संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ४६ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ४६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४६ Translation - भाषांतर श्री भीष्म उवाच - नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितंतथा भवस्य माहात्म्यं भैरवस्याभिधीयताम् ॥१॥पुलस्त्य उवाचतस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमंआसीद्दैत्योंधको नाम भिन्नांजनचयोपमः ॥२॥तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्स कदाचिन्महादेवं पार्वत्या सहितं विभुं ॥३॥क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमेएतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति ॥४॥ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरीबिबौष्ठं चारुवदनं चारुकांततरं मुखं ॥५॥यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च ॥६॥चक्रे योगं ससैन्यस्य सेनापतिमभाषतआनयस्व रथं मह्यं जैत्रं देवनिपातनम् ॥७॥जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः ॥८॥मंत्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैःपरभार्यानुरक्तस्य कृतो देवैः सवासवैः ॥९॥ततः कोपपरीतात्मा हन्मि देवान्सशंकरान्तं हत्वा दानवं शक्रो भयादंधासुरस्य च ॥१०॥जगाम शरणान्वेषी कैलासं शंकरालयंदृष्ट्वा प्रणम्य देवेशं चंद्रार्द्धकृतशेखरं ॥११॥भीतो विज्ञापयामास धृतसाहस्रलोचनःअभयं देहि मे देव दानवादंधकादहं ॥१२॥बिभेमि तस्य पुत्रोद्य मया युधि निपातितःतद्यावन्न स जानाति हतं पुत्रं महासुरः ॥१३॥तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहःस्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः ॥१४॥सर्वथा घातनीयस्ते भवता सुरसत्तमशक्रस्यैवं वचः श्रुत्वा शरण्यः शंकरस्तदा ॥१५॥ददावभयमेवासौ मा भैरिति शतक्रतोःदत्ताभयोथ कैलासादाजगाम कुशस्थलीम् ॥१६॥वृतो भूतगणैरीशो वधार्थमंधकस्य तुकृत्वा रूपं महाकायं विश्वरूपं सुभैरवं ॥१७॥सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत्जटासटाभिराकाशं फणिरत्नशिखार्चिषा ॥१८॥दहन्नतीवतेजोभिः कालाग्निरिव संक्षयेमुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः ॥१९॥पातालोदररूपाभैर्भैरवारावनादिभिःभुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः ॥२०॥बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिःसिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं ॥२१॥गजाजिनकृताटोपं पतद्भृंगरवाकुलंईदृग्रूपं विधायेशो दनुदैत्यभयावहं ॥२२॥अवातरन्महीं भीमो दनूनां क्षयकारकःअंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि ॥२३॥क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः ॥२४॥महत्या सेनया सार्द्धं रथवारणयुक्तयाते देवा दानवान्वीक्ष्य महाहवकृतादरान् ॥२५॥व्यपयाततनुत्राणाः शंभुं शरणमन्वयुःमा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः ॥२६॥गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषाअंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः ॥२७॥निहताश्चापि देवानां बहूनामेकताकृतांसस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक् ॥२८॥शरैः समावृतं चक्रे अंधकं रथगं ततःदनुनाथो रथस्थोथ शिथिलः शिथिलायुधः ॥२९॥निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमेबहुधा तद्बलं भग्नं विविधायुधयोधिभिः ॥३०॥युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैःदानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः ॥३१॥आत्मानं च महेशेन निरुद्धं बाणकोटिभिःविह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम् ॥३२॥पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्पिनाकस्याभिघातेन रुद्रो भूमिमथागमत् ॥३३॥भूमौ निपातिते देवे चलितं भुवनत्रयंतत्यजुः सागरा वेलां पर्वताः शिखराणि च ॥३४॥नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशःपतिते भुवि देवेशे अंधको गदया पुनः ॥३५॥जघान रुषितो नागं हत्वा तं पातयद्भुविशिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः ॥३६॥मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरःगृहीत्वा परशुं दिव्यं दानवं नैव पश्यति ॥३७॥कृत्वा तु तामसीं मायां मायाशतविशारदःतया विमोहिते देवे क्व नु वै दानवो गतः ॥३८॥शंभोर्भयमथो प्राप्य किं नु पापः करिष्यतितमसा छादिता यावद्देवा व्याकुलतां गताः ॥३९॥संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात्एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः ॥४०॥उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशःनष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते ॥४१॥देवा मुदमवापुस्ते स्पष्टाननविलोचनाःउद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः ॥४२॥स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम्अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम् ॥४३॥स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम्प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः ॥४४॥पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः ॥४५॥उवाच स्निग्धगंभीर वाचा देवं शनैर्हरःपूरयन्निव तेजोभिर्भगवान्भुवनत्रयम् ॥४६॥दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्प्राणिनामिदमेवैकमविसंवादि दैवतम् ॥४७॥अयमेव च संसारसागरात्सकलादपिसत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः ॥४८॥यजंतो जंतवो भक्त्या यं देवं विविधाः सदानिःश्रेयसाय कल्पंते तं नतो भास्करं विभुम् ॥४९॥यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैःव्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46. ॥५०॥ब्रह्मेंद्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषींद्रसंघैःश्रेयोर्थिभिः प्रतिदिनं दिवसांगरागैर्दिव्यांगरागपरिलिप्त समस्तदैहैः ॥५१॥पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमंडलमंडिताभिःये त्वां स्तुवंति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवंति ॥५२॥ये दद्रुकुष्ठपिटिकादिभिरर्दितांगाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाःदेवेश तेपि तवपादनता भवंति सद्यो द्विरष्टशरदाकृतयो मनुष्याः ॥५३॥सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाःत्वामेवमार्यमिति कार्यविदोधिगंतुं नागाश्च वेति पितरोप्यथ सर्वगंधम् ॥५४॥मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमीगंधर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम् ॥५५॥येनार्चयंति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगंबरवित्तहीनाःक्षुत्क्षामकंठजठराघटखर्परेण भिक्षामटंति परवेश्मसुतेर्थहीनाः ॥५६॥उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिंगतारम्कामं प्रशस्ततरसुंदरहाररम्यमुत्तुंगपीवरपयोधरभारखिन्नं ॥५७॥रंभोपमोरु पृथुपीननितंबबिंबानद्धक्वणन्मणिरणद्रशनाकलापंबृंदं ललाटतटकोटिपटांतलंबि हेमांचलांचितमुखं कुलपालिकानाम् ॥५८॥कांतं गृहेषु कलगद्गदभाषितानां झंकारनूपुररवेणविरावितानाम्तेषां कृशानुकरमिन्दुसमानकांतं यैरर्चितोसि भगवन्भवमोचनस्त्वं ॥५९॥ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसिसोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि ॥६०॥ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरंतरीताःव्योमैतदंतरहितं परितो हि गत्वा गच्छंति न श्रमदं हिमनागपीमे ॥६१॥ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनंतमूर्तेमुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिंत्यमनाद्यनंतं ॥६२॥जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्स्थूलानुभावनगणागणितं विशुद्धं वेदांतवादिभिरलं परिमन्यते यत् ॥६३॥त्वामग्निपुंजवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताःभानो सुरासुरसमूहशिरोनिघृष्ट पादारविंदयुगलामलचारुमूर्त्ते ॥६४॥भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीपऋक्साममंत्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल ॥६५॥दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानिशश्वद्यतीश्वर शशी करकंकघोरोत्पातो जरामरणशोकरुगांतरस्य ॥६६॥यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोःसालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च ॥६७॥नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्नमस्ते देवदेवेश भक्तानामभयंकर ॥६८॥सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृततिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः ॥६९॥प्रभाकर नमस्तेस्तु भानो जय जगत्पतेअनेन दनुमुख्येन पीडितोहं जगत्पते ॥७०॥किं करोमि कथं चैनं घातयामि दिवाकरसूर्य उवाच - जय शूलेन पापिष्ठं मायाशतविशारदम् ॥७१॥जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम्गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा ॥७२॥ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः ॥७३॥मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम् ॥७४॥रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तुअंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः ॥७५॥तेषां विदार्यमाणानां रुधिरादपरे पुनःबभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत् ॥७६॥तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम्पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा ॥७७॥माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथासौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा ॥७८॥सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणींवाराहीं नारसिंहीं च वैष्णवीं च विभावरीं ॥७९॥शतानंदां भगानंदां पिच्छिलां भगमालिनींबालामतिबलां रक्तां सुरभीं मुखमंडिताम् ॥८०॥मातृनंदां सुनंदां च बिडानीं शकुनीं तथारेवतीं च महापुण्यां तथैव शिखिपट्टिकां ॥८१॥शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकःनिर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा ॥८२॥नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपतेशूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम् ॥८३॥महाबलेन रुद्रेण विधृतोपि मृतो नहिस्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत ॥८४॥नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीदत्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम् ॥८५॥त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्॥रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत् ॥८६॥प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम्भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार ॥८७॥जितमरुदभिमतवितरणपार तव पदकमलमिहारणसारतवेश पादपंकजं करोति यो नरो हृदि सदेशतस्य वांछितं ददासि भक्तिभावितः ॥८८॥मुनीश्वराः पुरा हरं भवंतमेवमादरात्प्रपूज्य लिंगरूपिणं समापिता मनोरथान्भवोद्भवैकरूपिणं प्रपंचपंचकाकृतिं विचिंत्यवृक्षकोटरस्थ एष जीवजीवनं ॥८९॥भवेद्भवाङ्घ्रिचिंतनाप्तसर्वकामईश्वर त्वदीय किंकरान्विते पदे पदे समागतःमूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल ॥९०॥सदीश्वरेण मनसाप्यनुकंप्यो रणं गतःइति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं ॥९१॥गणेशतां ददौ तस्मै नाम भृंगीरिटीति चएष ते महिमा भूप हरस्य भवहारिणः ॥९२॥कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहःभीष्म उवाचमनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः ॥९३॥जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतंबंधुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम ॥९४॥पुलस्त्य उवाचएभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवित्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे ॥९५॥पूजयित्वा द्विजान्देवाः स्वर्गं भुंजंति चाक्षयंधरामवंति राजानो लोकावित्तं सुखं शिवं ॥९६॥लोके विप्र समो नास्ति देवानामपि दैवतंस च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं ॥९७॥लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनःसर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा ॥९८॥इममर्थं पुरा पृष्टो नारदेन पितामहःकस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत् ॥९९॥ब्रह्मोवाच - यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदतितस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति1.46. ॥१००॥विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथातस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात् ॥१०१॥विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिःकृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम् ॥१०२॥ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी ॥१०३॥अभिगम्य तु यद्दत्तं यच्च दानं मनोरमंविद्यते सागरस्यांतो दानस्यांतो न विद्यते ॥१०४॥मनसापि न हिंसंति भूदेवमाततायिनंमनोनुकूलतां यांति देवैरपि च दुर्लभां ॥१०५॥गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छतिसर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते ॥१०६॥काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसुतद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति ॥१०७॥न च दारिद्यतामेति नातुरो न च कातरःमनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत् ॥१०८॥कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसुतद्दानं सुगुणं प्रोक्तमभयं लाभ एव च ॥१०९॥विप्रपादतलोद्घृष्टि क्षती भवति यः करःस करः श्रीकरो नाम अन्यः कर्मकरः करः ॥११०॥विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिःविपद्भिश्च सदा पापैर्मुक्ता यांति त्रिविष्टपम् ॥१११॥विप्रपादरजः पूताः शुचयो गृह चत्वराःपुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु ॥११२॥आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघःवेदास्तत्रैव संजाताः सृष्टिसंस्थिति हेतवः ॥११३॥तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हिपूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम् ॥११४॥पितृयज्ञे विवाहे च वह्निकार्येषु शांतिषुप्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च ॥११५॥देवा भुंजंति हव्यानि बलिप्रेतादयोऽसुराःपितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम् ॥११६॥देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसुदानं होमं बलिं चैव विना विप्रेण निष्फलम् ॥११७॥भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाःतस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत् ॥११८॥काले देशे च पात्रे च लक्षकोटिगुणं भवेत्श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम् ॥११९॥दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरःअनभिवादनाद्विप्र द्वेषादश्रद्धयापि च ॥१२०॥आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिःआयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च ॥१२१॥पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयःन विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि ॥१२२॥स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानिनारद उवाचकश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत् ॥१२३॥विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपिब्रह्मोवाच - पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः ॥१२४॥सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघःनारद उवाच - जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले ॥१२५॥सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवःब्रह्मोवाच - सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः ॥१२६॥असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथाक्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः ॥१२७॥वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयःतस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम् ॥१२८॥धरायां तीर्थभूतानां सर्वपापहराय चजन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ॥१२९ द्विजविद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् विप्रविद्यापूतो मंत्रपूतो वेदपूतस्तथैव च ॥१३०॥तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतःनारायणे सदा भक्तः शुद्धांतःकरणस्तथा ॥१३१॥जितेंद्रियो जितक्रोधस्समः सर्वजनेषु चगुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः ॥१३२॥परदारे मनो यस्य कदाचिन्नैव मोदतेपुराणकथको नित्यं धर्माख्यानस्य संततिः ॥१३३॥अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम्संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च ॥१३४॥व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैःमित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च ॥१३५॥परस्वं न हरेद्यस्तु तृणमप्यटवीगतम्कामक्रोधादिनिर्मुक्त इंद्रियैरजितः पुमान् ॥१३६॥परदारान्न गृह्णाति मनसापि गृहागतान्नारद उवाच - गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम् ॥१३७॥कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम्ब्रह्मोवाच - छंदो गायत्री गायत्र्याः सविता देवता ध्रुवम् ॥१३८॥शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथाब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता ॥१३९॥उपनयने नियोगः स्यात्सांख्यायन सगोत्रजात्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता ॥१४०॥चतुर्विंशतिस्थाने च पादादौ मस्तकांतकेचतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति ॥१४१॥प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं ॥१४२॥सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम्ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत् ॥१४३॥उपपातककोट्या तु तथातिपातकैरपिब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं ॥१४४॥ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहाविष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च ॥१४५॥देवीसूर्यगणेशानां तथा क्रतुभुजां सुतयस्य कस्य कुले जातो गुणवानेव तैर्गुणैः ॥१४६॥साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतःदानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि ॥१४७॥अक्षयं लभते दाता जन्मकोटिशतान्प्रतिस्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान् ॥१४८॥धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिंपुराणसंहितां नूनं तथैव धर्मसंहितां ॥१४९॥श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषुउर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः1.46. ॥१५०॥यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य चसमानमर्चनं कृत्वा नरो यात्यच्युतालयं ॥१५१॥कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यतेचांडालस्य गृहे निष्ठौ भास्करज्वलनौ यथा ॥१५२॥याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात्विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः ॥१५३॥तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताःनाशयंतीह पापानि वायुर्मेघमिवांबरे ॥१५४॥गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितांप्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि ॥१५५॥सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपिब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम् ॥१५६॥प्राणायामयुतां तस्माद्गायत्रीं जप नारदनारद उवाच - प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः ॥१५७॥तेषां न्यासं तथांगेषु वद तात यथाक्रमम्ब्रह्मोवाच - गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः ॥१५८॥तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत्पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं ॥१५९॥प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजःअनेनैव जपेद्यस्तु महापातकसंचयः ॥१६०॥सकृदुच्चारितेनैव क्षयं यात्युपपातकंप्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे ॥१६१॥स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमःप्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं ॥१६२॥यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजःआग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम् ॥१६३॥तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथापंचमं यमदैवत्यं वारुणं षष्ठमुच्यते ॥१६४॥सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुःऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा ॥१६५॥पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतंत्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं ॥१६६॥मारुतं पंचदशकं सौम्यं षोडशकं स्मृतंआंगिरसं सप्तदशं वैश्वदेवमतः परं ॥१६७॥आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकंसर्वदेवमयं ज्ञेयमेकविंशकमक्षरं ॥१६८॥रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परंवैष्णवं तु चतुर्विंशमेता अक्षरदेवताः ॥१६९॥जपकाले तु संचिंत्य तासु सायुज्यतां व्रजेत्ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत् ॥१७०॥सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत्गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः ॥१७१॥चतुर्विंशति स्थानेषु आपादमस्तकेषु चतत्कारं विन्यसेद्योगी पदांगुष्ठे विचक्षणः ॥१७२॥सकारं गुल्फदेशे तु विकारं जंघयोर्न्यसेत्तुकारं जानुमध्ये च वकारं चोरुदेशतः ॥१७३॥रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत्यंकारं कटिदेशे तु भकारं नाभिमण्डले ॥१७४॥गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत्वकारं हृदये न्यस्य स्यकारं करदेशतः ॥१७५॥धीकारं वदने न्यस्य मकारं तालुके न्यसेत्हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत् ॥१७६॥योकारं तु भ्रुवोर्मध्ये योकारं च ललाटकेनःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे ॥१७७॥चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः ॥१७८॥एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकःमहायोगी महाज्ञानी परं निर्वाणकं व्रजेत् ॥१७९॥संध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतःॐभूरिति हृदये न्यस्य ॐभुवश्शिरसि न्यसेत् ॥१८०॥ॐस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरेॐभर्गो देवस्य धीमहीति नेत्रयोः ॥१८१॥ॐधियो यो नः प्रचोदयादिति करयोर्न्यसेत्ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं ॥१८२॥ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्इति सव्याहृति सप्रणवां द्वादश ॐकारां संध्याकाले कुंभकेन वारत्रयं जप्त्वासूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वामहाविद्याधिको भवति ब्रह्मत्वं लभते ॥१८३॥षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतःयां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः ॥१८४॥ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥१८५॥अथ गायत्री पंचशीर्षलक्षणम्ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥१८६॥सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत्सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत् ॥१८७॥ॐभूः पादाभ्याम् ॐभुवः जानुभ्याम् ॐस्वः कट्याम् ॐमहः नाभौ ॐजनः हृदये न्यसेत् ॐतपः करयोः ॐसत्यं ललाटेॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्इति शिखायाम् ॥१८८॥एवं विप्रो न जानाति स एव ब्राह्मणाधमःन तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः ॥१८९॥इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम्स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम् ॥१९०॥य एनां नैव जानाति स शूद्रात्परतः स्मृतःतस्यापूतस्य विप्रस्य न देयं पितृपार्वणम् ॥१९१॥न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत्विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः ॥१९२॥निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौचतुर्वेदाश्च गायत्री पुरा वै तुलिता मया ॥१९३॥चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृतादशभिर्जन्मजनितं शतेन च पुरा कृतम् ॥१९४॥त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम्गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत् ॥१९५॥चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम्त्रिसंध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः ॥१९६तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम्गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च ॥१९७॥स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमःवासुदेवस्य मंत्राणि जपेद्यस्तु दिनेदिने ॥१९८॥प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा ॥१९९॥पंकस्य लवमात्रं तु तस्य देहे न तिष्ठतिवेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46. ॥२००॥धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम ॥२०१॥विश्वरूपश्च को देही समूर्तो हरिरेव चयस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम् ॥२०२॥वरदानात्समायांति सर्वाः संपत्तयस्तथाविष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः ॥२०३॥नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय चजगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥२०४॥मंत्रेणैवं हरिं यस्तु पूजयेत्सततं नरःप्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत् ॥२०५॥य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्तस्य पापं क्षयं याति जन्मजन्मकृतं च यत् ॥२०६॥यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य चन तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते ॥२०७॥धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि ॥२०८॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे ब्राह्मणसंस्कारोनाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP