सृष्टिखण्डः - अध्यायः ४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता
ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान् ॥१॥
कथं च दक्षदुहिता देहं त्यक्तवती शुभा
मेनायां गर्भसंभूतिमुमाया जन्म एव च ॥२॥
किमर्थं देवदेवेन पत्नी हैमवती कृता
विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे ॥३॥
पुलस्त्य उवाच
इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया
श्रीसंबंधो मयाप्येष श्रुत आसीत्पितामहात् ॥४॥
अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्
विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम् ॥५॥
याचयामास मे देहि जटाजूटे करोम्यहम्
इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा ॥६॥
ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप
गृहीत्वा सुचिरं कालं शिरोमालां बबंध ह ॥७॥
उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्
इयं विद्याधरी कन्या पीनोन्नत पयोधरा ॥८॥
शोभालंकारसौभाग्यैर्युक्ता दृष्टा ततो मनः
क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः ॥९॥
व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्
एवमुक्त्वा स राजेंद्र परिबभ्राम मेदिनीम् ॥१०॥
ऐरावतं समारूढं राजानं त्रिदिवौकसाम्
त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम् ॥११॥
तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥१२॥
गृहीत्वा देवराजेन माला सा गजमूर्द्धनि
मुक्ता रराज सा माला कैलासे जाह्नवी यथा ॥१३॥
मदांधकारिताक्षोसौ गंधाघ्राणेन वारणः
करेणादाय चिक्षेप तां मालां पृथिवीतले ॥१४॥
ततश्चुक्रोध भगवान्दुर्वासा मुनिपुंगवः
राजेंद्रदेवराजानं क्रुद्धश्चेदमुवाच ह ॥१५॥
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव
श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनंदसि ॥१६॥
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति
मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले ॥१७॥
तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति
यस्य संजातकोपस्य भयमेति चराचरम् ॥१८॥
तं मां त्वमतिगर्वेण देवराजावमन्यसे
महेंद्रो वारणस्कंधादवतीर्य त्वरान्वितः ॥१९॥
प्रसादयामास मुनिं दुर्वाससमकल्मषम्
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ॥२०॥
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो
इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः ॥२१॥
आरुह्यैरावतं नागं प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् ॥२२॥
न यज्ञाः संप्रवर्तंते न तपस्यंति तापसाः
न च दानानि दीयंते नष्टप्रायमभूज्जगत् ॥२३॥
एवमत्यंतनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते
देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः ॥२४॥
विजितास्त्रिदशा दैत्यैरिंद्राद्याः शरणं ययुः
पितामहं महाभागं हुताशनपुरोगमाः ॥२५॥
यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्
क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः ॥२६॥
गत्वा जगाद भगवान्वासुदेवं पितामहः
उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु ॥२७॥
त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः
इत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः ॥२८॥
अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह
तेजसो भवतां देवाः करिष्याम्युपबृंहणम् ॥२९॥
वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः ॥३०॥
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्
मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥३१॥
सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि
समानफलभोक्तारो यूंय चात्र भविष्यथ ॥३२॥
मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्
तत्पानाद्बलिनो यूयममराः संभविष्यथ ॥३३॥
तथैवाहं करिष्यामि यथा त्रिदशविद्विषः
न प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः ॥३४॥
इत्युक्ता देवदेवेन सर्व एव ततः सुराः
संधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन् ॥३५॥
सर्वौषधीः समानीय देवदैतेयदानवाः
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥३६॥
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्
ततो मथितुमारब्धा राजेंद्र तरसामृतम् ॥३७॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः ॥३८॥
ते तस्य प्राणवातेन वह्निना च हतत्त्विषः
निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते ॥३९॥
तेनैव मुखनिःश्वासवायुनाथ बलाहकैः
पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः ॥४०॥
क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः
महादेवो महातेजा विष्णुपृष्ठनिवासिनौ ॥४१॥
बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः
शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम् ॥४२॥
देवानां दानवानां च बलमध्ये व्यवस्थितः
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः ॥४३॥
अन्येन तेजसा देवानुपबृंहितवान्हरिः
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः ॥४४॥
हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता
जग्मुर्मुदं तदा देवा दानवाश्च महामते ॥४५॥
व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः
किमेतदिति सिद्धानां दिवि चिंतयतां तदा ॥४६॥
बभूव वारुणी देवी मदाघूर्णितलोचना
कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे ॥४७॥
एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचना
अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः ॥४८॥
अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराः
जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत् ॥४९॥
मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमः
रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः ॥५०॥
षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः
सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा ॥५१॥
ततः शीतांशुरभवद्देवानां प्रीतिदायकः
ययाचे शंकरो देवो जटाभूषणकृन्मम ॥५२॥
भविष्यति न संदेहो गृहीतोयं मया शशी
अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु ॥५३॥
ततो विषं समुत्पन्नं कालकूटं भयावहं
तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः ॥५४॥
महादेवेन तत्पीतं विषं गृह्य यदृच्छया
तस्य पानान्नीलकंठस्तदा जातो महेश्वरः ॥५५॥
पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्
ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम् ॥५६॥
बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितः
ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात् ॥५७॥
ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा
तत स्फुरत्कांतीमतिविकासि कमलेस्थिता ॥५८॥
श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजा
तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः ॥५९॥
विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुः
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥६०॥
गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे
दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ॥६१॥
स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्
क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम् ॥६२॥
ददौ विभूषणान्यंगे विश्वकर्मा चकार ह
दिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम् ॥६३॥
इंद्राद्याश्चामरगणा विद्याधरमहोरगाः
दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः ॥६४॥
कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह
वासुदेव त्वमेवैनां मया दत्तां गृहाण वै ॥६५॥
देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह
तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा ॥६६॥
सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं
मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः ॥६७॥
पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः
ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत् ॥६८॥
नाहं त्याज्या सदा देव सदैवादेशकारिणी
वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय ॥६९॥
ततोवलोकिता देवा विष्णुवक्षस्थलस्थया
लक्ष्म्या राजेंद्र सहसा परां निर्वृतिमागताः ॥७०॥
उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः
त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः ॥७१॥
ततस्ते जगृहुर्दैत्या धन्वंतरिकरस्थितम्
अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः ॥७२॥
मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः
आगत्य दानवान्प्राह दीयतां मे कमंडलुः ॥७३॥
युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे
तां दृष्ट्वा रूपसंपन्नां नारीं त्रैलोक्यसुंदरीम् ॥७४॥
प्रार्थयानास्सुवपुषं लोभोपहतचेतसः
दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः ॥७५॥
दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं
ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम् ॥७६॥
उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः
पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः ॥७७॥
वध्यमाना दिशो भेजुः पातालं विविशुश्च ते
ततो देवा मुदायुक्ताः शंखचक्रगदाधरम् ॥७८॥
प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्
ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन् ॥७९॥
अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्
ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना ॥८०॥
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः
धर्मे च सर्वभूतानां तदा मतिरजायत ॥८१॥
श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं
देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा ॥८२॥
भवतां रक्षणार्थाय मया विष्णुर्नियोजितः
उमापतिश्च देवेशो योगक्षेमं करिष्यतः ॥८३॥
उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः
ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ ॥८४॥
एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः
अदर्शनं गते देवे सर्वलोकपितामहे ॥८५॥
देवलोकं गते शक्रे स्वं लोकं हरिशंकरौ
प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च ॥८६॥
ततस्तु देवराजेन पालितं भुवनत्रयम्
एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात् ॥८७॥
पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी
श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा ॥८८॥
स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे
नर्मदायां महाराज ब्रह्मणा चानुमोदिता ॥८९॥
लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च
आगता देवलोकं साऽयाचतागत्य वै पुनः ॥९०॥
लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः
भृगोः सकाशान्नावाप तदा चैवाह केशवम् ॥९१॥
परिभूता तु पित्राहं गृहीतं नगरं मम
तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम् ॥९२॥
तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरः
भृगुं सानुनयं प्राह कन्यायै पुरमर्पय ॥९३॥
कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः
भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम् ॥९४॥
न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्
भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव ॥९५॥
तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय
सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने ॥९६॥
ततः कोपसमाविष्टो भृगुरप्याह केशवम्
पक्षपातेन मां साधो भार्याया बाधसेधुना ॥९७॥
नृलोके दशजन्मानि लप्स्यसे मधुसूदन
भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि ॥९८॥
एवं शापं ददौ तस्मै भृगुः परमकोपनः
विष्णुना च पुनस्तस्य दत्तः शापो महात्मना ॥९९॥
न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगव
शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह ॥१००॥
पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः
भगवंस्तव पुत्रोसौ भृगुः परमकोपनः ॥१०१॥
निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे
लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः ॥१०२॥
भार्यावियोगजा पीडा बलपौरुषनाशिनी
त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ ॥१०३
देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः
तथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा ॥१०४॥
प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह
त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्
तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव ॥१०५॥
त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो
त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम ॥१०६॥
दशजन्ममनुष्येषु लोकानां हितकाम्यया
स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा ॥१०७॥
कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन
मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम् ॥१०८॥
योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर
कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव ॥१०९॥
भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः
सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा ॥११०॥
त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति
एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान् ॥१११॥
सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो
अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान् ॥११२॥
गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः
भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः ॥११३॥
तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम् ॥११४॥
यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः
ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति ॥११५॥
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा
ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे ॥११६॥
त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनः
गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः ॥११७॥
त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायत
वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ॥११८॥
अक्ष्णोः सूर्योनिलः श्रोत्राच्चंद्रमा मनसस्तव
प्राणोंतः सुषिराज्जातो मुखादग्निरजायत ॥११९॥
नाभितो गगनं द्यौश्च शिरसः समवर्त्तत
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम् ॥१२०॥
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः
ससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि ॥१२१॥
बीजांकुरसमुद्भूतो न्यग्रोधः समुपस्थितः
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥१२२॥
यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते
एवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते ॥१२३॥
ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनी
ह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते ॥१२४॥
पृथग्भूतैकभूताय सर्वभूताय ते नमः
व्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान् ॥१२५॥
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्
सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः ॥१२६॥
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः
कथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं ॥१२७॥
यो मे मनोरथो देव सफलः स त्वया कृतः
तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते ॥१२८॥
ब्रह्मोवाच
तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना
मद्दर्शनं हि विफलं नारदेह न जायते ॥१२९॥
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः
सर्वं संपद्यते तात मयि दृष्टिपथं गते ॥१३०॥
नारद उवाच
भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि
किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम् ॥१३१॥
कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो
तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान् ॥१३२॥
पुलस्त्य उवाच
नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः
नारदाय वरं प्रादादृषीणामुत्तमो भवान् ॥१३३॥
भविता मत्प्रसादेन कलिकेलिकथाप्रियः
गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले ॥१३४॥
यज्ञोपवीतसूत्रेण योगपट्टावलंबिका
छत्रिका च तथा वीणा अलंकाराय तेनघ ॥१३५॥
विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद
द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे ॥१३६॥
वर्णानां तु भवान्शास्तावरोदत्तोमयातव
तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि ॥१३७॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे लक्ष्म्युत्पत्तिर्नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : October 24, 2020
TOP