संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ४५

सृष्टिखण्डः - अध्यायः ४५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच -
इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्
नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥१॥
पुलस्त्य उवाच -
पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः
दैत्यानामादिपुरुषश्चकार सुमहत्तपः ॥२॥
दशवर्षसहस्राणि दशवर्षशतानि च
जलवासी समभवत्स्नानमौनधृतव्रतः ॥३॥
वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥४॥
ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हि
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥५॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥६॥
दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः ॥७॥
देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा
राजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः ॥८॥
चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥९॥
प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥१०॥
हिरण्यकशिपुरुवाच -
न देवासुरगंधर्वा न यक्षोरगराक्षसाः
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥११॥
ऋषयो मानवाः शापैर्न शपेयुः पितामह
यदि मे भगवान्प्रीतो वर एष वृतो मया ॥१२॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः ॥१३॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः
सलिलं चांतरिक्षं च नक्षत्राणि दिशो दश ॥१४॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥१५॥
ब्रह्मोवाच  -
एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः
सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः ॥१६॥
एवमुक्त्वा स भगवान्जगामाकाशमेव हि
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥१७॥
ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाः
वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः ॥१८॥
देवा ऊचुः -
वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः
तत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम् ॥१९॥
भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुः
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः ॥२०॥
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
आश्वासयामास तदा सुशीतैर्वचनांबुभिः ॥२१॥
अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥२२॥
तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात्
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः ॥२३॥
लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत
हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः ॥२४॥
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्
सत्यधर्मपरान्दान्तान्धर्षयामास दानवः ॥२५॥
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥२६॥
यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा
यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान् ॥२७॥
तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः ॥२८॥
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्
देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥२९॥
देवा ऊचुः -
नारायण महाभाग देवास्त्वां शरणं गताः
त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो ॥३०॥
त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः ॥३१॥
विष्णुरुवाच -
भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥३२॥
एनं हि सगणं दैत्यं वरदानेन गर्वितम्
अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम् ॥३३॥
एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः ॥३४॥
तेजसा भास्काराकारः शशीकांत्येव चापरः
नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा ॥३५॥
नारसिंहेन वपुषा पाणिं संगृह्य पाणिना
ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम् ॥३६॥
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्
विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम् ॥३७॥
वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्
जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम् ॥३८॥
वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा
अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा ॥३९॥
दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्
नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि ॥४०॥
अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः
सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः ॥४१॥
रश्मिमती स्वभावेन दिव्यगंधमनोरमा
सुसुखा न च दुःखा सा न शीता न च घर्मदा ॥४२॥
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते
नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः ॥४३॥
अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयंती विभासुरा ॥४४॥
सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं ॥४५॥
पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः
उष्णे शीतानि तोयानि शीते चोष्णानि संति वै ॥४६॥
पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः
लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः ॥४७॥
गंधवंति च पुष्पाणि रसवंति फलानि च
तानि शीतानि चोष्णानि तत्रतत्र सरांसि च ॥४८॥
अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः
नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः ॥४९॥
रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा
नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45. ॥५०॥
कारंडवैश्चक्रवाकैः सारसैः कुररैरपि
विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः ॥५१॥
बहुहंसोपगीतानि सारसानां रुतानि च
गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः ॥५२॥
दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्
चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः ॥५३॥
प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः
शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः ॥५४॥
तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाः
एलाक कुभकंकोल लवली कर्णपूरकाः ॥५५॥
मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः
अंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः ॥५६॥
वरुणाश्च पलाशाश्चा पनसास्सह चंदनैः
नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः ॥५७॥
पारिजाताश्च तरवो मल्लिका भद्रदारवः
अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः ॥५८॥
मंदारकाः कुरवका पुन्नागाः कुटजास्तथा
रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह ॥५९॥
किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः
कालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः ॥६०॥
खर्जूरा नालिकेराश्च हरीतक मधूककाः
सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः ॥६१॥
असनाश्च तमालाश्च नानागुल्मसमावृताः
लताश्च विविधाकाराः पुष्पपत्रफलोपगाः ॥६२॥
एते चान्ये च बहवस्तत्र काननजा द्रुमाः
नानापुष्पफलोपेता व्यराजंत समंततः ॥६३॥
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः
पुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान् ॥६४॥
रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः
परस्परमवैक्षंत प्रहृष्टा जीवजीविकाः ॥६५॥
तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदा
आसीन आसने चित्रे दशनल्वे प्रमाणतः ॥६६॥
दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः ॥६७॥
उपचेरुर्महादैत्या हिरण्यकशिपुं तदा
दिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः ॥६८॥
विश्वाची सहजन्या च प्रम्लोचेति च पूजिता
दिव्याथ सौरभेयी च समीची पुंजिकस्थला ॥६९॥
मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमा
चारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥७०॥
एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः
उपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम् ॥७१॥
उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ॥७२॥
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः
सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा ॥७३॥
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपस्वरूपश्च विश्वकायो महाबलः ॥७४॥
दशग्रीवश्च वाली च मेघवासा महासुरः
घटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः ॥७५॥
दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाः
स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः ॥७६॥
सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ॥७७॥
उपासते महात्मानं सर्वे दिव्यपरिच्छदाः
विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः ॥७८॥
महेन्द्रवपुषः सर्वे विचित्रांगदबाहवः
भूषितांगा दितेः पुत्रास्तमुपासत सर्वतः ॥७९॥
ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये ॥८०॥
रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्
स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम् ॥८१॥
कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्श
दिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम् ॥८२॥
ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्
नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम् ॥८३॥
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्
दिव्येन वपुषा सिंहमपश्यद्देवमागतम् ॥८४॥
तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥८५॥
प्रह्लाद उवाच -
महाराज महाबाहो दैत्यानामादिसंभव
न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः ॥८६॥
अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्
दैत्यांतकरणं घोरं शंसतीव मनो मम ॥८७॥
अस्य देवाः शरीरस्थाः सागराः सरितस्तथा
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥८८॥
चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥८९॥
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥९०॥
ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हि
स्थावराणि च सर्वाणि जंगमानि तथैव च ॥९१॥
भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः
विमानशतसंकीर्णा सर्वा या भवतः सभा ॥९२॥
सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः
दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत् ॥९३॥
प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च ॥९४॥
सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे ॥९५॥
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः
उवाच दानवान्सर्वान्गणांश्च सगणाधिपः ॥९६॥
मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितः
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः ॥९७॥
ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम्
परिक्षिपंतो मुदितास्त्रासयामासुरोजसा ॥९८॥
सिंहनादं विमुच्याथ नरसिंहो महाबलः
बभंज तां सभां सर्वां व्यादितास्य इवांतकः ॥९९॥
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45. ॥१००॥
सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम्
कालचक्रं तथा घोरं विष्णुचक्रं तथापरं ॥१०१॥
पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्
विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम् ॥१०२॥
रौद्रं तथोग्रशूलं च कंकालं मुसलं तथा
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥१०३॥
नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथा
वायव्यं मथनं चैव कपालमथ किंकरम् ॥१०४॥
तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव च
मोहनं शोषणं चैव संतापनविलापने ॥१०५॥
कंपनं शातनं चैव महास्त्रं चैव रोधनम्
कालमुद्गरमक्षोभ्यं तापनं च महाबलम् ॥१०६॥
संवर्तनं मोहनं च तथा मायाधरं वरम्
गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम् ॥१०७॥
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्
अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः ॥१०८॥
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥१०९॥
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः
विवस्वान्घर्मसमये हिमवंतमिवांशुभिः ॥११०॥
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः
क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः ॥१११॥
प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा
वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः ॥११२॥
मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः
शतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः ॥११३॥
ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाः
समंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः ॥११४॥
सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः
स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः ॥११५॥
सोसृजद्दानवो मायामग्निं वायुं समीरितम्
तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः ॥११६॥
महता तोयवर्षेण शमयमास पावकम्
तस्यां प्रतिहतायां तु मायायां युधि दानवः ॥११७॥
असृजद्घोरसंकाशं तमस्तीव्रं समंततः
तमसा संवृते लोके दैत्येष्वात्तायुधेषु च ॥११८॥
स्वतेजसा परिवृतो दिवाकर इवोद्गतः
त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे ॥११९॥
ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव
ततः सर्वासु मायासु हतासु दितिनंदनाः ॥१२०॥
हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः
ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा ॥१२१॥
तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्
आवहः प्रवहश्चैव विवहोथ समीरणः ॥१२२॥
परावहस्संवहश्च उद्वहश्च महाबलः
तथा परिवहः श्रीमानुत्पातभयशंसिनः ॥१२३॥
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः
ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि ॥१२४॥
ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्
अयोगतश्चाप्यचरद्योगं निशि निशाचरः ॥१२५॥
सग्रहः सह नक्षत्रैस्तारापतिररिंदम
विवर्णतां च भगवान्गतो दिवि दिवाकरः ॥१२६॥
कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिवि
असृजच्चासितां सूर्यो धूमवत्तां विभावसुः ॥१२७॥
गगनस्थश्च भगवानभीक्ष्णं परिविष्यते
सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः ॥१२८॥
सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाः
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ॥१२९॥
शनैश्चरो लोहितांगो लोहितांगसमद्युतिः
समं समधिरोहंत सर्वे वै गगनेचराः ॥१३०॥
शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाः
चंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः ॥१३१॥
चराचरविनाशाय रोहिणीं नाभ्यनंदत
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते ॥१३२॥
उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम्
देवानामधिपो देवः सोप्यवर्षत शोणितम् ॥१३३॥
अपतद्गगनादुल्का विद्युद्रूपा महास्वना
अकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च ॥१३४॥
लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः
फले फलान्यजायंत पुष्पे पुष्पं तथैव च ॥१३५॥
उन्मीलंति निमीलंति हसंति प्ररुदंति च
विक्रोशंति च गंभीरं धूमायंते ज्वलंति च ॥१३६॥
प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः ॥१३७॥
चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते
नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः ॥१३८॥
न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः
वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन ॥१३९॥
वायुवेगेन हन्यंते भज्यंते प्रणमंति च
तथा च सर्वभूतानां छाया न परिवर्त्तते ॥१४०॥
अपरेण गते सूर्ये सलोकानां युगक्षये
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः ॥१४१॥
भांडागारायुधागारे निविष्टमभवन्मधु
असुराणां विनाशाय सुराणां विजयाय च ॥१४२॥
दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः
एते चान्ये च बहवो घोररूपाः समुत्थिताः ॥१४३॥
दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः
मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः ॥१४४॥
महीधरा नागगणा निपेतुरमितौजसः
विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम् ॥१४५॥
चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ॥१४६॥
एलामुखः कालियश्च महापद्मश्च वीर्यवान्
सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः ॥१४७॥
शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः
दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै ॥१४८॥
सप्तदैत्येंद्रकोपेन कंपितानि समंततः
नानातेजोधराश्चापि पातालतलचारिणः ॥१४९॥
पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45. ॥१५०॥
संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः
गंगा भागीरथी चैव कौशिकी सरयूरपि ॥१५१॥
यमुना चाथ कावेरी कृष्णवेणी च निम्नगा
तुंगभद्रा महावेगा नदी गोदावरी तथा ॥१५२॥
चर्मण्वती च सिंधुश्च तथा नदनदीपतिः
मेलकप्रभवश्चैव शोणो मणिनिभोदकः ॥१५३॥
नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी
गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती ॥१५४॥
महाकालमहीचैव तमसा पुष्पवाहिनी
जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम् ॥१५५॥
सुवर्णपुटकं चैव सुवर्णाकरमंडितम्
महानदश्च लौहित्यश्शैलः कांचनशोभितः ॥१५६॥
पत्तनं कोशकाराणां कशं च रजताकरम्
मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च ॥१५७॥
स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः
भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम् ॥१५८॥
कैलासशिखराकारं यत्कृतं विश्वकर्मणा
रत्नतोयो महाभीमो लौहित्यो नाम सागरः ॥१५९॥
उदयश्च महाशैल उच्छ्रितः शतयोजनम्
सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः ॥१६०॥
भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥१६१॥
अयोमुखश्च विख्यातः सर्वतो धातुमंडितः
तमालवनगंधश्च पर्वतो मलयः शुभः ॥१६२॥
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च
भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः ॥१६३॥
तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः
क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः ॥१६४॥
अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा
सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम् ॥१६५॥
विचित्रनानाविहगं सपुष्पितमहाद्रुमम्
जातरूपमयैः शृंगैरप्सरोगणसेवितम् ॥१६६॥
गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः
उत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः ॥१६७॥
रराज स महाशृंगैर्गगनं विलिखन्निव
चंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः ॥१६८॥
विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्
विद्युतां यत्र संपाता निपात्यंते नगोत्तमे ॥१६९॥
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः
कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम् ॥१७०॥
विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी
तथा भोगवती चापि दैत्येंद्रेणाभिकंपिता ॥१७१॥
महासेनगिरिश्चैव पारियात्रश्च पर्वतः
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः ॥१७२॥
प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्
यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः ॥१७३॥
मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनः
षष्टिस्तत्र सहस्राणि पर्वतानां विशांपते ॥१७४॥
तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिः
यक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः ॥१७५॥
हेमगर्भो महासेनस्तथा मेघसखो गिरिः
कैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः ॥१७६॥
हेमपुष्करसञ्छन्नं तेन वैखानसं सरः
कंपितं मानसं चैव हंसकारंडवाकुलम् ॥१७७॥
त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरा
तुषारचयसंच्छन्नो मंदरश्चापि पर्वतः ॥१७८॥
उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्
प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः ॥१७९॥
देवाभः पर्वतश्चैव तथा वै वालुकागिरिः
क्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः ॥१८०॥
एते चान्ये च गिरयो देशा जनपदास्तथा
नद्यः ससागराः सर्वाः दानवेनाभिकंपिताः ॥१८१॥
कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितः
खेचराश्च निशापुत्राः पातालतलवासिनः ॥१८२॥
गणस्तथापरो रौद्रो मेघनामांकुशायुधः
ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः ॥१८३॥
गदी शूली करालश्च हिरण्यकशिपुस्तथा
जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥१८४॥
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्
स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः ॥१८५॥
तदोंकारसहायेन विदार्य निहतो युधि
मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः ॥१८६॥
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ॥१८७॥
तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्
यत्त्वया विधृतं देव नारसिंहमिदं वपुः ॥१८८॥
एतदेवार्चयिष्यंति परापरविदो जनाः
ब्रह्मोवाच -
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः ॥१८९॥
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः
परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च ॥१९०॥
परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्
परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं ॥१९१॥
परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् ॥१९२॥
परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्
एवमुक्त्वा तु भगवान्सर्वलोकपितामहः ॥१९३॥
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः
ततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च ॥१९४॥
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान् ॥१९५॥
पौराणं रूपमास्थाय प्रययौ गरडध्वजः
अष्टचक्रेण यानेन भूतियुक्तेन भास्वता ॥१९६
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥१९७॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे नरसिंहप्रादुर्भावो नाम पंचचत्वारिंशत्तमोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP