सृष्टिखण्डः - अध्यायः २७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
तटाकारामकूपेषु वापीषु नलिनीषु च
विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च ॥१॥
के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत्
दक्षिणाबलयः कालः स्थानमाचार्य एव च ॥२॥
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत
पुलस्त्य उवाच
शृणु राजन्महाबाहो तटाकादिषु यो विधिः ॥३॥
पुराणेष्वितिहासोयं पठ्यते राजसत्तम
प्राप्य पक्षं शुभं शुक्लं संप्राप्ते चोत्तरायणे ॥४॥
पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम्
अशुभैर्वर्जिते देशे तटाकस्य समीपतः ॥५॥
चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम्
तथा षोडशहस्तः स्यान्मंडपश्च चतुर्मुखः ॥६॥
वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः
नव सप्ताथ वा पंच ऋजुवक्त्रा नृपात्मज ॥७॥
वितस्तिमात्रा योनिः स्यात्षट्सप्तांगुलि विस्तृता
गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः ॥८॥
सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः
अश्वत्थोदुंबरप्लक्षवटशाखाकृतानि तु ॥९॥
मंडपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्
शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै ॥१०॥
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः
सर्वलक्षणसंपूर्णान्मंत्रज्ञान्विजितेंद्रियान् ॥११॥
कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान्
प्रतिगर्तेषु कलशा यज्ञोपकरणानि च ॥१२॥
व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्
ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम् ॥१३॥
आचार्यः प्रक्षिपेद्भूमावनुमंत्र्य विचक्षणः
अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः ॥१४॥
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता
हेमालंकारिणः कार्याः पंचविंशति ऋत्विजः ॥१५॥
कुंडलानि च हैमानि केयूरकटकानि च
तथांगुलिपवित्राणि वासांसि विविधानि च ॥१६॥
दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम्
दद्याच्छय(प)नसंयुक्तमात्मनश्चापि यत्प्रियम् ॥१७॥
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ
ताम्रौ कुंभीरमंडूका वायसः शिंशुमारकः ॥१८॥
एवमासाद्य तत्सर्वमादावेव विशांपते
शुक्लमाल्याम्बरधरः शुक्लंगंधानुलेपनः ॥१९॥
सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ॥२०॥
पश्चिमद्वारमासाद्य प्रविशेद्यागमंडपम्
ततो मंगलशब्देन भेरीणां निःस्वनेन च ॥२१॥
रजसा मंडलं कुर्यात्पंचवर्णेन तत्त्ववित्
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् ॥२२॥
चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम्
वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः ॥२३॥
संन्यसेन्मंत्रतः सर्वान्प्रतिदिक्षु विचक्षणः
कलशं स्थापयेन्मध्ये वारुणं मंत्रमाश्रितम् ॥२४॥
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः
विनायकं च विन्यस्य कमलामंबिकां तथा ॥२५॥
शांत्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् ॥२६॥
कुंभांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत्
पुष्पगंधैरलंकृत्य द्वारपालान्समंततः ॥२७॥
यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ॥२८॥
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ॥२९॥
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्
उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान् ॥३०॥
एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित्
जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा ॥३१॥
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः
ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च ॥३२॥
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे
शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम् ॥३३॥
जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्
शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम् ॥३४॥
सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः
वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम् ॥३५॥
शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च
वामदेव्यं बृहत्साम रौरवं च रथंतरम् ॥३६॥
गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा
गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः ॥३७॥
आथर्वणाश्चोत्तरतः शांतिकं पौष्टिकं तथा
जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम् ॥३८॥
पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम्
गजाश्वरथवल्मीक संगमाद्व्रजगोकुलात् ॥३९॥
मृदमादाय कुंभेषु प्रक्षिपेदोषधीस्तथा
रोचनां च ससिद्धार्थां गंधान्गुग्गुलुमेव च ॥४०॥
स्नापनं तस्य कर्त्तव्यं पंचगव्यसमन्वितं
पूर्वं कर्तुर्महामंत्रैरेवं कृत्वा विधानतः ॥४१॥
अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा
ततः प्रभाते विमले संजाते तु शतं गवां ॥४२॥
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः
पंचाशद्वाथ षट्त्रिंशत्पंचविंशति वा पुनः ॥४३॥
ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने
वेदशब्दैः सगंधर्वैर्वाद्यैश्च विविधैः पुनः ॥४४॥
कनकालंकृतां कृत्वा जले गामवतारयेत्
सामगाय च सा देया ब्राह्मणाय विशांपते ॥४५॥
पात्रीमादाय सौवर्णी पंचरत्नसमन्विताम्
ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः ॥४६॥
धृतां चतुर्भिर्विप्रैश्च वेदवेदांगपारगैः
महानदीजलोपेतां दध्यक्षतविभूषिताम् ॥४७॥
उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्
आथर्वणेन सुस्नातां पुनर्मायां तथैव च ॥४८॥
आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं
पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः ॥४९॥
पुनर्दिनानि होतव्यं चत्वारि राजसत्तम
चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः ॥५०॥
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च
ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः ॥५१॥
हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्
ततः सहस्रं विप्राणामथवाऽष्टशतं तथा ॥५२॥
भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः
एवमेष पुराणेषु तटाकविधिरुच्यते ॥५३॥
कूपवापीषु सर्वासु तथा पुष्करिणीषु च
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥५४॥
मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु
अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा ॥५५॥
स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः
प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम् ॥५६॥
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्
वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम् ॥५७॥
अश्वमेधसमं प्राहुर्वसंतसमये स्थितम्
ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते ॥५८॥
एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः
स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च ॥५९॥
अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः
सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः ॥६०॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे तटाकप्रतिष्ठाविधिर्नाम सप्तविंशोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP