संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ३२

सृष्टिखण्डः - अध्यायः ३२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच
केन कर्मविपाकेन प्रेतत्वं जायते पुनः
केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते ॥१॥
पुलस्त्य उवाच
अहं ते कथयिष्यामि सर्वमेतदशेषतः
यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम ॥२॥
येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते
प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि ॥३॥
सतां संभाषणे चैव पुण्यतीर्थानुकीर्त्तने
मानवास्तु प्रमुच्यंत आपन्नाः प्रेतयोनिषु ॥४॥
श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः
पृथुस्सर्वत्र विख्यातः संतोषे च सदा स्थितः ॥५॥
स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित्
जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः ॥६॥
युक्तः क्षमादयाभ्यां च क्षांत्यायुक्तश्च तत्त्ववित्
अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः ॥७॥
ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः
युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु ॥८॥
परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति
युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने ॥९॥
इष्टापूर्तसमायुक्तो युक्तो द्वंद्वविवर्जने
स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु ॥१०॥
एवं कर्माणि कुर्वंतस्संसारविजिगीषया
बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः ॥११॥
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति
पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम् ॥१२॥
प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति
कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत ॥१३॥
अग्रतः पंचपुरुषानपश्यत्सोति भीषणान्
वने कंटकवृक्षाढ्ये निर्जने पक्षिवर्जिते ॥१४॥
तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान्
ईषत्संत्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः ॥१५॥
अवलंब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः
पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः ॥१६॥
किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम्
कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि ॥१७
प्रेता ऊचुः
क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः
हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः ॥१८॥
न जानीमो दिशं चापि प्रदिशं चापि कां च न
नांतरिक्षं महीं चापि न जानीमो दिवं तथा ॥१९॥
यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत्
प्रभातमिदमाभाति भास्करोदयदर्शनात् ॥२०॥
अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः
शीघ्रगो रोहकश्चैव पंचमो लेखकस्तथा ॥२१॥
ब्राह्मण उवाच
प्रेतानां कर्मजातानां नाम्ना वै संभवः कुतः
किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः ॥२२॥
प्रेता ऊचुः
अहं स्वादु सदा भुंजे दद्यां पर्युषितं द्विजे
एतत्कारणमासाद्य नाम पर्युषितो मम ॥२३॥
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकांक्षिणः
एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः ॥२४॥
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम ॥२५॥
गृहोपरि सदा स्वादु भुंक्ते द्विजभयेन हि
उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः ॥२६॥
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्
अस्माकमपि पापिष्ठो लेखको नाम नामतः ॥२७॥
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः
शीघ्रगः पंगुतां प्राप्तः सूची सूचीमुखोऽभवत् ॥२८॥
पर्युषितो लम्बग्रीवो लंबोदर उदाहृतः
बृहद्वृषणलंबोष्ठः पापादस्मादजायत ॥२९॥
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्
पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे ॥३०॥
ब्राह्मण उवाच
ये जीवा भुवि तिष्ठंति सर्वेप्याहारमूलकाः
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः ॥३१॥
प्रेता ऊचुः
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्
यच्छ्रुत्वा निंदसे विप्र भूयोभूयश्च नित्यशः ॥३२॥
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च
गृहाणि त्यक्तशौचानि प्रेता भुंजंति तत्र वै ॥३३॥
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च
मलेनापि जुगुप्स्यानि प्रेता भुंजंति तत्र वै ॥३४॥
चित्तलज्जाविहीनानि होमहीनानि यानि च
व्रतैश्चैव विहीनानि प्रेता भुंजंति तत्र वै ॥३५॥
गुरवो नैव पूज्यंते स्त्रीजितानि गृहाणि च
क्रोधलोभगृहीतानि प्रेता भुंजंति तत्र वै ॥३६॥
त्रपा मे जायते तात कथ्यमाने स्वभोजने
अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते ॥३७॥
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत
यथा न भवति प्रेतस्तन्मे वद तपोधन ॥३८॥
ब्राह्मण उवाच
एकरात्र द्विरात्रादि कृच्छ्रचांद्रायणदिभिः
व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः ॥३९॥
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते
स वै भूतदयापन्नो न प्रेतो जायते नरः ॥४०॥
तुल्यो मानेऽपमाने च तुल्यः कांचनलोष्टयोः
तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः ॥४१॥
देवताऽतिथिपूजासु गुरुपूजासु नित्यशः
रतो वै पितृपूजासु न प्रेतो जायते नरः ॥४२॥
शुक्लांगारकसंयुक्ता चतुर्थी जायते यदा
श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः ॥४३॥
जितक्रोधविमर्शोयस्तृष्णासंगविवर्जितः
क्षमावान्दानशीलश्च न प्रेतो जायते नरः ॥४४॥
गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा
देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः ॥४५॥
प्रेता ऊचुः
श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने
येन वै जायते प्रेतस्तन्नो वद महामते ॥४६॥
ब्राह्मण उवाच
शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः
म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः ॥४७॥
मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च
अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः ॥४८॥
अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात्
रतो वै शूद्रसेवासु स प्रेतो जायते नरः ॥४९॥
न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा
विस्रंभघाती कूटस्थः स प्रेतो जायते नरः ॥५०॥
ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः
भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः ॥५१॥
सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति
नास्तिकीभावनिरतः स वै प्रेतोभिजायते ॥५२॥
एवं ब्रुवाणे विप्रेन्द्र आकाशे दुंदुभिस्वनः
पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः ॥५३॥
प्रेतानां तु विमानानि आगतानि समंततः
अस्य विप्रस्य संभाषात्पुण्यसंकीर्तनेन च ॥५४॥
तस्मात्सर्वप्रयत्नेन सतां संभाषणं कुरु
यदि ते श्रेयसा कार्यं गंगासुत अतंद्रितः ॥५५॥
तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम्
पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः ॥५६॥
शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः
भक्त्या समन्वितो वापि न प्रेतो जायते नरः ॥५७॥
भीष्म उवाच
अंतरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते
मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह ॥५८॥
येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम्
तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः ॥५९॥
पुलस्त्य उवाच
ऋषिकोटिस्समायाता दक्षिणापथवासिनी
स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम् ॥६०॥
मत्वाते मुनयः सर्वे प्राणायामपरायणाः
ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान् ॥६१॥
ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः
ऋषयोंतर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान् ॥६२॥
आकारणं पुष्करस्य मंत्रेण क्रियतां द्विजाः
आपोहिष्ठेति तिसृभिर्ऋग्भिः सांनिध्यमेष्यति ॥६३॥
अघमर्षणजप्येन भवेद्वै फलदायकम्
विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम् ॥६४॥
कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः
गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः ॥६५॥
ये चान्ये पार्वतीयाश्च श्राद्धेनार्हंति केतनम्
एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम् ॥६६॥
कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति
ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम् ॥६७॥
तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः
द्विजैस्तुल्या न संदेहो विना मंत्रेण ते नृप ॥६८॥
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्
महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा ॥६९॥
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित्
तिथिः सापि महापुण्या यतिभिः परिकीर्तिता ॥७०॥
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप
सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा ॥७१॥
यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु
त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा ॥७२॥
अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम्
दानमक्षयतां याति पितॄणां तर्पणं तथा ॥७३॥
विशाखासु यदा भानुः कृत्तिकासु च चंद्रमाः
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः ॥७४॥
अंतरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे
स्नानं येऽत्र करिष्यंति तेषां लोका महोदयाः ॥७५॥
न स्पृहांतेन्यपुण्यस्य कृतस्याप्यकृतस्य च
करिष्यंति महाराज सत्यमेतदुदाहृतम् ॥७६॥
तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते
नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते ॥७७॥
कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा
उदुंबरवनात्तस्मादागता च सरस्वती ॥७८॥
तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम्
दक्षिणे शिखरं भाति पर्वतस्याविदूरतः ॥७९॥
नीलांजनचयप्रख्यं वर्णतो नीलशाद्वलम्
तया तच्छिखरं तस्य खस्थितं पुष्करं यथा ॥८०॥
प्रावृट्काले वियत्पूर्णं घनवृंदमिवोच्छ्रितम्
कदंबपुष्पगंधाढ्यं कुटजार्जुनभूषितम् ॥८१॥
रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम्
वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः ॥८२॥
श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः
गुंजद्भिः षट्पदकुलैः समंतादुपशोभितम् ॥८३॥
कोकिलारावरुचिरं शिखि केका रवाकुलम्
शृंगे मनोहरे तस्मिन्नुद्गतासु मनोरमा ॥८४॥
पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता
वंशस्तंबात्सुविपुला प्रवृत्ता चोत्तरामुखी ॥८५॥
गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी
ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता ॥८६॥
अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया
कनका सुप्रभा चैव नन्दा प्राची सरस्वती ॥८७॥
पंचस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता
तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च ॥८८॥
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः
तेषु सर्वेषु भविता धर्महेतुः सरस्वती ॥८९॥
हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम्
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम् ॥९०॥
धान्यप्रदानं प्रवरं वदंति तिलप्रदानं च तथा मुनींद्राः
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम् ॥९१॥
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा
तीर्थेपि संयोज्य मनोपि चेत्थं भुंक्ते फलं ब्रह्मगृहे यथेष्टम् ॥९२॥
तस्योपकंठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजंगमैश्च
ते चापि सर्वे सकलं प्रसह्य लभंति यज्ञस्य फलं दुरापम् ॥९३॥
ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु
सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी ॥९४॥
तत्र ये सलिलं पूतं पिबंति सततं नराः
न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः ॥९५॥
यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः
तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः ॥९६॥
दर्शनात्पुष्करस्यापि महापातकिनोपि ये
तेपि तत्पापनिर्मुक्ताः स्वर्गं यांति तनुक्षये ॥९७॥
तत्रोपवासी यज्ञस्य पुंडरीकस्य यत्फलम्
तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे ॥९८॥
माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे
यथाशक्ति च भक्त्या च स विष्णुभवने वसेत् ॥९९॥
तत्रोपवासं स्नानं च पंचगव्याशनं तथा
यः करोति नरः सोपि देहांते स्वर्गमाप्नुयात् ॥१००
वसंति तत्समीपस्था येपि तस्करजातयः
तेपि तस्यानुभावेन स्वर्यांति च न संशयः ॥१०१॥
ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषिता नराः
प्रयच्छंति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः ॥१०२॥
ते मृता यानमारूढाः पद्मासनचतुर्भुजाः
ब्रह्मणा सह सायुज्यं प्राप्नुवंत्यपुनर्भवम् ॥१०३॥
गंगोद्भेदं यत्र गंगा संप्राप्ता सरितां वराम्
सरस्वतीं द्रष्टुकामा सांत्वार्थे प्रोद्गतांऽबरात् ॥१०४॥
तत्र गत्वा पयःपूतं सुरसिद्धनिषेवितम्
सारस्वतं च विमलं विद्याधरगणार्चितम् ॥१०५॥
पीतमेकांजलिमितं येनाप्तं तेन तत्परं
अवलोक्य दिशं पूर्वामाह गंगे सखि त्वया ॥१०६॥
एकाकिनी वियुक्तास्मि क्व यास्येहमबांधवा
तां विज्ञाय ततो गंगा रुदंतीं शोककर्शिताम् ॥१०७॥
पूर्वदेशात्समायाता द्रष्टुं तां दीनमानसाम्
दृष्ट्वा च तां महाभागां परिष्वज्य तु पीडिताम् ॥१०८॥
नेत्रे प्रमृज्य चैतस्याः प्राह गंगा वचस्तदा
मा रोदीस्त्वं महाभागे दुःष्करं ते कृतं सखि ॥१०९॥
देवकार्यं यदन्येन कर्तुं शक्येत नैव हि
एतस्मात्ते महाभागे द्रष्टुं देवाः समागताः ॥११०॥
एषां च क्रियतां पूजा वाङ्मनः काय कर्मणा
सरस्वती सुरेंद्राणां कृत्त्वा पूजा विधिक्रमम् ॥१११॥
क्रमेण ब्रह्मजा पश्चात्संगता तु सखीजनम्
ज्येष्ठमध्यमयोर्मध्ये संगमो लोकविश्रुतः ॥११२॥
पश्चान्मुखी ब्रह्मसुता जाह्नवी तु उदङ्मुखी
ततस्ते विबुधाः सर्वे पुष्करं ये समागताः ॥११३॥
विदित्वा दुष्करं कर्म तस्या स्तुतिमकारयन्
त्वं बुद्धिस्त्वं मतिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा ॥११४॥
त्वं श्रद्धा त्त्वं परा निष्ठा बुद्धिर्मेधा रतिः क्षमा
त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत् ॥११५॥
संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
यज्ञ विद्या महाविद्या गुह्यविद्या च शोभना ॥११६॥
आन्वीक्षिकी तु या वार्ता दंडनीतिश्च कथ्यते
नमोस्तु ते पुण्यजले नमः सागरगामिनि ॥११७॥
नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये
एवं स्तुता हि सा देवी दिव्या स्वार्थपरायणैः ॥११८॥
एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती
सर्वतीर्थमयी देवी सर्वामरसमन्विता ॥११९॥
प्राची सेति बुधैर्ज्ञेया ब्रह्मणो वचनं तथा
तत्र शुद्धावटंनाम तीर्थं पैतामहं स्मृतम् ॥१२०॥
दर्शनेनापि वै तस्य महापातकिनोपि ये
भोगिभोगान्समश्नंति विशुद्धा ब्रह्मणोंतिके ॥१२१॥
प्रायोपवेशं ये तत्र प्रकुर्वंति नरोत्तमाः
ते मृता ब्रह्मयानेन दिवं यांत्यकुतोभयाः ॥१२२॥
तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनाम्
जन्मांतरशतं तेषां तैर्दत्तं भावितात्मनाम् ॥१२३॥
खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः
ते ब्रह्मलोकमासाद्य मोदन्ते सुखिनस्सदा ॥१२४॥
योऽत्र पूजाजपोहोमः कृतो भवति देहिनाम्
अनन्तं तत्फलं सर्वं ब्रह्मभक्तिरतात्मनाम् ॥१२५॥
तत्र दीपप्रदानेन ज्ञानचक्षुरतींद्रियः
प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम् ॥१२६॥
अथ किं बहुनोक्तेन संगमे यत्प्रदीयते
तदनंतफलं प्रोक्तं जीवतो वा मृतस्य च ॥१२७॥
स्नानाज्जपात्तथा होमादनंतफलसाधकम्
रामेणागत्य वै तत्र पिंडं दशरथस्य च ॥१२८॥
दत्तं श्राद्धं तत्र तेन मार्कंडेयेन दर्शिते
तत्र वापी चतुःकोणा तत्र पिंडप्रदा नराः ॥१२९॥
हंसयुक्तेन यानेन सर्वे यांति त्रिविष्टपम्
तस्यां वाप्यां तु वै ब्रह्मा पितृमेधं चकार ह ॥१३०॥
यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणम्
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः ॥१३१॥
आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः
त्रिविधा अपि आहूय पुनरुक्ता विरिंचिना ॥१३२॥
भवद्भिः पिंडदानाद्यं ग्राह्यमत्र स्थितैस्सदा
यत्कृतं पितृकार्यं च तदनंतफलं भवेत् ॥१३३॥
वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः
लभंते तर्पणात्तृप्तिं पिंडदानात्त्रिविष्टपम् ॥१३४॥
तस्मात्सर्वं परित्यज्य प्राचीने पिंडदो भवेत्
दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत् ॥१३५॥
प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम्
आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम् ॥१३६॥
स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबंधनात्
अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा ॥१३७॥
आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना
अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात् ॥१३८॥
यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम्
कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी ॥१३९॥
प्राचीसरस्वती तत्र नरैः किं मृग्यते परम्
तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम् ॥१४०॥
ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम्
न ते नराः सुरा ज्ञेया मार्कंडेयर्षिरब्रवीत् ॥१४१॥
सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित्
भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि ॥१४२॥
तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत्
पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम् ॥१४३॥
ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम्
पूजयन्ति यथाशक्ति ते प्रयांति त्रिविष्टपम् ॥१४४॥
देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती
सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत् ॥१४५॥
ततस्तस्मान्महातीर्थं मन्यमाना महोदयम्
मंदाकिनीमुदीक्षंती स्थिता तत्र सरस्वती ॥१४६॥
तत्तीर्थं सर्वतीर्थानां परं स्वायंभुवोऽब्रवीत्
मंदाकिन्यासमं यत्र प्राप्य पुण्यसमागमम् ॥१४७॥
तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती
मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां ॥१४८॥
सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम्
हरिणीं हरिरप्याशु जज्ञे कमललोचनाम् ॥१४९॥
वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान्
सुकुरंगरुचिं देवो नीलकंठो वृषध्वजः1.32. ॥१५०॥
सखीं संजनयामास सरस्वत्यास्त्रिलोचनः
विलोक्यमाना सा राजन्सखीभिः सुरसुंदरी ॥१५१॥
प्रहृष्टा यातुमारब्धा देवादेशान्महानदी
ततः सखीभिः सार्द्धं सा प्राचीनागंतुमुद्यता ॥१५२॥
सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता
प्राचीसरस्वतीतोयं ये पिबंति मृगा भुवि ॥१५३॥
तेपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा
चिंतामणिरिवात्रैषा प्राची ज्ञेया सरस्वती ॥१५४॥
तथा कामफलस्येयं हेतुभूता महानदी
दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता ॥१५५॥
उक्ता तया तथा गंगा दिशं प्राचीं व्रजस्व ह
विस्मर्तव्या न चाहं ते व्रज देवि यथागतम् ॥१५६॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे तीर्थावतारोनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP