सृष्टिखण्डः - अध्यायः ३१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
भगवन्महदाश्चर्यं बाष्कलेर्बंधनं हि यत्
कृतं त्रिविक्रमं रूपं यदा संयमितो बलि ॥१॥
एतन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः
पाताले वसतेद्यापि वैरोचनसुतो बलि ॥२॥
नागतीर्थं यथाभूतं पिशाचानां तु संभवम्
शिवदूती कथं चात्र केनेयं मंगलीकृता ॥३॥
अंतरिक्षे पुष्करं तु केन नीतं महामुने
एतदाचक्ष्व मे सर्वं यथा बाष्कलिबंधनम् ॥४॥
भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना
द्वितीये कारणं किं च येन देवश्चकार ह ॥५॥
तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद
पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता ॥६॥
पुलस्त्य उवाच
प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः
कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम ॥७॥
विष्णोः पदानुषंगेण बंधनं बाष्कलेरिह
श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं ॥८॥
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेंतरे
त्रैलोक्यं बलिनाक्रांतं विष्णुना प्रभविष्णुना ॥९॥
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि
भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम् ॥१०॥
प्रादुर्भावो वामनस्य तथाभूतो नराधिप
पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः ॥११॥
उत्पत्तिरेषा ते सर्वा कथिता कुरुनंदन
नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत ॥१२॥
अनंतो वासुकिश्चैव तक्षकश्च महाबलः
कर्कोटकश्च नागेंद्रः पद्मश्चान्यः सरीसृपः ॥१३॥
महापद्मस्तथा शंखः कुलिकश्चापराजितः
एते कश्यपदायादा एतैरापूरितं जगत् ॥१४॥
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्
कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः ॥१५॥
दष्ट्वा मंदांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते
तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप ॥१६॥
अहन्यहनि जायेत क्षयः परमदारुणः
आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समंततः ॥१७॥
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते ॥१८॥
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसंज्ञकम्
प्रजा ऊचुः
देवदेवेश लोकानां प्रसूते परमेश्वर ॥१९॥
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्
दिनेदिने भयं देव पश्यामः कृपणा भृशम् ॥२०॥
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्
त्वया सृष्टिः कृता देव क्षीयते तु भुजंगमैः ॥२१॥
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह
ब्रह्मोवाच
अहं रक्षां विधास्यामि भवतीनां न संशयः ॥२२॥
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः
एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना ॥२३॥
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयंभुवम्
प्रयातासु प्रजास्वेवं तानाहूय भुजंगमान् ॥२४॥
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा
ब्रह्मोवाच
अहन्यहनि भूतानि भक्ष्यंते वै दुरात्मभिः ॥२५॥
नश्यंति तूरगैर्दष्टा मनुष्याः पशवस्तथा
यस्मान्मत्प्रभवान्नित्यं क्षयं नयथ मानुषान् ॥२६॥
अतोन्यस्मिन्भवे भूयान्ममकोपात्सुदारुणात्
भवतां हि क्षयो घोरो भावि वैवस्वतेंतरे ॥२७॥
तथान्यः सोमवंशीयो राजा वै जनमेजयः
धक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने ॥२८॥
मातृष्वसुश्च तनयांस्तार्क्ष्यो वो भक्षयिष्यति
एवं वो भविता नाशः सर्वेषां दुष्टचेतसाम् ॥२९॥
शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम्
एवमुक्ते तु वेपंतो ब्रह्मणा भुजगोत्तमाः ॥३०॥
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा
भगवन्कुटिला जातिरस्माकं भूतभावन ॥३१॥
विषोल्बणत्वं क्रूरत्वं दंदशूकत्वमेव च
संपादितं त्वया देव इदानीं शपसे कथं ॥३२॥
ब्रह्मोवाच
यदि नाम मया सृष्टा भवंतः कुटिलाशयाः
ततः किं बहुना नित्यं भक्षयध्वं गतव्यथाः ॥३३॥
नागा ऊचुः
मर्यादां कुरु देवेश स्थानं चैव पृथक्पृथक्
मनुष्याणां तथास्माकं समयं देव कारय ॥३४॥
शापो यो भवता दत्तो मनुष्यो जनमेजयः
नाशं नः सर्पसत्रेण उल्बणं च करिष्यति ॥३५॥
ब्रह्मोवाच
जरत्कारुरिति ख्यातो भविता ब्रह्मवित्तमः
जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुतः ॥३६॥
रक्षां कर्ता स वो विप्रो भवतां कुलपावनः
तथा करोमि नागानां समयं मनुजैः सह ॥३७॥
तदेकमनसः सर्वे शृणुध्वं मम शासनम्
सुतलं वितलं चैव तृतीयं च तलातलम् ॥३८॥
दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ
तत्र भोगान्बहुविधान्भुंजाना मम शासनात् ॥३९॥
तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनःपुनः
ततो वैवस्वतस्यादौ काश्यपेयो भविष्यति ॥४०॥
दायादः सर्वदेवानां सुपर्णस्सर्पभक्षकः
तदा प्रसूतिः सर्पाणां दग्धा वै चित्रभानुना ॥४१॥
भवतां चैव सर्वेषां भविष्यति न संशयः
ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामंतो भाविता नान्यथैतत् ॥४२॥
कालव्याप्तं भक्षयध्वं च सत्वं तथापकारे चकृते मनुष्यम्
मंत्रौषधैर्गारुडैश्चैव तंत्रैर्बंधैर्जुष्टा मानवा ये भवंति ॥४३॥
तेभ्यो भीतैर्वर्तितव्यं न चान्यच्चित्ते कार्यं चान्यथा वो विनाशः
इतीरिते ब्रह्मणा वै भुजंगा जग्मुः स्थानं सुतलाख्यं हि सर्वे ॥४४॥
तस्थुर्भोगान्भुंजमानाश्च सर्वे रसातले लीलया संस्थितास्ते
एवं शापं तुते लब्ध्वाप्रसादं च चतुर्मुखात् ॥४५॥
तस्थुः पातालनिलये मुदितेनांतरात्मना
ततः कालांत रेभूते पुनरेवं व्यचिंतयन् ॥४६॥
भविता भरतो राजा पांडवेयो महायशाः
अस्माकं तु क्षयकरो दैवयोगेन केनचित् ॥४७॥
कथं त्रिभुवने नाथः सर्वेषां च पितामहः
सृष्टिकर्ता जगद्वंद्यः शापमस्मासु दत्तवान् ॥४८॥
देवं विरंचिनं त्यक्त्वा गतिरन्या न विद्यते
वैराजे भवनश्रेष्ठे तत्र देवः स तिष्ठति ॥४९॥
स देवः पुष्करस्थो वै यज्ञं यजति सांप्रतम्
गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति ॥५०॥
एवं विचिंत्य ते सर्वे नागा गत्वा च पुष्करम्
यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः ॥५१॥
दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः
उदङ्मुखा वै निष्क्रांतास्सर्वेषां तु सुखप्रदाः ॥५२॥
नागतीर्थं ततो जातं पृथिव्यां भरतर्षभ
नागकुंडं च वै केचित्सरितं चापरेऽब्रुवन् ॥५३॥
पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम्
मज्जन्ति तत्र ये मर्त्या अधिश्रावण पंचमि ॥५४॥
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित्
श्राद्धं पितॄणां ये तत्र करिष्यंति नरा भुवि ॥५५॥
ब्रह्मा तेषां परं स्थानं दास्यते नात्र संशयः
नागानां तु भयं ज्ञात्वा ब्रह्मा लोकपितामहः ॥५६॥
पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा
पंचमी सा तिथिर्धन्या सर्वपापहरा शुभा ॥५७॥
यतोऽस्यामेव सुतिथौ नागानां कार्यमुद्धृतम्
एतस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत् ॥५८॥
क्षीरेण स्नापयेन्नागांस्तस्य ते यांति मित्रताम्
भीष्म उवाच
शिवदूती यथा जाता येन चैव निवेशिता ॥५९॥
तन्मे सर्वं यथातत्त्वं भवान्शंसितुर्महति
पुलस्त्य उवाच
शिवा नीलगिरिं प्राप्ता तपसे धृतमानसा ॥६०॥
रौद्री जटोद्भवा शक्तिस्तस्याः शृणु नृप व्रतम्
तपः कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगत् ॥६१॥
एवमुद्दिश्य पंचाग्निं साधयामास भामिनी
तस्याः कालांतरे देव्यास्तपंत्यास्तप उत्तमम् ॥६२॥
रुरुर्नाममहातेजा ब्रह्मदत्तवरोऽसुरः
समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम् ॥६३॥
तत्रातिष्ठत्स दैत्येंद्रस्सर्वदेवभयंकरः
अनेक शतसाहस्र कोटिकोटिशतोत्तमैः ॥६४॥
असुरैरर्चितः श्रीमान्द्वितीयो नमुचिर्यथा
कालेन महता सोऽथ लोकपालपुरं ययौ ॥६५॥
जिगीषुः सैन्यसंवीतो देवैर्वैरमरोचयत्
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेति वेगात् ॥६६॥
अनेक नाग ग्रह मीनजुष्टमाप्लावयत्पर्वतसानुदेशान्
अंतःस्थितानेकसुरारिसंघं विचित्रवर्मायुधचित्रशोभम् ॥६७॥
भीमं बलं चलितं चारुयोधं विनिर्ययौ सिंधुजलाद्विशालम्
तत्र द्विपा दैत्यभठाभ्युपेताः सयानघंटाश्च समृद्धियुक्ताः ॥६८॥
विनिर्ययुः स्वाकृतिभिर्झषाणां समत्वमुच्चैः खलु दर्शयंतः
अश्वास्तथा कांचनसूत्रनद्धा रोहीतमत्स्या इव ते जलांते ॥६९॥
व्यवस्थितास्तैः सममेव तूर्णं विनिर्ययुर्लक्षशः कोटिशश्च
तथा रविस्यंदनतुल्यवेगाः सचक्रदंडाक्षतवेणुयुक्ताः ॥७०॥
रथाश्च यंत्रोपरिपीडितांगाश्चलत्पताकाः स्वनितं विचक्रुः
तथैव योधाः स्थगितास्तरीभिस्तितीर्षवस्ते प्रवरास्त्रपाणयः ॥७१॥
रणेरणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशं
देवेषु वै रणे तेषु विद्रुतेषु विशेषतः ॥७२॥
असुरास्सर्वदेवानामन्वधावंस्ततस्ततः
ततो देवगणाः सर्वे द्रवंतो भयविह्वलाः ॥७३॥
नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता
रौद्री तपोन्विता धन्या शांभवी शक्तिरुत्तमा ॥७४॥
संहारकारिणी देवी कालरात्रीति यां विदुः
सा तु दृष्ट्वा तदा देवान्भयत्रस्तान्विचेतसः ॥७५॥
पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लांबुजलोचना
पृष्ठतो वो न पश्यामि भयं किंचिदुपागतम् ॥७६
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः
देवा ऊचुः
अयमायाति दैत्येंद्रो रुरुर्भीमपराक्रमः ॥७७॥
चतुरंगेण सैन्येन महता परिवारितः
तस्माद्दीना वयं देवीं भवतीं शरणं गताः ॥७८॥
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा
तस्यां हसंत्यां निश्चेरुर्वरांग्यो वदनात्ततः ॥७९॥
पाशांकुशधराः सर्वाः पीनोन्नतपयोधराः
सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः ॥८०॥
आबद्धमकुटाः सर्वाः संदष्टदशनच्छदाः
फूत्काररावैरशिवैस्त्रासयंत्यश्चराचरम् ॥८१॥
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा
सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः ॥८२॥
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः
ताभिरेवं वृता देवी देवानामभयंकरी ॥८३॥
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः
चतुरंगबलोपेतो रुरुस्तावत्समागतः ॥८४॥
तं नीलपर्वतवरं देवानां मार्गमार्गणः
देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम् ॥८५॥
तिष्ठतिष्ठेति जल्पंतो दैत्यास्ते समुपागताः
ततः प्रववृते युद्धं तासां तेषां महाभयम् ॥८६॥
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां
रोषाद्दंडप्रभग्नानां सर्पाणामिव सर्पताम् ॥८७॥
शक्तिनिर्भिन्नहृदया गदासंचूर्णितोरसः
कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः ॥८८॥
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः
क्षताश्वरथमातंगपादाताः पेतुराहवे ॥८९॥
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना
ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे ॥९०॥
तया संमोहिता देव्यो देवाश्चापि रणाजिरे
तामस्या मायया देव्या सर्वमन्धंतमोभवत् ॥९१॥
ततो देवी महाशक्या तं दैत्यं समताडयत्
तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः ॥९२॥
मायायामथ नष्टायां तामस्यां दानवो रुरुः
पातालमाविशत्तूर्णं तत्रापि परमेश्वरी ॥९३॥
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता
रुरोस्तु दानवेंद्रस्य भीतस्याग्रे गतस्य च ॥९४॥
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता
निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम् ॥९५॥
कन्या सैन्येन महता बहुरूपेण भास्वता
देवैस्तुविस्मितैर्दृष्टा चर्ममुंडधरा रुरोः ॥९६॥
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी
ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः ॥९७॥
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः
बुभुक्षिता वयं देवि देहि नो भोजनं वरम् ॥९८॥
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्
नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत् ॥९९॥
तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुम्
सोपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः ॥१००॥
उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितम्
ब्रूहि देवि महामाये यत्ते मनसि वर्तते ॥१०१॥
शिवदूत्युवाच
छागमध्ये तु वै देव छागरूपेण वर्तसे
एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादरात् ॥१०२॥
भक्षार्थमासां देवेश किंचिद्दातुमिहार्हसि
शूलीकुर्वंति मामेता भक्षार्थिन्यो महाबलाः ॥१०३॥
अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः
एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम् ॥१०४॥
रुद्र उवाच
शिवदूति ब्रवीम्येकं प्रवृत्तं यद्युगांतरे
गंगाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम ॥१०५॥
तत्र यज्ञो मृगो भूत्वा प्रदुद्राव सुवेगवान्
मया बाणेन निर्विद्धो रुधिरेण प्रसेचितः ॥१०६॥
अजगंधस्तदा भूतो नाम देवैस्तु मे कृतम्
अजगंधस्त्वमेवेति दास्ये चान्यत्तु भोजनम् ॥१०७॥
एतासां शृणु मे देवि भक्ष्यमेकं मयोचितम्
कथ्यमानं वरारोहे कालरात्रि महाप्रभे ॥१०८॥
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम्
परिधत्ते स्पृशेद्वापि पुरुषस्य विशेषतः ॥१०९॥
सभागोस्तु वरारोहे कासांचित्पृथिवीतले
अप्येकवर्षं बालं तु गृहीत्वा तत्र वै बलात् ॥११०॥
भुक्त्वा तिष्ठंतु सुप्रीता अपि वर्षशतान्बहून्
अन्याः सूतिगृहे च्छिद्रं गृह्णीयुस्तु ह्यपूजिताः ॥१११॥
निवसिष्यंति देवेशि तथा वै जातहारिकाः
गृहे क्षेत्रे तटाके च वाप्युद्यानेषु चैव हि ॥११२॥
अत्येषु च रुदंत्यो या स्त्रियस्तिष्ठंति नित्यशः
तासां शरीरगाश्चान्याः काश्चित्तृप्तिमवाप्नुयुः ॥११३॥
शिवदूत्य उवाच
कुत्सितं भवता दत्तं प्रजानां परिपीडनम्
न च त्वं बुध्यसे दातुं शंकररस्य विशेषतः ॥११४॥
त्रपाकरं यद्भवति प्रजानां परिपीडकम्
न तु तद्युज्यते दातुं तासां भक्ष्यं तु शंकर ॥११५॥
रुद्र उवाच
अवंत्यां तु यदा स्कंदो मया पूर्वं तु भद्रितः
चूडाकर्मणि वृत्ते तु कुमारस्य तदा शुभे ॥११६॥
आगत्य मातरो भक्ष्यमपूर्वं तु प्रचक्रिरे
देवलोकाद्देवगणा मातॄणां भोक्तुमागताः ॥११७॥
तासां गृहे यदा पूर्वं ब्रह्माद्यास्सुरसत्तमाः
गंधर्वाप्सरसश्चैव यक्षास्सर्वे च गुह्यकाः ॥११८॥
मेर्वादयः शिखरिणो गंगाद्याः सरितस्तथा
सर्वे नागा गजास्सिद्धाः पक्षिणोऽसुरसूदनाः ॥११९॥
डाकिन्यः सह वेतालैर्वृताः सर्वैर्ग्रहैस्तदा
किमुक्तेनामुना देवि यत्सृष्टं ब्रह्मणा त्विह ॥१२०॥
तत्सर्वं भोजनं दत्तं स्वेच्छान्नं च नभोगतं
शिवदूत्युवाच
आसां कृतं देहि भोज्यं दुर्लभं यत्त्रिविष्टपे ॥१२१॥
स्नेहाक्तं सगुडं हृद्यं सुपक्वं परिकल्पितम्
क्वचिन्नान्येन यद्भुक्तमपूर्वं परमेश्वर ॥१२२॥
एवमुक्तस्तदा सोपि देवदेवो महेश्वरः
भक्ष्यार्थं तास्तदा प्राह पार्वत्याश्चैव सन्निधौ ॥१२३॥
मया वै साधितं चान्नं प्रकारैर्बहुभिः कृतं
तत्सर्वं च व्ययं यातं न चान्यदिह दृश्यते ॥१२४॥
भवतीष्वागतास्वद्य किं मया देयमुच्यताम्
अपूर्वं भवतीनां यन्मया देयं विशेषतः ॥१२५॥
अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम्
अधोभागे च मे नाभेर्वर्तुलौ फलसन्निभौ ॥१२६॥
भक्षयध्वं हि सहिता लंबौ मे वृषणाविमौ
अनेन चापि भोज्येन परा तृप्तिर्भविष्यति ॥१२७॥
महाप्रसादं ता लब्ध्वा देव्यस्सर्वास्तदा शिवम्
प्रणिपत्य स्थिताश्शर्व इदं वचनमब्रवीत् ॥१२८॥
करिष्यंति शुभाचारान्विना हास्येन ये नराः
तेषां धनं पशुः पुत्रा दाराश्चैव गृहादिकम् ॥१२९॥
भविष्यति मया दत्तं यच्चान्यन्मनसि स्थितम्
हास्येन दीर्घदशना दरिद्राश्च भवंति ते ॥१३०॥
तस्मान्न निंदा हास्यं च कर्तव्यं हि विजानता
भवत्यो मातरः ख्याता ह्यस्मिन्लोके भविष्यथ ॥१३१॥
उपहारे नरा ये तु करिष्यंति च कौमुदीम्
चणकान्पूरिकाश्चैव वृषणैः सह पूपकान् ॥१३२॥
बंधुभिः स्वजनैश्चैव तेषां वंशो न छिद्यते
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥१३३॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः
हंसयुक्तेन यानेन ब्रह्म लोके महीयते ॥१३४॥
शिवदूति मयाप्येवं तासां दत्तं च भक्षणम्
त्रपाकरं किं भवत्या उक्तोहं तन्निशामय ॥१३५॥
जयस्व देवि चामुंडे जय भूतापहारिणि
जय सर्वगते देवि कालरात्रि नमोस्तु ते ॥१३६॥
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने
भीमरूपे शिवे विद्ये महामाये महोदरे ॥१३७॥
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये
महामारि विचित्रांगि गीतनृत्यप्रिये शुभे ॥१३८॥
विकरालि महाकालि कालिके पापहारिणि
पाशहस्ते दंडहस्ते भीमहस्ते भयानके ॥१३९॥
चामुंडे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले
शिवयानप्रिये देवि प्रेतासनगते शिवे ॥१४०॥
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि
करालि विकराले च महाकालि करालिनि ॥१४१॥
कालिकरालविक्रांते कालरात्रि नमोस्तु ते
सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥१४२॥
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना
तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥१४३॥
वरं वृणीष्व देवेश यत्ते मनसि वर्तते
रुद्र उवाच
स्तोत्रेणानेन ये देवि स्तोष्यंति त्त्वां वरानने ॥१४४॥
तेषां त्वं वरदा देवि भव सर्वगता सती
इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥१४५॥
स पुत्रपौत्रपशुमान्समृद्धिमुपगच्छतु
यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवं ॥१४६॥
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥१४७॥
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम
संवत्सरेण लभतां राज्यं निष्कंटकं पुनः ॥१४८॥
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते
य एवं शृणुयान्नित्यं भक्त्या परमया नृप ॥१४९॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात्
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥१५०॥
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥१५१॥
न तत्राग्निभयं घोरं सर्वचोरादिसंभवं
यश्चेदं पूजयेद्भक्त्या पुस्तकेपि स्थितं बुधाः ॥१५२॥
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरं
जायंते बहवः पुत्रा धनं धान्यं वरस्त्रियः ॥१५३॥
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवंति च
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥१५४
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे शिवदूतीचरितं नाम एकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP