संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ३५ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ३५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३५ Translation - भाषांतर भीष्म उवाचउक्तं भगवता सर्वं पुराणाश्रयसंयुतंतथा श्वेतेन ब्रह्मांडं गुरवे प्रतिपादितं ॥१॥श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनंकृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज ॥२॥तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाःअन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः ॥३॥कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनःन दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम् ॥४॥अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम्परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयतां व्रजेत् ॥५॥अन्नदानं परं विप्राः कीर्तयंति सदोत्थिताःअन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते ॥६॥शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैःतेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः ॥७॥दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मयाअपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित् ॥८॥भूयोपि श्रोतुमिच्छामि तन्मे वद महामतेपुलस्त्य उवाचएतदाख्यानकं पूर्वमगस्त्येन महात्मना ॥९॥रामाय कथितं राजंस्तत्ते वक्ष्यामि सांप्रतम्भीष्म उवाचकस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः ॥१०॥यस्यागस्त्येन कथितश्चेतिहासः पुरातनःपुलस्त्य उवाचरघुवंशे समुत्पन्नो रामो नाम महाबलः ॥११॥देवकार्यं कृतं तेन लंकायां रावणो हतःपृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे ॥१२॥प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम्प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम् ॥१३॥आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितःदृष्ट्वा रामं द्वारपालः पूर्णचंद्रमिवोदितम् ॥१४॥कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरीद्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनंदन ॥१५॥अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृपश्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन् ॥१६॥प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितःकिमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः ॥१७॥रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम्दृष्ट्वा तु तान्मुनींन्प्राप्तान्प्रत्युवाच कृतांजलि ॥१८॥रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत्ते तु कांचनचित्रेषु स्वास्तीर्णेषु सुखेषु च ॥१९॥कुशोत्तरेषु चासीनाः समंतान्मुनिपुंगवाःपाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः ॥२०॥रामेण कुशलं पृष्टा ऋषयः सर्व एव तेमहर्षयो वेदविद इदं वचनमब्रुवन् ॥२१॥कुशलं ते महाबाहो सर्वत्र रघुनंदनत्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम् ॥२२॥हृता सीतातिपापेन रावणेन दुरात्मनापत्नी ते रघुशार्दूल तस्या एवौजसा हतः ॥२३॥असहायेन चैकेन त्वया राम रणे हतःयादृशं ते कृतं कर्म तस्य कर्ता न विद्यते ॥२४॥इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम्दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः ॥२५॥रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम् ॥२६॥दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रमदृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान् ॥२७॥अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम्अर्पितं चाक्षयौ तूणौ कवचं च परंतप ॥२८॥भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वहएवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन् ॥२९॥गतेषु मुनिमुख्येषु रामो धर्मभृतां वरःचिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम् ॥३०॥भूयोप्यागमनं कार्यमाश्रमे रघुनंदनअवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ ॥३१॥श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्एवं चिंतयतस्तस्य रामस्यामिततेजसः ॥३२॥करिष्ये नियतं धर्मं धर्मो हि परमा गतिःसुतवर्षसहस्राणि दश राज्यमकारयत् ॥३३॥ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत्प्रजाः पालयतस्तस्य राघवस्य महात्मनः ॥३४॥एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजःमृतं पुत्रमुपादाय रामद्वारमुपागतः ॥३५॥उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम्दुष्कृतं किंतु मे पुत्र पूर्वदेहांतरे कृतम् ॥३६॥त्वामेकपुत्रं यदहं पश्यामि निधनं गतम्अप्राप्तयौवनं बालं पंचवर्षं गतायुषम् ॥३७॥अकाले कालमापन्नं दुःखाय मम पुत्रकअकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥३८॥रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतःबालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम् ॥३९॥प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयिशुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥४०॥निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत्किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते ॥४१॥प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम्कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम् ॥४२॥वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदःप्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा ॥४३॥शृणु राम यथाकालं प्राप्तो वै बालसंक्षयःपुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम् ॥४४॥अब्राह्मणो न वै कश्चित्तपस्तपति राघवअमृत्यवस्तदा सर्वे जायंते चिरजीविनः ॥४५॥त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत् ॥४६॥एवं निरंतरं जुष्टमुद्भूतमनृतं पुनःअधर्मस्य त्रयः पादा एको धर्मस्य चागतः ॥४७॥ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाःभूयः पादस्तु धर्मस्य द्वितीयः समपद्यत ॥४८॥तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत्युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति ॥४९॥कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमेअधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35. ॥५०॥भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगेस ते विषयपर्यंते राजन्नुग्रतरं तपः ॥५१॥शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतःयस्याधर्ममकार्यं वा विषये पार्थिवस्य हि ॥५२॥पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरःक्षिप्रं स नरकं याति यावदाभूतसंप्लवम् ॥५३॥चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवःसत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम् ॥५४॥दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचरएवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा ॥५५॥भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः ॥५६॥प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण ॥५७॥बालस्य च शरीरं त्वं तैलद्रोण्यां निधापयगंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः ॥५८॥यथा न शीर्यते बालस्तथा सौम्य विधीयताम्यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः ॥५९॥विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरुतथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम् ॥६०॥मनसा पुष्पकं दध्यावागच्छेति महायशाःइंगितं तत्तु विज्ञाय कामगं हेमभूषितम् ॥६१॥आजगाम मुहूर्तात्तु समीपं राघवस्य हिसोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप ॥६२॥अग्रे तव महाबाहो किंकरः समुपस्थितःभाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप ॥६३॥अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहतधनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम् ॥६४॥निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौप्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः ॥६५॥उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः ॥६६॥सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः ॥६७॥शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरःतस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः ॥६८॥ददर्श राघवो भीमं लंबमानमधोमुखंतमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम् ॥६९॥उवाच राघवो वाक्यं धन्यस्त्वममरप्रभकस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय ॥७०॥अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः ॥७१॥किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापसब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः ॥७२॥वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे ॥७३॥सात्विकं राजसं चैव तच्च सत्यात्मकं तपःजगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना ॥७४॥रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यतेपरस्योत्सादनार्थाय तच्चासुरमुदाहृतम् ॥७५॥अंगानि निह्नुते यो वा असृग्दिग्धानि भागशःपंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा ॥७६॥आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतःसत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम् ॥७७॥तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणःअवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह ॥७८॥स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघवपुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ ॥७९॥अथवा नैतदेवं हि सर्वेषां नृपतिः पितासत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः ॥८०॥चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवान धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव ॥८१॥यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाःतपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव ॥८२॥यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपःशूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः ॥८३॥देवत्वं प्रार्थये राम स्वशरीरेण सुव्रतन मिथ्याहं वदे भूप देवलोकजिगीषया ॥८४॥शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतःभाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं ॥८५॥निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवःतस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः ॥८६॥साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुःपुष्पवृष्टिश्च महती देवानां सुसुगंधिनी ॥८७॥आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम् ॥८८॥सुरकार्यमिदं सौम्य कृतं ते रघुनंदनगृहाण च वरं राम यमिच्छसि महाव्रत ॥८९॥त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवंदेवानां भाषितं श्रुत्वा राघवः सुसमाहितः ॥९०॥उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम् ॥९१॥कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतुवरमेतद्धि भवतां कांक्षितं परमं हि मे ॥९२॥ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकःअप्राप्तकालः कालेन नीतो वैवस्वत क्षयम् ॥९३॥तं जीवयत भद्रं वो नानृती स्यामहं गुरोःद्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम् ॥९४॥मदीयेनायुषा बालं पादेनार्द्धेन वा सुराःजीवेदयं वरो मह्यं वरकोट्यधिको वृतः ॥९५॥राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाःप्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः ॥९६॥निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकःजीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः ॥९७॥यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितःतस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत ॥९८॥स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपःअगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम् ॥९९॥स तथेति प्रतिज्ञाय देवानां रघुनंदनःआरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥१००॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे शूद्रतापसवधोनाम पंचत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP