संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ६०

सृष्टिखण्डः - अध्यायः ६०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


स्कंदउवाच -
अपरस्यापि पृच्छामि फलस्य पूततां तरोः
सर्वलोकहितार्थाय वद नो जगदीश्वर ॥१॥
ईश्वर उवाच -
धात्रीफलं परं पूतं सर्वलोकेषु विश्रुतम्
यस्य रोपान्नरो नारी मुच्यते जन्मबंधनात् ॥२॥
पावनं वासुदेवस्य फलं प्रीतिकरं शुभम्
अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषात् ॥३॥
भक्षणे च भवेदायुः पाने वै धर्मसंचयः
अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयात् ॥४॥
यस्मिन्गृहे महासेन धात्री तिष्ठति सर्वदा
तस्मिन्गृहे न गच्छंति प्रेता दैतेय राक्षसाः ॥५॥
न गंगा न गया चैव न काशी न च पुष्करम्
एकैव हि नृणां धात्री संप्राप्ते हरिवासरे ॥६॥
एकादश्यां पक्षयुगे धात्रीस्नानं करोति यः
सर्वपापक्षयं यांति विष्णुलोके महीयते ॥७॥
धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च
नियतं पारणे विष्णोः स्नानमात्रे हरेर्दिने ॥८॥
संयते पारणे चैव धात्र्येकस्पर्शने नरः
भुक्त्वा तु लंघयेद्यस्तु एकादश्यां सितासिते ॥९॥
एकेनैवोपवासेन कृतेन तु षडानन
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥१०
अक्षयं लभते स्वर्गं विष्णुसायुज्यमाव्रजेत्
तस्मात्सर्वप्रयत्नेन धात्रीव्रतं समाचर ॥११॥
धात्रीद्रवेण सततं यस्य केशाः सुरंजिताः
न पिबेत्स पुनर्मातुः स्तनं कश्चित्षडानन ॥१२॥
धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेपि वा
वरदः संमुखो विष्णुः संतुष्टो भवति प्रियः ॥१३॥
धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः
तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेत् ॥१४॥
अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति
संतुष्टास्सर्वदेवाश्च न त्यजंति क्षणं मुदा ॥१५॥
धात्रीफलेन नैवेद्यं यो ददाति महाधनम्
तस्य तुष्टो भवेद्विष्णुर्नान्यैः क्रतुशतैरपि ॥१६॥
स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवम्
सोभीष्टफलमाप्नोति यद्वा मनसि वर्तते ॥१७॥
तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु
सुवर्णशतसाहस्रं फलमेति नरोत्तमः ॥१८॥
या गतिर्ज्ञानिनां स्कंद मुनीनां योगसेविनाम्
गतिं तां समवाप्नोति धात्रीसेवा रतो नरः ॥१९॥
तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा
सा गतिर्लभ्यते पुंसां धात्रीफलसुसेवया ॥२०॥
प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च
संमुखा वरदा स्नाने धात्रीफलनिषेवणे ॥२१॥
ग्रहा दुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः
सर्वे न दुष्टतां यांतिधात्रीफल सुसेवनात् ॥२२॥
सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम्
सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत ॥२३॥
तस्माद्रविदिने तात सप्तम्यां च विशेषतः
धात्रीफलानि सततं दूरतः परिवर्जयेत् ॥२४॥
यस्तु स्नाति तथाश्नाति धात्रीं च रविवासरे
आयुर्वित्तं कलत्रं च सर्वं तस्य विनश्यति ॥२५॥
संक्रान्तौ च भृगोर्वारे षष्ठ्यां प्रतिपिदि(?) ध्रुवम्
नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत् ॥२६॥
नासिकाकर्णतुंडेषु मृतस्य चिकुरेषु वा
तिष्ठेद्धात्रीफलं यस्य स याति विष्णुमंदिरम् ॥२७॥
धात्रीसंपर्कमात्रेण मृतो यात्यच्युतालयम्
सर्वपापक्षयस्तस्य स्वर्गं याति रथेन तु ॥२८॥
धात्रीद्रवं नरो लिप्त्वा यस्तु स्नानं समाचरेत्
पदेपदेश्वमेधस्य फलं प्राप्नोति धार्मिकः ॥२९॥
अस्य दर्शनमात्रेण ये वै पापिष्ठजंतवः
सर्वे ते प्रपलायंते ग्रहा दुष्टाश्च दारुणाः ॥३०॥
पुरैकः पुल्कसः स्कंद मृगयार्थं वनं गतः
मृगपक्षिगणान्हत्वा तृषया परिपीडितः ॥३१॥
क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्॥
दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम् ॥३२॥
ततो दैवात्सवृक्षाग्रान्निपपात महीतले
वेदनागाढसंविद्धः पंचत्वमगमत्तदा ॥३३॥
ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा
तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः ॥३४॥
न शक्नुवंति चांडालं मृतं द्रष्टुं महाबलाः
अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम् ॥३५॥
ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्
ततस्ते तु समालोक्य गता मुनिगणान्प्रति ॥३६॥
प्रेता ऊचुः -
किमर्थं मुनयो धीराश्चांडालं पापकारिणम्
प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः ॥३७॥
म्रियंते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः
साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः ॥३८॥
सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजंतुभिः
जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः ॥३९॥
पशुपक्षिहता ये च कारागारे गरे मृताः
आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः ॥४०॥
गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः
पाषंडाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः ॥४१॥
आशौचान्नस्य भोक्तारः प्रेतभोग्या न संशयः
ममायमिति भाषंतो नेतुं तं च न शक्नुमः ॥४२॥
आदित्य इव दुष्प्रेक्ष्यः किंवा कस्य प्रभावतः
मुनय ऊचुः -
अनेन भक्षितं प्रेताः पक्वं चामलकीफलम् ॥४३॥
तत्संगं यांति तस्यैव फलानि प्रचुराणि च
तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवम् ॥४४॥
वृक्षाग्रपतितस्याथ प्राणः स्नेहान्न च त्यजेत्
नायं चारेण सूर्यस्य न चान्ये पापकारिणः ॥४५॥
धात्रीभक्षणमात्रेण पापात्पूतो व्रजेद्दिवम्
प्रेता ऊचुः -
पृच्छामो वो ह्यविज्ञानान्न वयं निंदकाः क्वचित् ॥४६॥
विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति
उच्यतां मुनिशार्दूला वो द्रुतं मनसि स्थितम् ॥४७॥
यावद्द्विजा न घोषंति वेदमंत्रादिकल्पितम्
घोष्यंते यत्र वेदाश्च मंत्राणि विविधानि च ॥४८॥
पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः
यज्ञहोमजपस्थानदेवतार्चनकर्मणाम् ॥४९॥
पुरतो वै न तिष्ठामस्तस्माद्वृत्तं समुच्यताम्
किं वै कृत्वा प्रेतयोनिं लभंते हि नरा द्विजाः ॥५०॥
श्रोतुमिच्छामहे सम्यक्कथं वै विकृतं वपुः
द्विजा ऊचुः -
शीतवातातपक्लेशैः क्षुत्पिपासाविशेषकैः ॥५१॥
अन्यैरपि च दुःखैर्ये पीडिताः कूटसाक्षिणः
वधबंधप्रमीताश्च प्रेतास्ते निरयं गताः ॥५२॥
छिद्रान्वेषपरा ये च द्विजानां कर्मघातिनः
तथैव च गुरूणां च ते प्रेताश्चापुनर्भवाः ॥५३॥
दीयमाने द्विजाग्र्ये तु दातारं प्रतिविध्यति
चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते ॥५४॥
परस्य वाऽत्मनो वा गां कृत्वा पीडनवाहने
न पालयंति ये मूढास्ते प्रेताः कर्मजा भुवि ॥५५॥
हीनप्रतिज्ञाश्चासत्यास्तथा भग्नव्रता नराः
नलिनीदलभुक्ताश्च ते प्रेताः कर्मजा भुवि ॥५६॥
विक्रीणन्ति सुतां शुद्धां स्त्रियं साध्वीमकंटकाम्
पितृव्यमातुलादेश्च ते प्रेताः कर्मजा भुवि ॥५७॥
एते चान्ये च बहवः प्रेता जाताः स्वकर्मभिः
प्रेता ऊचुः -
न भवंति कथं प्रेताः कर्मणा केन वा द्विजाः ॥५८॥
हिताय वदनस्तूर्णं सर्वलोकहितं परम्
द्विजा ऊचुः -
येन चैव कृतं स्नानं जले तीर्थस्य धीमता ॥५९॥
नमस्कृतं परं लिगं न प्रेतो जायते नरः
एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः ॥६०॥
पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजंति वै
वेदाक्षरप्रसूतैश्च स्तोत्रमंत्रादिभिस्तथा ॥६१॥
देवानां पूजने रक्ता न वै प्रेता भवंति ते
श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम् ॥६२॥
पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति
व्रतैश्च विविधैः पूताः पद्माक्षधारणैस्तथा ॥६३॥
जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति
धात्रीफलद्रवैः स्नात्वा नित्यं तद्भक्षणे रताः ॥६४॥
तेन विष्णुं सुसंपूज्य न गछंति पिशाचताम्
प्रेता ऊचुः -
सतां संदर्शनात्पुण्यमिति पौराणिका विदुः ॥६५॥
तस्माद्वो दर्शनं जातं हितं नः कर्तुमर्हथ
प्रेतभावाद्यथामुक्तिः सर्वेषां नो भविष्यति ॥६६॥
व्रतोपदेशकं धीरा युष्माकं शरणागताः
ततो दयालवः सर्वे तानूचुर्द्विजसत्तमाः ॥६७॥
धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे
प्रेता ऊचुः
धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः ॥६८॥
कथं तेषां फलानां च शक्ता वै भक्षणेधुना
द्विजा ऊचुः -
अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम् ॥६९॥
फलिष्यति परं लोकं तस्माद्गंतुं समर्हथ
अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः ॥७०॥
समारुह्य फलं प्राप्य भक्षितं लीलया तदा
ततो देवालयात्तूर्णं रथं पीनसुशोभनम् ॥७१॥
आगतं तं समारुह्य सचांडालपिशाचकाः
गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम् ॥७२॥
स्कंद उवाच -
धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः
तद्भक्षिणः कथं स्वर्गं न गच्छंति नरादयः ॥७३॥
ईश्वर उवाच -
पूर्वं ते ज्ञानलोपाच्च न जानंति हिताहितम्
उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा ॥७४॥
मत्वा च मोहिताः श्रेष्ठं प्रेतादंति सदैव हि
शकृच्छौचजलं वांतं बलिसूकरकुक्कुटैः ॥७५॥
मृतके सूतके जप्यं न त्यक्तं येन केनचित्
तस्यान्नं च जलं प्रेताः खादंति तु सदैव हि ॥७६॥
दुर्दांता गृहिणी यस्य शुचिसंयमवर्जिता
गुरुनिःसारिता दुष्टा संति प्रेताश्च तत्र वै ॥७७॥
अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः
बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः ॥७८॥
क्षणं च मंगलं नास्ति दुःखैर्देहयुता भृशम्
तेनैव विकृताकाराः सर्वभोगविवर्जिताः ॥७९॥
नग्नका रोगसंतप्ता मृता रूक्षा मलीमसाः
एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः ॥८०॥
तेन कर्मविपाकेन जायंते काममीदृशाः
पितृमातृगुरूणां च देवनिंदापराश्च ये ॥८१॥
पाषंडाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि
गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः ॥८२॥
इहलोके च ते प्रेताश्चांडालादिषु संभवाः
अंत्यजाः पतिताश्चैव पापरोगमृताश्च ये ॥८३॥
अंत्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि
महापातकसंयुक्ता विवाहे च बहिष्कृताः ॥८४॥
शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि
राजद्रोहकरा ये च पितॄणां द्रोहचिंतकाः ॥८५॥
ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः
अमंत्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः ॥८६॥
तथैव चांत्यजस्त्रीषु दुर्गतासु च संगताः
मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः ॥८७॥
म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः
अनुवर्तंति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः ॥८८॥
स्त्रियो यैश्च न रक्ष्यंते ते प्रेता नात्र संशयः
क्षुधासंतप्तदेहं तु श्रांतं विप्रं गृहागतम् ॥८९॥
गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजंति ते
विक्रीणंति च वै गाश्च म्लेच्छेषु च गवाशिषु ॥९०॥
प्रेतलोके सुखं स्थित्वा ते च यांत्यपुनर्भवम्
अशौचाभ्यंतरे ये च जाताश्च पशवो मृताः ॥९१॥
चिरं प्रेताः पिशाचाश्च मृता जाताः पुनः पुनः
जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः ॥९२॥
एकैकस्मिश्च संस्कारे प्रेतत्वं परिहीयते
स्नानसंध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः ॥९३॥
आजन्मवर्जिताः पापास्ते प्रेताश्चापुनर्भवाः
भोजनोच्छिष्टपात्राणि यानि देहमलानि च ॥९४॥
निपातयंति ये तीर्थे ते प्रेता नात्र संशयः
दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः ॥९५॥
पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशम्
पतिं त्यक्त्वा च या नार्यो वसंति चेतरैर्जनैः ॥९६॥
प्रेतलोके चिरं स्थित्वा जायंते चांत्ययोनिषु
पतिं च वंचयित्वा या विषयेंद्रियमोहिताः ॥९७
मिष्टं चादंति याः पापास्तास्तु प्रेताश्चिरं भुवि॥
विण्मूत्रभक्षका ये च ब्रह्मस्व भक्षणे रताः ॥९८
अभक्ष्यभक्षकाश्चान्ये ते प्रेताश्चापुनर्भवाः
बलाद्ये परवस्तूनि गृह्णंति न ददत्यपि ॥९९॥
अतिथीनवमन्यंते प्रेता निरयमास्थिताः
तस्मादामलकीं भुक्त्वा स्नात्वा तस्य द्रवेण च ॥१००॥
सर्वपापाद्विनिर्मुक्तो विष्णुलोके महीयते
तस्मात्सर्वप्रयत्नेन सेवयामलकीं शिवाम् ॥१०१॥
य इदं शृणुयान्नित्यं पुण्याख्यानमिदं शुभम्
सर्वपाप प्रपूतात्मा विष्णुलोके महीयते ॥१०२॥
श्रावयेत्सततं लोके वैष्णवेषु विशेषतः
स याति विष्णुसायुज्यमिति पौराणिका विदुः ॥१०३॥
स्कंद उवाच -
महीरुह फलं ज्ञातं प्रपूतं द्विविधं प्रभो
इदानीं श्रोतुमिच्छामि पत्रं पुष्पं सुमोक्षदम् ॥१०४॥
ईश्वर उवाच -
सर्वेभ्यः पत्रपुष्पेभ्यः सत्तमा तुलसी शिवा
सर्वकामप्रदा शुद्धा वैष्णवी विष्णुसुप्रिया ॥१०५॥
भुक्तिमुक्तिप्रदा मुख्या सर्वलोकपरा शुभा
यामाश्रित्य गताः स्वर्गमक्षयं मुनिसत्तमाः ॥१०६॥
हितार्थं सर्वलोकानां विष्णुनारोपिता पुरा
तुलसीपत्रपुष्पं च सर्वधर्मप्रतिष्ठितम् ॥१०७॥
यथा विष्णोः प्रियालक्ष्मीर्यथाहं प्रिय एव च
तथेयं तुलसीदेवी चतुर्थो नोपपद्यते ॥१०८॥
तुलसीपत्रमेकं तु शतहेमफलप्रदम्
नान्यैः पुष्पैस्तथापत्रैर्नान्यैर्गंधानुलेपनैः ॥१०९॥
तुष्यते दैत्यहा विष्णुस्तुलस्याश्च दलैर्विना
अनेन पूजितो येन हरिर्नित्यं पराशया ॥११०॥
तेन दत्तं हुतं ज्ञातं कृतं यज्ञव्रतादिकम्
जन्मजन्मनि भासित्वं सुखं भाग्यं यशः श्रियं ॥१११॥
कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा
धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च ॥११२॥
वेदवेदांगशास्त्रं च पुराणागमसंहिताः
सर्वं करगतं मन्ये तुलस्याभ्यर्चने हरेः ॥११३॥
यथा गंगा पवित्रांगी सुरलोके विमोक्षदा
यथा भागीरथी पुण्या तथैवं तुलसी शिवा ॥११४॥
किं च गंगाजले नैव किंच पुष्करसेवया
तुलसीदलमिश्रेण जलेनैव प्रमोद्यते ॥११५॥
माधवः संमुखो यस्य जन्मजन्मसुधीमतः
तस्य श्रद्धा भवेछ्रुत्वा तुलस्या हरिमर्चितुम् ॥११६॥
यो मंजरीदलैरेव तुलस्या विष्णुमर्चयेत्
तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते ॥११७॥
तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनम्
तत्र ब्रह्मा च कमला सर्वदेवगणैः सह ॥११८॥
तस्मात्तां संनिकृष्टे तु सदा देवीं प्रपूजयेत्
स्तोत्रमंत्रादिकं यद्वा सर्वमानंत्यमश्नुते ॥११९॥
ये च प्रेताश्च कूश्मांडाः पिशाचा ब्रह्मराक्षसाः
भूतदैत्यादयस्तत्र पलायंते सदैव हि ॥१२०॥
अलक्ष्मीर्नाशिनी घूर्णा या डाकिन्यादि मातरः
सर्वाः संकोचितां यांति दृष्ट्वा तु तुलसीदलं ॥१२१॥
ब्रह्महत्यादयः पापव्याधयः पापसंभवाः
कुमंत्रिणा कृता ये च सर्वे नश्यंति तत्र वै ॥१२२॥
भूतले वापि तं येन हर्यर्थं तुलसीवनम्
कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम् ॥१२३॥
हरिलिंगेषु चान्येषु सालग्रामशिलासु च
तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत् ॥१२४॥
नंदंति पुरुषास्तस्य माधवार्थे क्षितौ तु यः
तुलसीं रोपयेद्धीरः स याति माधवालयम् ॥१२५॥
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्
धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत् ॥१२६॥
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ
तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च ॥१२७॥
उपदेशं दिशेदस्याः स्वयमाचरते पुनः ॥१२८॥
स याति परमं स्थानं माधवस्य निकेतनम्
हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत् ॥१२९॥
सर्वेषामपि देवानां देवीनां च समंततः
श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन ॥१३०॥
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु
तुलसी सेविता येन तेन सर्वं तु सेवितम् ॥१३१॥
गुरुं विप्रं देवतीर्थं तस्मात्सेवय षण्मुख
शिखायां तुलसीं कृत्वा यस्तु प्राणान्परित्यजेत् ॥१३२॥
दुष्कृतौघाद्विनिर्मुक्तः स्वर्गमेति निरामयम्
राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः ॥१३३॥
या गतिः प्राप्यते धीरैः तुलसीसेविनां भवेत्
तुलसीदलेन चैकेन पूजयित्वा हरिं नरः ॥१३४॥
वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः
न पिबेत्स पयो मातुस्तुलस्याः कोटिसंख्यकैः ॥१३५॥
अर्चितः केशवो येन शाखामृदुलपल्लवैः
भावयेत्पुरुषान्मर्त्यः शतशोथ सहस्रशः ॥१३६॥
पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः
प्रधानतो गुणास्तात तुलस्या गदिता मया ॥१३७॥
निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः
यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसंचयम् ॥१३८॥
पूर्वजन्मकृतात्पापान्मुच्यते जन्मबंधनात्
सकृत्पठनमात्रेण वह्निष्टोमफलं लभेत् ॥१३९॥
न तस्य व्याधयः पुत्र मूर्खत्वं न कदाचन
सर्वदा जयमाप्नोति न गच्छेत्स पराजयं ॥१४०॥
लेखस्तिष्ठेद्गृहे यस्य तस्य लक्ष्मीः प्रवर्तते
न चाधयो न च प्रेता न शोको नावमानना ॥१४१॥
न तिष्ठंति क्षणं तत्र यत्रेयं वर्तते लिपिः ॥१४२॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे तुलसीमाहात्म्यं नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP