संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ५

सृष्टिखण्डः - अध्यायः ५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच
कथं सती दक्षसुता देहं त्यक्तवती शुभा
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना ॥१॥
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः ॥२॥
पुलस्त्य उवाच
गंगाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्
तत्र देवासुरगणाः पितरोथ महर्षयः ॥३॥
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा ॥४॥
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः
प्रचेतसोंगिराश्चैव वसिष्ठश्च महातपाः ॥५॥
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्
होता वसिष्ठस्तत्रासीदंगिराध्वर्युसत्तमः ॥६॥
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु ॥७॥
आगता वसवः सर्व आदित्या द्वादशैव तु
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश ॥८॥
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम् ॥९॥
आलोक्य सर्वतो भूमिं समंताद्दशयोजनम्
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः ॥१०॥
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा
तदासानुनयं वाक्यं प्रजापतिमभाषत ॥११॥
सत्युवाच
ऐरावतं समारूढो देवराजः शतक्रतुः
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः ॥१२॥
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते ॥१३॥
यादसां च पतिर्द्देवो वरुणो लोकभावनः
गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह ॥१४॥
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः
पत्न्या त्विह समायातः सह देव्या धनाधिपः ॥१५॥
मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः ॥१६॥
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह ॥१७॥
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा ॥१८॥
एकोनपंचाशत्केन गणेन परिवारितः
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः ॥१९॥
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह
पाति वै भुवनं सर्वं देवानां यः परायणः ॥२०॥
आयुषश्च वनानां च दिवसानां पतिर्हि यः
संज्ञा पतिरिहायातो भास्करो लोकपावनः ॥२१॥
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः
नयनानंदजननो लोकनाथो धरातले ॥२२॥
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः
उडुनाथः सपत्नीक इहायातः शशी तव ॥२३॥
वसवोष्टौ समायाता अश्विनौ च समागतौ
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः ॥२४॥
विद्याधरा भूतसंघा वेताला यक्षराक्षसाः
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः ॥२५॥
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति ॥२६॥
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः ॥२७॥
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः ॥२८॥
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे ॥२९॥
स्वभार्यासहिताः सर्वे सपुत्रास्सह बांधवाः
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः ॥३०॥
आमंत्रणा मंत्रितानां सर्वेषां मानना कृता
एक एवात्र भगवान्पतिर्मे न समागतः ॥३१॥
विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे
मन्ये चाहं तु भवता पतिर्मे न निमंत्रितः ॥३२॥
विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्
पुलस्य उवाच
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः ॥३३॥
पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्
अंकमारोप्य तां बालां साध्वीं पतिपरायणाम् ॥३४॥
पतिव्रतां महाभागां पतिप्रियहितैषिणीम्
प्राह गंभीरभावेन शृणु वत्से यथातथम् ॥३५॥
येनाद्य कारणेनेह पतिस्ते न निमंत्रितः
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा ॥३६॥
शूली मुण्डी च नग्नश्च श्मशाने रमते सदा
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः ॥३७॥
व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः
कपालमालं शिरसि खट्वागं च करे स्थितं ॥३८॥
कट्यां वै गोनसं बध्वा लिंगेऽस्थ्नां वलयं तथा
पन्नगानां तु राजानमुपवीतं च वासुकिम् ॥३९॥
कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ
नग्ना गणाः पिशाचाश्च भूतसंघा ह्यनेकशः ॥४०॥
त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः ॥४१॥
त्रपाकरो भवेन्मह्यं देवानां संनिधिः कथं
कीदृक्च वसनं तस्य केतनं प्रति नार्हति ॥४२॥
एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया
नाह्वानं तु कृतं तस्य कारणेन मया सुते ॥४३॥
यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम् ॥४४॥
त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत् ॥४५॥
नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम् ॥४६॥
इह जन्मनि ते तादृक्पुत्रिके भुंजते फलम्
परितापं मा कृथास्त्वं फलं भुंक्ष्व पुराकृतम् ॥४७॥
श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्
रूपं च कांतिसौभाग्यं रम्याण्याभरणानि च ॥४८॥
कुलेमहतिवैजन्मवपुश्चातीवसुंदरम्
पूर्वभाग्यैस्तु लभ्यंते नरैरेतानि सुव्रते ॥४९॥
मात्मानं परिनिंदेथामाच भाग्यानि सुव्रते
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः ॥५०॥
नास्ति वै बलवान्कश्चिन्नमूढो न च पंडितः
पांडित्यं च बलं चैव जायते पूर्वकर्मणः ॥५१॥
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच ॥५२॥
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता ॥५३॥
विनिंदमाना पितरं क्रोधेनारुणितेक्षणा
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः ॥५४॥
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः ॥५५॥
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता ॥५६॥
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः ॥५७॥
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः ॥५८॥
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा
एष धाता विधाता च एष पालयिता दिशः ॥५९॥
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरंदरः
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः ॥६०॥
सत्येन तेन ते यज्ञं विध्वंसयतु शंकरः
यद्यस्ति मे तपः किंचित्कश्चिद्धर्मोथवा कृतः ॥६१॥
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति
प्रियाहं यदि देवस्य यदि मां तारयिष्यति ॥६२॥
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा ॥६३॥
निर्ददाह तदात्मानं सदेवासुरपन्नगैः
किंकिमेतदिति प्रोक्ते गंधर्वगणगुह्यकैः ॥६४॥
गंगाकूले तदा मुक्तो देहो वै क्रुद्धया तया
सौनकं नाम तत्तीर्थं गंगायाः पश्चिमे तटे ॥६५॥
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः
हंतुं यज्ञं धीरभवत्देवानामिह पश्यताम् ॥६६॥
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने ॥६७॥
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः ॥६८॥
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः ॥६९॥
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय ॥७०॥
गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः
नानावदनदंतौष्ठैर्नाना प्रहरणोद्यतैः ॥७१॥
नाना नागेंद्रसंदष्ट जटाभारोपशोभितैः
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः ॥७२॥
कामरूपैरकांतैश्च सर्वकामसमन्वितैः
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः ॥७३॥
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः
करींद्रकरटाटोप पाटवैः सिंहदेहिभिः ॥७४॥
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः ॥७५॥
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः
भुजंगहारवलयकृतयज्ञोपवीतकैः ॥७६॥
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः
वज्रक्रकचकोदंडकालदंडास्त्रपाणिभिः ॥७७॥
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव
देवदेवमहादेव नष्टो यज्ञो दिवं गतः ॥७८॥
मृगरूपधरो भूत्वा भयभीतस्तु शंकर
नमः शङ्खाभदेवाय सगणाय सनंदिने ॥७९॥
वृषासनाय सोमाय क्रतुकालांतकाय च
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे ॥८०॥
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च
गिरीशाय सुरेशाय ईशानाय नमोनमः ॥८१॥
रुद्राय प्रतिवज्राय शिवाय क्रथनाय च
सुरासुराधिपतये यतीनां पतये नमः ॥८२॥
धूम्रोग्राय विरूपाय यज्वने घोररूपिणे
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः ॥८३॥
मुंडाय चंडमुण्डाय वरखट्वाङ्गधारिणे
कव्यरूपाय हव्याय सर्वसंहारिणे नमः ॥८४॥
भक्तानुकंपिनेत्यर्थं रुद्रजाप्यस्तुताय च
विरूपाय सुरूपाय रूपाणां शतकारिणे ॥८५॥
पंचास्याय शुभास्याय चंद्रास्याय नमो नमः
वरदाय वरार्हाय कूर्माय च मृगाय च ॥८६॥
लीलालकशिखंडाय कमंडलुधराय च
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः ॥८७॥
त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर ॥८८॥
एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा ॥८९॥
समग्रं ते यज्ञफलं मया दत्तं प्रजापते
सर्वकामप्रसिर्द्ध्य्थंफलंप्राप्स्यस्यनुत्तमम् ॥९०॥
एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्
जगाम स्वनिकेतं तु गणानामेव पश्यताम् ॥९१॥
पत्न्याः शोकेन वै देवो गंगाद्वारे तदास्थितः
तां सतीं चिंतयानस्तु क्व नु सामेप्रियागता ॥९२॥
तस्य शोकाभिभूतस्य नारदो भवसंन्निधौ
सा ते सती या देवेश भार्या प्राणसमामृता ॥९३॥
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी ॥९४॥
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः ॥९५॥
संप्राप्तयौवना देवी पुनरेव विवाहिता
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा ॥९६॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसोनाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 24, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP