सृष्टिखण्डः - अध्यायः २९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पुलस्त्यउवाच
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनंनाम यत्पुराणविदो विदुः ॥१॥
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा ॥२॥
वैकुंठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्
ततः कालेन कियता पुनः सर्गविधौ नृपः ॥३॥
अहंकारवृतेलोके प्रधानपुरुषान्विते
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः ॥४॥
पिंगाकारा समुद्भूता वह्निज्वालातिभीषणा
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम् ॥५॥
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं न तद्यावदाप्नोति वसुधातले ॥६॥
उत्क्षिप्तमंतरिक्षात्तु ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम् ॥७॥
बलंतेजोमहज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमावष्टधा तद्व्यजायत ॥८॥
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम् ॥९॥
विकारवच्च गोक्षीरं कुसुंभं कुसुमं तथा
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते ॥१०॥
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते ॥११॥
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते
त्रैलोक्यसुंदरीं देवीमुपयेमे पिनाकधृत् ॥१२॥
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्
तामाराध्य पुमान्भक्त्या नारी वा किं न विंदति ॥१३॥
भीष्म उवाच
कथमाराधनं तस्या ललिताया मुने वद
यद्विधानं च जगतः शांतये तद्वदस्व मे ॥१४॥
पुलस्त्य उवाच
वसंतमासमासाद्य तृतीयायां जनप्रियः
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥१५॥
तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी ॥१६॥
तया सहैव विश्वेशं तृतीयायामथार्चयेत्
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः ॥१७॥
प्रतिमां पंचगव्येन तथा गंधोदकेन च
स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम् ॥१८॥
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च
शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः ॥१९॥
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्
शिरो रुद्रेश्वरायेति विजयायै च जानुनी ॥२०॥
संकीर्त्य हरिकेशाय तथोरुवरदे नमः
ईशायेति कटिं रत्यै शंकरायेति शंकरम् ॥२१॥
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये
मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत् ॥२२॥
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत् ॥२३॥
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्
त्रिलोचनायेति हरं बाहू कालानलप्रिये ॥२४॥
सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम् ॥२५॥
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे च हरं तद्वदास्यं चंद्रमुखप्रिये ॥२६॥
नमोर्धनारीशहरमसितांगीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥२७॥
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्
नमः श्रीकंठनाथाय शिवकेशांस्तथार्चयेत् ॥२८॥
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः ॥२९॥
स्थापयेत्स्निग्धनिष्पावान्कुसुंभक्षीरजीरकम्
तरुराजेक्षुलवणं कुस्तुंबुरुमथाष्टमम् ॥३०॥
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत
एवंनिवेद्य तत्सर्वमग्रतः शिवयोः पुनः ॥३१॥
चैत्रे शृंगाटकान्प्राश्य स्वपेद्भूमावरिंदम
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः ॥३२॥
संपूज्य द्विजदांपत्यं माल्यवस्त्रं विभूषणैः
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम् ॥३३॥
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत्तृतीयायां सदा नृप ॥३४॥
प्राशने दानमंत्रे च विशेषोयं निबोध मे
गोशृंगांबु मधौ प्रोक्तं वैशाखे गोमयं पुनः ॥३५॥
ज्येष्ठे मंदारकुसुमं बिल्वपत्रं शुचौ स्मृतम्
श्रावणे दधिसंप्राश्यं नभस्ये तु कुशोदकम् ॥३६॥
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गशीर्षे तु गोमूत्रं पौषे संप्राशयेद्घृतम् ॥३७॥
माघे कृष्णतिलांस्तद्वत्पंचगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥३८॥
वासुदेवी तथा गौरी मंगला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत् ॥३९॥
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत् ॥४०॥
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः
उपासनीयो विदुषा परत्रा भीतिमिच्छता ॥४१॥
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता
मल्लिकाशोककमलं कदंबोत्पलचंपकम् ॥४२॥
कुब्जकं करवीरं च बाणमम्लानपंकजम्
सिंदुवारं च सर्वेषु मासेषु कुसुमं स्मृतम् ॥४३॥
जपाकुसुंभकुसुमं मालती शतपत्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा ॥४४॥
एवं संवत्सरं यावदुपोष्य विधिवन्नरः
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः ॥४५॥
व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरौ हैमौ वृषभं च गवा सह ॥४६॥
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम् ॥४७॥
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह
सर्वान्कामानवाप्नोति मनसा समभीप्सितान् ॥४८॥
अन्यान्यपि यथाशक्ति मिथुनान्यंबरादिभिः
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः ॥४९॥
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम् ॥५०॥
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत् ॥५१॥
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपैश्च वस्त्रालंकारभूषणैः ॥५२॥
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् ॥५३॥
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः ॥५४॥
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा
नारी वा कुरुते या तु कुमारी वा नरेश्वर ॥५५॥
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम् ॥५६॥
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत् ॥५७॥
कृतमथ पवनेन नंदिना च किमु जननाथमहाद्भुतं न वा स्यात् ॥५८॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायोनाम एकोनत्रिंशोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP