
ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः ॥८०॥
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः
एवं युद्धं महाघोरं सव्यासव्यं गतागतम् ॥८१॥
परिभ्रमणविक्षेपं कृतानुकरणं तथा
ततो ब्रह्मादयो देवा युद्धं पश्यंति खे स्थिताः ॥८२॥
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्
ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम् ॥८३॥
मा क्रीड बालवद्देव जह्यमुं देवकंटकम्
ततो विष्णुर्महातेजा मायावाराहरूपधृत् ॥८४॥
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्
सहस्रसूर्यसंकाशं सहस्रारं महाप्रभम् ॥८५॥
दैत्यांतकरणं रौद्रं प्रलयाग्निसमप्रभम्
तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम् ॥८६॥
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्
दैत्यांतकरणं रौद्रं चक्रं चागमदच्युतम् ॥८७॥
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः
दृष्ट्वा च विजयं विष्णोः स्तुवंति स्म समागताः ॥८८॥
देवा ऊचुः -
नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः ॥८९॥
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः ॥९०॥
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने ॥९१॥
म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय ॥९२॥
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार ॥९३॥
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव ॥९४॥
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले ॥९५॥
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम् ॥९६॥
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम् ॥९७॥
ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम् ॥९८॥
व्यास उवाच -
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम् ॥९९॥
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन ॥१००॥
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः ॥१०१॥
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्
अतः परं महाज्ञानं न भूतं न भविष्यति ॥१०२॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP