सृष्टिखण्डः - अध्यायः ५१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नरोत्तम उवाच -
त्रिदशानां च देवानामन्येषां जगदीश्वरः
प्रभुः कर्ता च हर्त्ता च गोप्ता भर्त्ता पिता प्रसूः ॥१॥
अस्माकं वाक्श्रमो विष्णोः कथनेनैव युज्यते
किंतु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा ॥२॥
कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि
अतीतं चैव जानाति कथं नाथ पतिव्रता ॥३॥
किं वा तस्यां प्रभावं च वक्तुमर्हस्यशेषतः
भगवानुवाच -
कथितं मे पुरा वत्स पुनः कौतूहलं द्विज ॥४॥
कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते
पतिव्रता पतिप्राणा सदा पत्युर्हिते रता ॥५॥
देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनां
धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता ॥६॥
तस्या संमानने गुर्वी निभृता न भविष्यति
मध्यदेशे पुरा तात नगरी चातिशोभना ॥७॥
तस्यां च ब्रह्मजातीया सेव्या नाम्नी पतिव्रता
तस्या धवोऽभवत्कुष्ठी पूर्वकर्मविरोधतः ॥८॥
गलद्व्रणास्य पत्युश्च नित्यं चर्यापरायणा
यद्यन्मनोरथं तस्य शक्त्या सा कुरुते भृशम् ॥९॥
अर्चयेद्देववन्नित्यं स्नेहं कुर्यादमत्सरा
कदाचित्पथि गच्छंतीं वेश्यां परमसुंदरीम् ॥१०॥
दृष्ट्वाऽतीवाभवन्मोहान्मन्मथाविष्टचेतनः
निश्श्वस्य सुतरां दीर्घं ततस्तु विमनाऽभवत् ॥११॥
श्रुत्वा गृहाद्विनिःसृत्य साध्वी पप्रच्छ तं पतिं
उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो ॥१२॥
ब्रूहि मे यच्च कर्तव्यमकर्तव्यं च यत्प्रियम्
दयितं ते करिष्यामि त्वमेको मे गुरुः प्रियः ॥१३॥
अभीष्टं वद मे नाथ यथाशक्ति करोम्यहम्
इत्युक्ते तामुवाचेदं वृथा किं भाषसे प्रिये ॥१४॥
न शक्ता त्वं न चैवाहं मोघं वक्तुं न युज्यते
प्रष्टुं नाधिकरोषीति यथा दीर्घतरोः फलम् ॥१५॥
भूमौ स्थित्वा तु खर्वात्मा समुद्धर्तुं प्रवांछति
तथा मे रमणी लोभान्मोहाद्यदभिवांछितम् ॥१६॥
दंपत्योरपि दुःसाध्यमपयानं वदाम्यहम्
पतिव्रतोवाच -
ज्ञात्वा तु त्वन्मनोवृत्तं शक्ताहं कार्यसाधने ॥१७॥
आदेशं कुरु मे नाथ कर्तव्यं येन केनचित्
यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः ॥१८॥
तदा मे त्वतिकल्याणं फलिष्यति परे त्विह
इत्युक्ते परमः प्रीतः स्थितो वचनमब्रवीत् ॥१९॥
पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः
पथ्यस्मिन्संप्रगच्छंतीं वेश्यां परमसुंदरीम् ॥२०॥
सर्वतश्चानवद्यांगीं दृष्ट्वा मे दह्यते मनः
यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनां ॥२१॥
तदा मे सफलं जन्म कुरु साध्वि हितं मम
यदि मां कुष्ठिनं दीनं पूतिगंधं नवव्रणम् ॥२२॥
न गच्छति वरारोहा तदा मे निधनं हितम्
श्रुत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत् ॥२३॥
यथाशक्ति करिष्यामि स्थिरी भव प्रभोऽधुना
मनसाथ समालोच्य क्षपांते ह्युषसि द्रुतम् ॥२४॥
गोमयं सह शोधन्या गृहीत्वा सा ययौ मुदा
संप्राप्य गणिकागेहं शोधयित्वा च चत्वरम् ॥२५॥
प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा
सा तूर्णमागता गेहे जनस्यालोकने भयात् ॥२६॥
एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम्
अथ सा वारमुख्या च चेटिकाश्चेटकानपि ॥२७॥
अपृच्छत्कस्य कर्माणि शोभनानि च चत्वरे
मया नोक्तेप्युषः काले कस्य मत्प्रियकारणात् ॥२८॥
रुच्यकर्मणि दीप्यंते रथ्या चत्त्वर वीथिकाः
परस्परेण संचिंत्य वारमुख्यां च तेऽब्रुवन् ॥२९॥
अस्माभिर्न कृतं भद्रे कर्म चैतत्प्रमार्जनम्
अथ सा विस्मयं गत्वा संचिंत्य रजनीक्षये ॥३०॥
तया च दृश्यते सा च तथैव पुनरागता
दृष्ट्वा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम् ॥३१॥
दधार चरणे तस्या हा क्षमस्वेति भाषिणी
आयुर्देहं च संपत्तिर्यशोर्थः कीर्तिरेव च ॥३२॥
एतासां मे विनाशाय स्फुरसीव पतिव्रते
यद्यत्प्रार्थयसे साध्वि नित्यं दास्यामि तद्दृढम् ॥३३॥
सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं
तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम् ॥३४॥
अस्ति कार्यं च ते किञ्चिद्वदामि कुरुषे यदि
तदा मे हृदि संतोषः कृतं सर्वं त्वयाऽधुना ॥३५॥
गणिकोवाच -
सत्यं सत्यं करिष्यामि द्रुतं वद पतिव्रते
कुरु मे रक्षणं मातर्द्रुतं कृत्यं च मे वद ॥३६॥
त्रपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियम्
क्षणं विमृश्य सा वेश्या कृत्वा क्षांतिमुवाच च ॥३७॥
कुष्ठिनः पूतिगंधस्य संपर्के दुःखिता भृशम्
दिनैकं च करिष्यामि यद्यागच्छति मद्गृहम् ॥३८॥
पतिव्रतोवाच -
आगमिष्यामि ते गेहमद्य रात्रौ च सुंदरि
भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहम् ॥३९॥
गणिकोवाच -
गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते
पतिस्ते चार्द्धरात्रे स आगच्छतु च मद्गृहम् ॥४०॥
बहवो मे प्रियास्संति राजानस्तत्समाश्च ये
एकैको मद्गृहे नित्यं तिष्ठतीह निरंतरम् ॥४१॥
अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात्
स चागच्छतु ते भर्त्ता स चास्मान्प्राप्य गच्छतु ॥४२॥
एतच्छ्रुत्वा तु सा साध्वी गतासौ स्वगृहे तथा
पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो ॥४३॥
अद्य रात्रौ च तद्गेहं गंतुं ख्यातिं करोति सा
प्रभूताः पतयस्तस्यास्तव कालो न विद्यते ॥४४॥
विप्र उवाच -
कथं यास्यामि तद्गेहं मया गंतुं न शक्यते
एतज्ज्ञात्वा कुतः क्षांतिः कृतं कार्यं कथं भवेत् ॥४५॥
पतिव्रतोवाच -
स्वपृष्ठस्थमहं कृत्वा नेष्यामि तद्गृहं प्रति
सिद्धे ह्यर्थे नयिष्यामि पुनस्ते नैव वर्त्मना ॥४६॥
द्विज उवाच -
कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति
इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहम् ॥४७॥
तस्मिंश्च नगरे रम्ये नित्यं च धनिनो गृहे
पौरेश्च प्रचुरं वित्तं हृतं राज्ञा श्रुतं तदा ॥४८॥
श्रुत्वा सर्वान्निशाचारानाहूय नृपती रुषा
जीवितुं यदि वो वांछा चोरं मामद्य दास्यथ ॥४९॥
गृहीत्वा तु नृपस्याज्ञां यत्तैर्जिघृक्षयाकुलैः
चारैश्चोरो गृहीतस्तैर्बलाच्चैव नृपाज्ञया ॥५०॥
नगरोपांतदेशे च वृक्षमूले घने वने
समाधिस्थोमहातेजामांडव्योमुनिपुंगवः ॥५१॥
व्यातिष्ठद्वह्निसंकाशो योगिनां प्रवरो मुनिः
अंतर्नाडीगतो वायुः किंचिन्न प्रतिभाति च ॥५२॥
तं ब्रह्मतुल्यं तिष्ठन्तं दृष्ट्वा दुष्टा महामुनिम्
चोरोयमद्भुताकारो धूर्तस्तिष्ठति कानने ॥५३॥
एवमुक्त्वा तु तं पापा बबन्धुर्मुनिसत्तमम्
नोक्ताश्च नेक्षितास्तेन पुरुषा अतिदारुणाः ॥५४॥
ततो राजा उवाचेदं संप्राप्तस्तस्करो मया
उपांते च पथिद्वारे कुरुध्वं घोरदण्डनम् ॥५५॥
मांडव्यश्च मुनिस्तत्र पथिशूले च कीलितः
पायुदेशे च तैर्दत्तं शूलं यावच्च मस्तकम् ॥५६॥
व्यथां स च न जानाति शूले विद्धतनुर्यमात्
अन्यैरपि कृतो दण्डः कृतस्तैस्तु मनोहितः ॥५७॥
एतस्मिन्नंतरे रात्रावंधकारे घनोन्नते
स्वपतिं पृष्ठतः कृत्वा प्रययौ सा पतिव्रता ॥५८॥
मांडव्यस्य तनौ सङ्गात्कुष्ठिनो गंध आगतः
भग्नः समाधिस्तस्यैवं कुष्ठिसंसर्गतो ध्रुवम् ॥५९॥
मांडव्य उवाच -
एवं येनाधुना कृच्छ्रं कारितं गात्रवेदनम्
स एव भस्मतां यातु प्रोदिते च विरोचने ॥६०॥
मांडव्येनैवमुक्तस्स पपात धरणीतले
ततः पतिव्रता चाह ब्रध्नो नोदयतु ध्रुवं ॥६१॥
दिनत्रयं गृहं नीत्वा शापाद्वेश्मगता ततः
शयनीये स्थितं रम्ये धृत्वाऽतिष्ठत्पतिव्रता ॥६२॥
शप्त्वा तं च मुनिश्रेष्ठो गतो देशमभीष्टकम्
सूरो नोदयते लोके यावच्चैव दिनत्रयम् ॥६३॥
निखिलं व्यथितं दृष्ट्वा त्रैलोक्यं सचराचरम्
शतक्रतुं पुरस्कृत्य गता देवाः पितामहम् ॥६४॥
वृत्तं न्यवेदयन्सर्वं पद्मयोनौ दिवौकसः
कारणं च न जानीमस्त्वं तु योग्यं विधेहि नः ॥६५॥
ब्रह्मोवाच -
पतिव्रताया यद्वृत्तं मांडव्यस्य मुनेश्च यत्
यथा नोदयते ब्रध्नो धाता देवेष्ववेदयत् ॥६६॥
ततो देवा विमानैश्च पुरस्कृत्य प्रजापतिम्
गतास्तदंतिकं विप्र तूर्णं सर्वे च भूतलम् ॥६७॥
तेषां श्रिया विमानानां मुनीनां किरणैस्तथा
शतसूर्यमिवाभाति नान्यत्र च गृहोदरे ॥६८॥
हा हतास्मि कथं सूरो मद्गृहे समुपस्थितः
अदृश्यंत तया देवा विमानैर्हंससन्निभैः ॥६९॥
एतस्मिन्नंतरे ब्रह्मा तामुवाच पतिव्रताम्
अखिलानां च देवानां द्विजानां च गवां तथा ॥७०॥
यथैव निधनं तेषां कथं ते परिरोचते
मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति ॥७१॥
पतिव्रतोवाच -
सर्वलोकानतिक्रम्य पतिरेको गुरुर्मम
अस्य मृत्युर्मुनेश्शापादुदिते च विरोचने ॥७२॥
तेनैव कारणेनैष मया शप्तो दिवाकरः
न कोपान्न च मोहाच्च लोभात्कामान्न मत्सरात् ॥७३॥
ब्रह्मोवाच -
एकस्य निधनेनैव त्रैलोक्यस्य हितं भवेत्
ततस्ते चाधिकं पुण्यं मातरेवं भविष्यति ॥७४॥
सा चोवाच विधिं तत्र देवानामग्रतः सती
पतिं त्यक्त्वा च मे सत्यं शिवं मे नानुरोचते ॥७५॥
ब्रह्मोवाच -
उदिते च खगे सौम्ये पत्यौ ते भस्मतां गते
स्वस्थेभूते च त्रैलोक्ये करिष्यामि हितं तव ॥७६॥
भस्मनः पुरुषो भाव्यः कामदेवसमप्रभः
गुणैः सर्वैर्युतो भर्ता रतिवत्त्वं च सर्वदा ॥७७॥
यथापूज्यो हरिर्दैवैर्यथा लक्ष्मीश्च पूजिता
तथैव दंपती स्वर्गे तस्मान्मद्वचनं कुरु ॥७८॥
पतिव्रतोवाच -
पत्युर्मे निधने ब्रह्मन्विधवा लोकनिंदिता
कांस्तु लोकान्गमिष्यामि भग्ना चारामलीमसा ॥७९॥
ब्रह्मोवाच -
अतस्ते नास्ति दोषो वै न मृतस्ते धवोऽधुना
अस्माकं वचनेनैव कुष्ठी मन्मथतां व्रजेत् ॥८०॥
वदत्येवंविधौ सा च विमृश्य क्षणमेव च
बाढमुक्तवती सा च ततस्सूर्योदयोऽभवत् ॥८१॥
अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः
भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः ॥८२॥
दृष्ट्वा विस्मयपमापन्नाः सर्वे ते पुरवासिनः
मुदिता देवसंघाश्च जनः स्वस्थतरोऽभवत् ॥८३॥
विमानेनार्कवर्णेन स्वर्लोकादागतेन च
पतिना सह सा साध्वी सुरैः सार्द्धं गता दिवम् ॥८४॥
एवं पतिव्रता यस्माच्छुभा चैव तु मत्समा
तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम् ॥८५॥
य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम्
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत् ॥८६॥
अक्षयं लभते स्वर्गं विबुधैः संप्रयुज्यते
ब्राह्मणो लभते वेदं जन्मजन्मसु बाडव ॥८७॥
सकृच्छृणोति यः पूतो दुष्कृतौघाद्विमुच्यते
सुरालयमवाप्नोति स्वर्गाद्भ्रष्टो धनी भवेत् ॥८८
इतिश्रीपद्मपुराणे प्रथमे सृष्टिखंडे पतिव्रतोपाख्यानंनामैकपंचाशत्तमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP