सृष्टिखण्डः - अध्यायः ७८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वैशम्पायन उवाच -
भगवंस्त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतं
अपरं श्रोतुमिच्छामि ब्रध्नस्य च प्रियं च यत् ॥१॥
व्यास उवाच -
कैलासशिखरे रम्ये सुखासीनं महेश्वरं
प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत् ॥२॥
अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः
वारादेर्यत्फलं नाथ श्रोतुमिच्छामि तत्त्वतः ॥३॥
ईश्वर उवाच -
रक्तपुष्पै रवेर्वारे त्वर्घ्यं दद्याद्व्रती नरः
नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते ॥४॥
सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे
कुर्वतः प्रीतिमाप्नोति सगणः परमेश्वरः ॥५॥
शूरस्य सदृशं याति तिथिवारस्य पालनात्
एकेन गाणपत्यस्य यावत्सूरो नभस्तले ॥६॥
सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनम्
स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितम् ॥७॥
रविवारेण संक्रांत्या सप्तम्या तद्दिने शिवे
व्रतपूजादिकं चाप्यं सर्वं चाक्षयतां व्रजेत् ॥८॥
आदित्यवासरे शुभ्रे ग्रहाधिपप्रपूजनम्
प्राणादहतवक्त्रेण निःसार्य मंडले न्यसेत् ॥९॥
द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं
सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृतसंघ्रायैशान्यां क्षिपेत् ॥१०॥
आदित्याय विद्महे भास्कराय धीमहि
तन्नो भानुः प्रचोदयात् ॥११॥
ततो गुरूपदिष्टेन विधिना च विलेपनम्
विलेपनांते सद्धूपं धूपांते च प्रदीपकम् ॥१२॥
प्रदीपांते च नैवेद्यं ततो वारि निवेदयेत्
ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेत् ॥१३॥
अंजलि प्रथमा मुद्रा द्वितीया धेनुका स्मृता
एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेत् ॥१४॥
मम ब्रह्मवधं घोरं कपालं करलग्नकम्
रवेस्तस्यप्रसादात्तु मुक्तं वाराणसीतटे ॥१५॥
रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते
यस्य प्रसादतो घोरान्मुक्तोहं गुरुकिल्बिषात् ॥१६॥
स्कंद उवाच -
श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मेऽभवत्प्रभो
त्वदन्योस्ति न को देवः कथं ब्रह्मवधं त्वयि ॥१७॥
त्वं च ज्ञानीश्वरो योगी लोके भोक्ताऽक्षरोऽव्ययः
देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः ॥१८॥
सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः
दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः ॥१९॥
शिव उवाच -
लोकानां च हितार्थाय पृथग्भूता युगे युगे
सर्वं कुर्मो वयं पुत्र ब्रह्मविष्णुमहेश्वराः ॥२०॥
नास्माकं बंधमोक्षौ च नाकार्यं कार्यमेव वा
तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकम् ॥२१॥
सर्वं च परमं चैव सर्वविघ्नविनाशनम्
सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम् ॥२२॥
एकोसौ बहुधा भूत्वा कालभेदादनिंदितः
मासे मासे तु तपति एको द्वादशतां व्रजेत् ॥२३॥
मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः
वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा ॥२४॥
चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः
ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः ॥२५॥
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा
हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः ॥२६॥
इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः
उरुरूपा महातेजा युगांतानलवर्चसः ॥२७॥
य इदं पठते नित्यं तस्य पापं न विद्यते
न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित् ॥२८॥
अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात्
महामंत्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम् ॥२९॥
ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः
नमस्ते पद्महस्ताय वरुणाय नमोनमः ॥३०॥
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः
नमः सहस्रजिह्वाय भानवे च नमोनमः ॥३१॥
त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः
त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः ॥३२॥
सर्वगः सर्वभूतेषु नहि किंचित्त्वया विना
चराचरे जगत्यस्मिन्सर्वदेहे व्यवस्थितः ॥३३॥
इति जप्त्वा लभेत्कामं स्वर्गभोग्यादिकं क्रमात्
आदित्यो भास्करः सूर्यो अर्को भानुर्दिवाकरः ॥३४॥
सुवर्णरेता मित्रश्च पूषा त्वष्टा च ते दश
स्वयंभूस्तिमिराशश्च द्वादशः परिकीर्तितः ॥३५॥
नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः
सर्वपापाच्च रोगाच्च मुक्तो याति परां गतिम् ॥३६॥
पुनरन्यत्प्रवक्ष्यामि भास्करस्य महात्मनः
रक्ताख्याये रक्तनिभास्सिंदूरारुणविग्रहाः ॥३७॥
यानि नामानि मुख्यानि तच्छृणुष्व षडानन
तपनस्तापनश्चैव कर्त्ता हर्त्ता ग्रहेश्वरः ॥३८॥
लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः
अग्निगर्भो महाविप्रः स्वर्गः सप्ताश्ववाहनः ॥३९॥
पद्महस्तस्तमोभेदी ऋग्वेदो यजुस्सामगः
कालप्रियं पुंडरीकं मूलस्थानं च भावितम् ॥४०॥
यः स्मरेच्च सदा भक्त्या तस्य रोगभयं कुतः
शृणु कार्तिक यत्नेन सर्वपापहरं शुभम् ॥४१॥
न संदेहो मनाक्कार्य आदित्यस्य महामते
ऊँ इंद्राय नमः ऊँ विष्णवे नमः ॥४२॥
एष जप्यश्च होमश्च संध्योपासनमेव च
सर्वशांतिकरश्चैव सर्वविघ्नविनाशनः ॥४३॥
नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान्
कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः ॥४४॥
एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा
कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा ॥४५॥
अश्मरीमूत्रंकृच्छ्रांश्च नानारोगामयांस्तथा
ये वातप्रभवा रोगा ये रोगा गर्भसंभवाः ॥४६॥
मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः
विलयं यांति ते सर्व आदित्योच्चारणेन तु ॥४७॥
रक्ष मां देवदेवेश ग्रहरोगभयेषु च
प्रशमं यांति ते सर्वे कीर्तिते तु दिवाकरे ॥४८॥
मूलमंत्रं प्रवक्ष्यामि सर्वकामार्थसाधकम्
भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः ॥४९॥
मंत्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः
अनेन मंत्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं ॥५०॥
व्याधयो वै न बाधंते न चानिष्टं भयं भवेत्
सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु ॥५१॥
तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते
न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः ॥५२॥
अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च
कटुतैलसमायुक्तं नस्ये पाने च दापयेत् ॥५३॥
सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते
मूलमंत्रस्तु जप्तव्यः संध्यायां होमकर्मसु ॥५४॥
जप्यमाने तु नश्यंति रोगाः क्रूरग्रहास्तथा
किमन्यैर्बहुभिः शास्त्रैर्मंत्रैर्वा बहुविस्तरैः ॥५५॥
सर्वशांतिरियं वत्स सर्वार्थप्रतिसाधिका
नास्तिकाय न दातव्या देवब्राह्मणनिंदके ॥५६॥
गुरुभक्ताय दातव्या नान्येभ्योपि कदाचन
प्रातरुत्थाय यो नित्यं कीर्तयिष्यति मानवः ॥५७॥
गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः
शरीरारोग्यकृच्चैव धनवृद्धियशस्करः ॥५८॥
जायते नात्र संदेहो यस्य तुष्येद्दिवाकरः
एककालं द्विकालं वा त्रिकालं नित्यमेव च ॥५९॥
यः पठेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयात्
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् ॥६०॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनं
शृणुयात्संयुतो भक्त्या शुद्धाचारसमन्वितः ॥६१॥
सर्वपापविनिर्मुक्तस्सूर्यलोकं व्रजत्यपि
भास्करस्य व्रते यच्च व्रताचारमखेषु च ॥६२॥
पुण्यस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत्
ग्रहे भोज्येषु पूजायां ब्रह्मभोज्ये द्विजाग्रतः ॥६३॥
य इदं पठते विप्रस्तस्यानंतफलं भवेत्
तपस्विनां च विप्राणां देवानामग्रतः सुधीः ॥६४॥
यः पठेत्पाठयेद्वापि सुरलोके महीयते ॥६५॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे सूर्यशांतिर्नामाष्टसप्ततितमोऽध्यायः ॥७८॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP