सृष्टिखण्डः - अध्यायः २३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
वैष्णवा ये तु वै धर्मा यान्रुद्रः प्रोक्तवानिह
तान्मे कथय विप्रेंद्र कीदृशास्ते फलं तु किम् ॥१॥
पुलस्त्य उवाच
पुरा रथंतरे कल्पे परिपृष्टो महात्मना
मंदरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥२॥
कथमारोग्यमैश्वर्यमनंतममरेश्वर
अल्पेन तपसा देव भवेन्मोक्षः सदा नृणां ॥३॥
किं तज्ज्ञानं महादेव त्वत्प्रसादादधोक्षज
अल्पकेनापि तपसा महाफलमिहोच्यते ॥४॥
इति पृष्टस्स विश्वात्मा ब्रह्मणा लोकभावनः
उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥५॥
ईश्वर उवाच
अस्माद्रथंतरात्कल्पाद्भूयो विंशतिमो यदा
वाराहो भविता कल्पस्तदा मन्वंतरे शुभे ॥६॥
वैवस्वताख्ये संप्राप्ते सप्तमे सप्तलोकधृक्
द्वापराख्यं युगं तस्मिन्सप्तविंशतिमं यदा ॥७॥
तस्यां ते तु महातेजा वासुदेवो जनार्दनः
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥८॥
द्वैपायन ऋषिस्तत्र रौहिणेयोथ केशवः
कंसारिः केशिमथनः केशवः क्लेशनाशनः ॥९॥
पुरीं द्वारवतीं नाम सांप्रतं या कुशस्थली
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः ॥१०॥
त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायां सोऽमितद्युतिः ॥११॥
भार्याभिर्वृष्णिविद्वद्भिभूरिभिर्भूरिदक्षिणैः
कुरुभिर्देवगंधर्वैरन्वितः कैटभार्दनः ॥१२॥
प्रवृत्तासु पुराणासु धर्मसंबधधिनीषु च
कथासु भीमसेनेन परिपृष्टः प्रतापवान् ॥१३॥
त्वया पृष्टस्य धर्मस्य वक्ष्यत्यस्य च भेददृक्
भविता स तदा ब्रह्मन्कर्ता चैव वृकोदरः ॥१४॥
प्रवर्तकोऽस्य धर्मस्य पांडुसूनुर्महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः ॥१५॥
संभाष्यते स धर्मात्मा तेन चासौ वृकोदरः
अतीव स्वादशीलश्च नागायुत बलो महान् ॥१६॥
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे
इदं व्रतमशेषाणां व्रतानामधिकं यतः ॥१७॥
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः
अशेषयज्ञफलदमशेषाघविनाशनम् ॥१८॥
अशेषदुष्टशमनमशेषसुरपूजितम्
पवित्राणां पवित्रं यन्मगलानां च मंगलम्
भविष्यं च भविष्याणां पुराणानां पुरातनम् ॥१९॥
वासुदेव उवाच
यद्यष्टमी चतुर्द्दश्योर्द्वादशीषु च भारत
अन्येष्वपि दिनर्क्षेषु नशक्तस्त्वमुपोषितुम् ॥२०॥
ततस्त्वग्र्यामिमां भीम तिथिं पापप्रणाशिनीम्
उपोष्य विधिनानेन गच्छ विष्णोः परं पदं ॥२१॥
माघमासस्य दशमी यदा शुक्ला भवेत्तदा
घृतेनाभ्यंजनं कृत्वा तिलैः स्नानं समाचरेत् ॥२२॥
तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च
कृष्णाय पादौ संपूज्य शिरः कृष्णात्मनेति च ॥२३॥
वैकुंठायेति वैकंठमुरः श्रीवत्सधारिणे
शंखिने गदिने चैव चक्रिणे वरदाय वै ॥२४॥
सर्वं नारायणन्त्वेवं संपूज्यावाहनक्रमात्
दामोदरायेत्युदरं कटिं पंचजनाय वै ॥२५॥
ऊरूसौभाग्यनाथाय जानुनी भूतधारिणे
नमो नीलाय वै जंघे पादौ विश्वभुजे पुनः ॥२६
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रियै
नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः ॥२७॥
नमो विहंगनाथाय वायुवेगाय पक्षिणे
विषप्रमथनायेति गरुडं चाभिपूजयेत् ॥२८॥
एवं संपूज्य गोविंदमुमापतिविनायकौ
गंधैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि ॥२९॥
गव्येन पयसा सिक्तां कृसरामथ पायसम्
सर्पिषा सह भुक्त्वा तु गत्वा स्थानांतरं पुनः ॥३०॥
नैयग्रोधं दंतकाष्ठमथवा खादिरं बुधः
गृहीत्वा धावयेद्दंतानाचांतः प्रागुदङ्मुखः ॥३१॥
ब्रूयात्सायंतनीं कृत्वा संध्यामस्तमिते रवौ
नमो नारायणायेति त्वामहं शरणं गतः ॥३२॥
एकादश्यां निराहारः समभ्यर्च्य च केशवम्
तां रात्रिं सकलां स्थित्वा शेषपर्यंकशायिनम् ॥३३॥
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुंगवैः
सहैव पुंडरीकाक्षं द्वादश्यां क्षीरभोजनम् ॥३४॥
करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे
एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः ॥३५॥
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशांपते
स्नानं कृत्वा मुदा तद्वत्पाषण्डानभिवर्जयेत् ॥३६॥
उपास्य सन्ध्यां विधिवत्कृत्वा च पितृतर्पणम्
प्रणम्य च हृषीकेशं शेषपर्यङ्कशायिनम् ॥३७॥
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः
चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन ॥३८॥
चतुर्हस्तप्रमाणं तु विन्यसेत्तत्र तोरणम्
मध्ये च कलशं तत्र माषमात्रेण संयुतम् ॥३९॥
छिद्रेण जलसंपूर्णमधः कृष्णाजिने स्थितः
तस्य धारां च शिरसा धारयेत्सकलां निशाम् ॥४०॥
धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः
यस्मात्तस्मात्कुरुश्रेष्ठ कारयेत्प्रयतो द्विजः ॥४१॥
दक्षिणे चार्धचंद्रं तु पश्चिमे वर्तुलं तथा
अश्वत्थपत्राकारं च उत्तरेण तु कारयेत् ॥४२॥
मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः
पूर्वतो वेदिकां स्थो न स्थो न याम्ये च कल्पयेत् ॥४३॥
पानीयधारां शिरसि धारयेद्विष्णुतत्परः
द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकम् ॥४४॥
तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमम्
हस्तमात्रं च तत्कुंडं कृत्वा तत्र त्रिमेखलम् ॥४५॥
योनिवक्त्रं ततस्तस्मिन्ब्राह्मणैर्यवसर्पिषी
तिलांश्च विष्णुदेवत्यैर्मंत्रैरेवानले हुनेत् ॥४६॥
कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेत्
आज्यधारा मध्यमे तु कुंडे दद्यात्तु यत्नतः ॥४७॥
क्षीरधारां देवदेवे वारिधारात्मनोपरि
निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत् ॥४८॥
स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं
जलकुंभान्महावीर्य स्थापयित्वा त्रयोदश ॥४९॥
भक्ष्यैर्नानाविधैर्युक्तान्सितवस्त्रैरलंकृतान्
प्रतानौदुंबरैः पात्रैः पंचरत्नसमन्वितैः ॥५०॥
चतुर्भिर्बह्वृचैर्होमः कार्यस्तत्र उदङ्मुखैः
रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः ॥५१॥
वैष्णवानि च सामानि चतुर्भिः सामवेदिभिः
एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः ॥५२॥
पूजयेदंगुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः ॥५३॥
एवं क्षपातिवाह्या वै गीतमङ्गलनिःस्वनैः
उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु ॥५४॥
ततः प्रभाते विमले समुत्थाय त्रयोदश
गावो देयाः कुरुश्रेष्ठ सौवर्णशृंगसंवृताः ॥५५
पयस्विन्यः शीलवत्यः कांस्यदोहसमन्विताः
रौप्यखुराः सवत्साश्च चंदनेनाभिभूषिताः ॥५६॥
तास्तु तेषां ततो दत्वा भक्ष्यभोज्येन तर्पितान्
कृत्वा वै ब्राह्मणान्सर्वान्छत्रैर्नानाविधैस्तथा ॥५७॥
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः ॥५८॥
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
एवं गुर्वाज्ञया कुंभान्गाश्चैव शयनानि च ॥५९॥
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानामेकामपि सुसंस्कृताम् ॥६०॥
शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वा तु वाहयेत् ॥६१॥
तद्दिनं कुरुशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालंब्य भीमसेन विमत्सरः ॥६२॥
कुरु व्रतमिदं सम्यक्स्नेहाद्गुह्यं मयोदितम्
त्वया कृतमिदं वीर त्वन्नाम्ना च भविष्यति ॥६३॥
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा
या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ॥६४॥
त्वं चादिकर्ता भव सौकरेस्मिन्कल्पे महावीर वरप्रधान
यस्याः स्मृतेः कीर्तनतोप्यशेषं पापं प्रणष्टं त्रिदशाधिपस्य ॥६५॥
दृष्ट्वा च तामप्सरसामभीष्टां वेश्याकृतामन्यभवांतरेषु
जाताथ सा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी ॥६६॥
तत्रापि तस्याः परिचारिकेयं मम प्रिया संप्रति सत्यभामा
कृतं पुरा मंगलमेतदेव द्विजात्मजा वेदवती बभूव ॥६७॥
अस्यां च कल्याणतिथौ विवस्वान्सहस्रधारेण सहस्ररश्मिः
स्नातः पुरा मंडलमेत्य तद्वत्तेजोमयं खेटपतिर्बभूव ॥६८॥
इदमेवकृतं महेंद्रमुख्यैर्बहुभिर्देवसुरारिकोटिभिश्च
फलमस्येह न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥६९॥
कलिकलुषविदारिणीमनंतामपि कथयिष्यति यादवेंद्रसूनुः
अथ नरकगतान्पितॄनथैषा ह्यलमुद्धर्तुमिहैव यः करोति ॥७०॥
इदमनघशृणोति वक्ति भक्त्या परिपठतीह परोपकारहेतोः
इह पंकजनाभभक्तिमान्भवेदथ शक्रस्य सपूज्यतामुपैति ॥७१॥
कल्याणिनी नाम पुरा विसर्गे या द्वादशी माघसितेभिपूज्या
सा पांडुपुत्रेण कृता भविष्यत्यंनतपुण्यानघभीमपूर्वा ॥७२
ब्रह्मोवाच
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः
सदाचारश्च भगवान्धर्मशास्त्रांगविस्तरैः ॥७३॥
पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्वतः
ईश्वर उवाच
तस्मिन्नेव पुरे ब्रह्मन्सहस्राणि तु षोडश ॥७४॥
वासुदेवस्य नारीणां भविष्यंत्यंबुजोद्भव
ताभिर्वसंतसमये कोकिलालिकुलाकुले ॥७५॥
पुष्पितोपवने फुल्लकल्हारसरसस्तटे
निर्भरं सहपत्नीभिः प्रशस्ताभिरलंकृतः ॥७६॥
रमयिष्यति विश्वात्मा कृष्णो यदुकुलोद्वहः
कुरंगनयनः श्रीमान्मालतीकृतशेखरः ॥७७॥
गच्छन्समीपमार्गेण सांबो जांबवतीसुतः
साक्षात्कंदर्परूपेण सर्वाभरणभूषितः ॥७८॥
अनंगशरतप्ताभिः साभिलाषमवेक्षितः
प्रबुद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥७९॥
तदवेक्ष्य जगन्नाथस्सर्वज्ञो ध्यानचक्षुषा
स्वयंप्रभुर्वक्ष्यति ता वो हरिष्यंति दस्यवः ॥८०॥
अपरोक्षं यतस्त्वेवं स्निग्धमेतद्विचिंतितम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् ॥८१॥
ताभिः शापाभितप्ताभिर्भगवान्भूतभावनः
उत्तराश्रितदाशानामुद्धर्ता ब्राह्मणप्रियः ॥८२॥
उपदेक्ष्यत्यनंतात्मा भावि कल्याणकारकम्
भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति ॥८३॥
इत्युक्त्वा ताः परित्यज्य गतोन्तर्धानमीश्वरः
ततः कालेन महता भारावतरणे कृते ॥८४॥
निवृत्ते मौसले तद्वत्केशवे दिवमागते
शून्ये यदुकुले सर्वे चोरैरपि जितेर्जुने ॥८५॥
हृतासु कृष्णपत्नीषु दाशभोग्यासु चार्बुदे
तिष्ठंतीषु च दौर्गत्यसंतप्तासु चतुर्मुख ॥८६॥
आगमिष्यति योगात्मा दाल्भ्योनाम महातपाः
तास्तमर्घ्येण संपूज्य प्रणिपत्य पुनःपुनः ॥८७॥
लालप्यमाना बहुशो वाष्पपर्याकुलेक्षणाः
स्मरंत्यो विविधान्भोगान्दिव्यमाल्यानुलेपनान् ॥८८॥
भर्त्तारं जगतामीशमनंतमपराजितम्
दिव्यानुभावां च पुरींनानारत्नगृहाणि च ॥८९॥
द्वारकावासिनः सर्वान्देवरूपान्कुमारकान्
प्रश्नमेतं करिष्यंति मुनेरभिमुखंस्थिताः ॥९०॥
दस्युमिर्भगवन्सर्वाः परिभुक्ता वयं बलात्
स्वधर्मश्च्यावितोस्माकमस्मिन्नः शरणं भवान् ॥९१॥
आदिष्टोसि पुरा ब्रह्मन्केशवेन च धीमता
कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः ॥९२॥
वेश्यानामपि यो धर्मस्तं नो ब्रूहि तपोधन
कथयिष्ये वदत्तासां यद्दाल्भ्यश्चैकितायनः ॥९३॥
दाल्भ्य उवाच
जलक्रीडाविहारेषु पुरा सरसि मानसे
भवतीनां सगर्वाणां नारदोभ्याशमागतः ॥९४॥
हुताशनसुताः सर्वा भवत्योप्सरसः पुरा
अप्रणम्यावलेपेन परिपृष्टः स योगवित् ॥९५॥
कथं नारायणोस्माकं भर्त्ता स्यादित्युपादिश
तस्माद्वरप्रदानं च शापश्चायमभूत्पुरा ॥९६॥
शय्याद्वयप्रदानेन मधुमाधवमासयोः
सुवर्णोपस्करोत्संगं द्वादश्यां शुक्लपक्षतः ॥९७॥
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात् ॥९८॥
परिपृष्टोस्मि तेनाशु वियोगो वो भविष्यति
चोरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ॥९९॥
एवं नारदशापेन केशवस्य च शापतः
वेश्यात्वमागताः सर्वा भवत्यः काममोहिताः ॥१००॥
इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वरांगनाः
पुरा दैवासुरे युद्धे हतेषु शतशः सुरैः ॥१०१॥
दानवासुरदैत्येषु राक्षसेषु ततस्ततः
तेषां दारसहस्राणि शतशोथ सहस्रशः ॥१०२॥
परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ॥१०३॥
वेश्याधर्मेण वर्तध्वमधुना नृपमंदिरे
भक्तिमत्यो वरारोहास्तथा देवकुलेषु च ॥१०४॥
राजतः स्वामिनश्चापि जीविकां च प्रलप्स्यथ
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ॥१०५॥
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा
निश्छद्मनैवोपचर्यः प्रीतिभावैरदांभिकैः ॥१०६॥
देवतानां पितॄणां च पुण्येह्नि समुपस्थिते
गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः ॥१०७॥
यद्व्रतं चोपदेक्ष्यामि तत्कुरुध्वं च सर्वशः
संसारोत्तारणायालमेतद्वेदविदो विदुः ॥१०८॥
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः
भवेत्सर्वौषधिस्नानं सम्यक्नारी समाचरेत् ॥१०९॥
तदा पंचशरात्मा तु हरिस्सन्निधिमेष्यति
अर्चयेत्पुंडरीकाक्षमनंगस्यानुकीर्तनैः ॥११०॥
कामाय पादौ संपूज्य जंघे वै मोहकारिणे
मेढ्रं कंदर्पनिधये कटिं प्रीतिमते नमः ॥१११॥
नाभिं सौख्यसमुद्राय वामनाय तथोदरम्
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥११२॥
उत्कंठायेति वै कंठमास्यमानंदकारिणे
वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥११३॥
मानसायेति वै मालि विलोलायेति मूर्द्धजम्
सर्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत् ॥११४॥
नमः शिवाय शांताय पाशांकुशधराय च
गदिने पीतवस्त्राय शंखचक्रधराय च ॥११५॥
नमो नारायणायेति कामदेवात्मने नमः
नमः शांत्यै नमः प्रीत्यै नमारेत्यै नमः श्रियै ॥११६॥
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसंपदे
एवं संपूज्य गोविंदमनंगात्मकमीश्वरम् ॥११७॥
गंधमाल्यैस्तथा धूपैर्नैवेद्येन च भामिनी
तत आहूय धर्मज्ञं ब्राह्मणं वेदपारगम् ॥११८॥
अव्यंगमथ संपूज्य गंधपुष्पार्चनादिभिः
शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम् ॥११९॥
तस्मै विप्राय वै दद्यान्माधवः प्रीयतामिति
यथेष्टाहारसंभुक्तमेनं द्विजमनुत्तमम् ॥१२०॥
रत्यर्थं कामदेवोयमिति चित्ते च धारयेत्
यद्यदिच्छति विप्रेंद्रस्तत्तत्कुर्याद्विलासिनी ॥१२१॥
सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी
एवमादित्यवारेण सर्वमेतत्समाचरेत् ॥१२२॥
तंडुलप्रस्थदानं च यावन्मासास्त्रयोदश
ततस्त्रयोदशे मासि संप्राप्ते चास्य भामिनी ॥१२३॥
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विचक्षणा
सोपधानां सविन्यासां स्वास्तरावरणां शुभाम् ॥१२४॥
दीपिकोपानहच्छत्र पादुकासनसंयुताम्
सपत्नीकमलंकृत्य हेमसूत्रांगुलीयकैः ॥१२५॥
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः
कामदेवं सपत्नीकं गुडकुंभोपरिस्थितम् ॥१२६॥
ताम्रपात्रासनगतं हेमनेत्रपटावृतम्
सुकांस्यभाजनोपेतमिक्षुदंडसमन्वितम् ॥१२७॥
दद्यादनेन मंत्रेण तथैकां गां पयस्विनीम्
यथांतरं न पश्यामि कामकेशवयोः सदा ॥१२८॥
तथैव सर्वकामाप्तिरस्तु विप्र सदा मम
तथा च कांचनं देवं प्रतिगृह्य द्विजोत्तमः ॥१२९॥
कोदात्कामोदादिति वैदिकं मंत्रमुदीरयेत्
ततः प्रदक्षिणीकृत्य विसृज्य द्विजपुंगवम् ॥१३०॥
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्
ततः प्रभृति योऽन्योपि रत्यर्थं गेहमागतः ॥१३१॥
सम्मान्य सूर्यवारेण स संपूज्यो भवेत्सदा
एवं त्रयोदशं यावन्मासमेकं द्विजोत्तमम् ॥१३२॥
तर्पयित्वा यथाकामं प्रेषयेच्चैव मंदिरम्
तदनुज्ञया रूपवंतं यावदस्यागमो भवेत् ॥१३३॥
आत्मनोपि यदा विघ्नं गर्भसूतकराजकम्
दैवं वा मानुषं वा स्यादुपरागेण वा ततः ॥१३४॥
सावारा नष्टपंचाशद्यथाशक्ति समर्पयेत्
एतद्धि कथितं सम्यग्भवतीनां विशेषतः ॥१३५॥
स्वधर्मोयं यतो भाव्यो वेश्यानामिह सर्वदा
शय्यया त्यज्यते देव न कदाचिद्यथा भवान् ॥१३६॥
शय्या ममाप्यशून्येयं तथास्तु मधुसूदन
गीतवादित्रनिर्घोषं देवदेवस्य कारयेत् ॥१३७॥
एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः
पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया ॥१३८॥
तदिदं सांप्रतं सर्वं भवतीष्वपि युज्यते
सर्वपापप्रशमनमनंतफलदायकम् ॥१३९॥
कल्याणिनीनां कथितं तदेतद्दुश्चरं व्रतम्
करोति याऽशेषमुदग्रमेतत्कल्याणिनी माधवलोकसंस्था ॥१४०॥
सा पूजिता देवगणैरशेषैरानंदकृत्स्थानमुपैति विष्णोः
तपोधनः सोप्यभिधाय चैतदनंगदानव्रतमंगनानाम् ॥१४१॥
स्वस्थानमेष्यंति समस्तमित्थं व्रतं करिष्यंति च देवयोने ॥१४२॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे वेश्याव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP