सृष्टिखण्डः - अध्यायः ३४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
भीष्म उवाच
कस्मिन्काले भगवता ब्रह्मणा लोककारिणा
यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति ॥१॥
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः
का च वै दक्षिणा तेषां दत्ता तेन महात्मना ॥२॥
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय
सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति ॥३॥
पुलस्त्य उवाच
पूर्वमेव मया ख्यातं यदा स्वायंभुवो मनुः
सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै ॥४॥
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्
ससंभारान्समानाय्य वह्न्यगारे स्थितोभवत् ॥५॥
गायंति नित्यं गंधर्वा नृत्यंत्यप्सरसां गणाः
ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः ॥६॥
एकैकस्य त्रयश्चान्ये परिवाराः स्वयंकृताः
ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च ॥७॥
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी
उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः ॥८॥
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता
होता च मैत्रावरुणस्तथाऽच्छावाक एव च ॥९॥
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी
अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च ॥१०॥
चतुष्टयी चतुर्थ्येषा प्रोक्ता शंतनुनंदन
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिंतकैः ॥११॥
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयंभुवा
एतांश्चैतेषु सर्वेषु प्रवदंति सदा द्विजान् ॥१२॥
सदस्यं केचिदिच्छंति त्रिसामाध्वर्युमेव च
ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम् ॥१३॥
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्
उद्गातांगिरसः प्रत्युद्गाता च पुलहस्तथा ॥१४॥
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते
तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च ॥१५॥
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा
पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः ॥१६॥
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः
धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान् ॥१७॥
भरद्वाजः शमीकश्च पुरुकुत्सो युगंधरः
एनकस्तीर्णकश्चैव केशः कुतप एव च ॥१८॥
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः
कण्वादयस्तथा चान्ये मार्कंडो गंडिरेव च ॥१९॥
पुत्रपौत्रसमेताश्च सशिष्याः सहबांधवाः
कर्माणि तत्र कुर्वाणा दिवानिशमतंद्रिताः ॥२०॥
मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्
दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा ॥२१॥
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम् ॥२२॥
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये
अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा ॥२३॥
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः
षोडशैव तृतीयानां देया वै धेनवः शुभाः ॥२४॥
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्
अनया संख्यया चैव ग्रामान्दासीरजाविकं ॥२५॥
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ
यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत् ॥२६॥
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते
विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः ॥२७॥
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत
त्वयि दृष्टे न सा कोपं करिष्यति शुभानना ॥२८॥
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः
त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम् ॥२९॥
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते
गंधर्वैः सहितो गत्वा प्रियां मम समानय ॥३०॥
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्
विलंबो न त्वया कार्यो व्रज माधव माचिरम् ॥३१॥
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा
तस्यास्त्वं पदवीं गच्छ सांत्वयस्व प्रियां मम ॥३२॥
न च ते विप्रियं देवि विविक्तं कर्तुमीहते
मुखं प्रेक्ष्य सदा कालं वर्तते तव सुंदरि ॥३३॥
एवंविधानि वाक्यानि मधुराणि बहूनि च
देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत् ॥३४॥
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा
जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति ॥३५॥
दूरादेवागच्छमानं पत्न्या सह च केशवम्
उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवंदिता ॥३६॥
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते
त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते ॥३७॥
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता
अहर्निशं चिंतयंस्त्वां प्रसादं तेभिकांक्षति ॥३८॥
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्
यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने ॥३९॥
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्
उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते ॥४०॥
जगद्वंद्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत
संकोच्य पादौ सा देवी स्वकरेण करौ हरेः ॥४१॥
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत
इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति ॥४२॥
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्
भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता ॥४३॥
देवदानवयत्नेन संभूता चोदधौ पुनः
भगवान्यत्र तत्रैषा अवतारं च कुर्वती ॥४४॥
देवत्वे देवदेहा वै मानुषत्वे च मानुषी
त्वत्सहाया न संदेहो दांपत्यव्रतिनी चिरम् ॥४५॥
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै
विष्णुरुवाच
यज्ञावसानं संजातं प्रेषितोहं तवांतिकं ॥४६॥
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्
आगच्छ त्वरिता देवि याहि तत्र मुदान्विता ॥४७॥
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्
लक्ष्मीरुवाच
आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः ॥४८॥
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव
उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे ॥४९॥
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः
समीपस्थं महादेवमिदमाह तदा वचः1.34. ॥५०॥
गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण
गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शंकर ॥५१॥
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु
एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ ॥५२॥
गत्वादिष्टौ दंपती तां प्रोचतुर्ब्रह्मणः प्रियाम्
बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते ॥५३॥
पृच्छस्वेमां वरारोहां गौरीं पर्वतनंदिनीम्
लक्ष्मीं चैतां विशालाक्षीमिंद्राणीं वा शुभानने ॥५४॥
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते
आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः ॥५५॥
शरीरार्धे च ते गौरी सदा स्थास्यति शंकर
अनया शोभसे देव त्वया त्रैलोक्यसुंदर ॥५६॥
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्
एवं ब्रुवंती सावित्री गृहीता ब्रह्मणः प्रिया ॥५७॥
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे
अभिवंद्य तु तां देवीं शंकरो वाक्यमब्रवीत् ॥५८॥
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः ॥५९॥
बृहदाग्रहणे देवि प्रणयाद्गंतुमर्हसि
लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः ॥६०॥
एतयोर्वचसा देवि आवयोश्च शुभानने
मानभंगो न ते कर्तुं यज्यते ब्रह्मणः प्रिये ॥६१॥
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता
गौर्युवाच
अहं च ते प्रिया देवि सर्वदा वदसि स्वयम् ॥६२॥
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः ॥६३॥
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता
पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः ॥६४॥
गंधर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्
तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया ॥६५॥
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः
गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत् ॥६६॥
एषा देवी कर्मकरी अहं ते वशगस्थितः
समादिश वरारोहे यत्ते कार्यं मया त्विह ॥६७॥
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा
त्रपयाधोमुखी देवी न च किंचिदवोचत ॥६८॥
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता
कृतवत्यपराधं ते क्षम देवि नमोस्तु ते ॥६९॥
आलिंग्य सादरं कंठे सा परिष्वज्य पीडितां
गायत्रीं सांत्वयामास मान्यश्चैष पतिर्मम ॥७०॥
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः
उक्तं भगवता पूर्वं सृष्टिकाले विरिंचिना ॥७१॥
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्
भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया ॥७२॥
भर्तृनिंदां या कुरुते स्वसृनिंदां तथैव च
परिवादं प्रलापं वा नरकं सा तु गच्छति ॥७३॥
पत्यौ जीवति या नारी उपवासव्रतं चरेत्
आयुष्यं हरते भर्तुर्मृता नरकमिच्छति ॥७४॥
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति
न चास्य दक्षिणं त्वंगं त्वया सेव्यं कथंचन ॥७५॥
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता
सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ ॥७६॥
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च
लभे वै शोभमानेह यावत्सृष्टिः प्रजायते ॥७७॥
भवत्या च मया चैव स्थातव्यं च न संशयः
पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय ॥७८॥
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता
गायत्र्युवाच
एवमेतत्करिष्यामि तव निर्देशकारिका ॥७९॥
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी
अहं ते त्वनुजा देवि सदा मां पातुमर्हसि ॥८०॥
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह
स्नानावसाने देवानां सर्वेषां प्रददौ वरान् ॥८१॥
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं
नक्षत्राणां तथा सोमं रसानां वरुणं तथा ॥८२॥
प्रजापतीनां दक्षं च नदीनां चैव सागरं
कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां ॥८३॥
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्
मानवानां मनुं चैव पक्षिणां गरुडं तथा ॥८४॥
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं
एवमादीनि वै दत्वा देवदेवः पितामहः ॥८५॥
विष्णुं च शंकरं चैव ब्रह्मा प्रोवाच सादरम्
पृथिव्याः सर्वतीर्थेषु भवंतौ पूज्यसत्तमौ ॥८६॥
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्
लिंगं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित् ॥८७॥
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं
मानवा ह्युपहारैश्च ये करिष्यंति पूजनं ॥८८॥
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः
येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः ॥८९॥
प्रवर्त्स्यंति क्रियाः सर्वा यत्फलं तेषु तच्छृणु
नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं ॥९०॥
विप्रयोगो न चापीष्टैरनिष्टैर्नापि संगतिः
नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगंदराः ॥९१॥
नाभिचारं भयं तत्रापस्मारो न विषूचिका
वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा ॥९२॥
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं
नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः ॥९३॥
नाकालफलिता वृक्षा नोत्पातभयमण्वपि
एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः ॥९४॥
विष्णुरुवाच
नमोस्त्वनंताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे ॥९५॥
समस्तविश्वार्तिहराय शंभवे समस्तसूर्यानलतिग्मतेजसे
नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः ॥९६॥
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर
महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः ॥९७॥
यज्ञेश नारायण जिष्णु शंकर क्षितीश विश्वेश्वर विश्वलोचन
शशांकसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय ॥९८॥
ज्वलद्धुताशार्चि निरुद्धमंडल प्रदेशनारायण विश्वतोमुख
समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो ॥९९॥
वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणम्
ब्रह्माणमीशं जगतां प्रसूतिं नमोस्तु तुभ्यं प्रपितामहाय1.34. ॥१००॥
संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः
तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम् ॥१०१॥
एवं भवंतं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः
गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः ॥१०२॥
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा
संसारबंधे निहितेंद्रियोपि पुनः कथं देववरोसि वेद्यः ॥१०३॥
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः
संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम् ॥१०४॥
परं न जानंति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्
विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम् ॥१०५॥
न ते तत्त्वं विश्वसृजोपि योनिमेकांततो वेत्ति विशुद्धभावः
परं त्वहं वेद्मि कथं पुराणं भवंतमाद्यं तपसा विशुद्धम् ॥१०६॥
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्
संचिंत्य ते नाथ विभुं भवंतं जानाति नैवं तपसाविहीनः ॥१०७॥
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य
प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः ॥१०८॥
जन्मांतरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः
तल्लाभलुब्धस्य न मानुषत्वं न देवगंधर्वपतिः शिवः स्यात् ॥१०९॥
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः
स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतंति ॥११०॥
विमुच्यते वा भवति स्थितेस्मिन्दस्रेन्दुवह्न्यर्कमरुन्महीभिः
तत्वैः स्वरूपैः समरूपधारिभिरात्मस्वरूपे वितत स्वभावः ॥१११॥
इति स्तुतिं मे भगवन्ह्यनंत जुषस्व भक्तस्य विशेषतश्च
समाधियुक्तस्य विशुद्धचेतसस्त्वद्भावभावैकमनोनुगस्य ॥११२॥
सदा हृदिस्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण
इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध ॥११३॥
संसारचक्रे भ्रमणादियुक्ता भीतिं पुनर्नः प्रतिपालयस्व ॥११४॥
ब्रह्मोवाच
सर्वज्ञस्त्वं न संदेहो प्रज्ञाराशिश्च केशव
देवानां प्रथमः पूज्यः सर्वदा त्वं भविष्यसि ॥११५॥
नारायणादनंतरं रुद्रो भक्त्या विरिंचनम्
तुष्टाव प्रणतो भूत्वा ब्रह्माणं कमलोद्भवम् ॥११६॥
नमः कमलपत्राक्ष नमस्ते पद्मजन्मने
नमः सुरासुरगुरो कारिणे परमात्मने ॥११७॥
नमस्ते सर्वदेवेश नमो वै मोहनाशन
विष्णोर्नाभिस्थितवते कमलासन जन्मने ॥११८॥
नमो विद्रुमरक्तांग पाणिपल्लवशोभिने
शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः ॥११९॥
पूर्वं नीलांबुदाकारं कुड्मलं ते पितामह
दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसंयुतम् ॥१२०॥
पद्मं चानेकपत्रान्तमसंख्यातं निरंजनम्
तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता ॥१२१॥
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वंद्य नमोस्तु ते
सावित्रीशापदग्धोहं लिंगं मे पतितं क्षितौ ॥१२२॥
इदानीं कुरु मे शांतिं त्राहि मां सह भार्यया
ब्रह्मा वै पातु मे पादौ जंघे वै कमलासनः ॥१२३॥
विरिंचो मे कटिं पातु सृष्टिकृद्गुह्यमेव च
नाभिं पद्मनिभः पातु जठरं चतुराननः ॥१२४॥
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः
सावित्रीपतिर्मे कंठं हृषीकेशो मुखं मम ॥१२५॥
पद्मवर्णश्च नयने परमात्मा शिरो मम
एवं न्यस्य गुरोर्नाम शंकरो नामशंकरः ॥१२६॥
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह
ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह ॥१२७॥
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि
रुद्र उवाच
यदि प्रसन्नो मे नाथ वरदो यदि वा मम ॥१२८॥
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः
केषुकेषु च स्थानेषु त्वां पश्यंति सदा द्विजाः ॥१२९॥
नाम्ना च केन ते स्थानं शोभते धरणीतले
तन्मे वदस्व सर्वेश तव भक्तिरतस्य च ॥१३०॥
ब्रह्मोवाच
पुष्करेहं सुरश्रेष्ठो गयायां च चतुर्मुखः
कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः ॥१३१॥
कावेर्य्यां सृष्टिकर्ता च नंदिपुर्य्यां बृहस्पतिः
प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः ॥१३२॥
द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः
पौंड्रके पुंडरीकाक्षः पिंगाक्षो हस्तिनापुरे ॥१३३॥
जयंत्यां विजयश्चास्मि जयंतः पुष्करावते
उग्रेषु पद्महस्तोहं तमोनद्यां तमोनुदः ॥१३४॥
अहिच्छन्ने जया नंदी कांचीपुर्यां जनप्रियः
ब्रह्माहं पाटलीपुत्रे ऋषिकुंडे मुनिस्तथा ॥१३५॥
महितारे मुकुंदश्च श्रीकंठः श्रीनिवासिते
कामरूपे शुभाकारो वाराणस्यां शिवप्रियः ॥१३६॥
मल्लिकाक्षे तथा विष्णुर्महेंद्रे भार्गवस्तथा
गोनर्दे स्थविराकार उज्जयिन्यां पितामहः ॥१३७॥
कौशांब्यां तु महाबोधिरयोध्यायां च राघवः
मुंनींद्रश्चित्रकूटे तु वाराहो विंध्यपर्वते ॥१३८॥
गंगाद्वारे परमेष्ठी हिमवत्यपि शंकरः
देविकायां स्रुचाहस्तः स्रुवहस्तश्चतुर्वटे ॥१३९॥
वृंदावने पद्मपाणिः कुशहस्तश्च नैमिषे
गोप्लक्षे चैव गोपीन्द्रः सचंद्रो यमुनातटे ॥१४०॥
भागीरथ्यां पद्मतनुर्जलानंदो जलंधरे
कौंकणे चैव मद्राक्षः कांपिल्ये कनकप्रियः ॥१४१॥
वेंकटे चान्नदाता च शंभुश्चैव क्रतुस्थले
लंकायां च पुलस्त्योहं काश्मीरे हंसवाहनः ॥१४२॥
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते
मेलके श्रुतिदाताहं प्रपाते यादसांपतिः ॥१४३॥
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः
अंकोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः ॥१४४॥
नारायणश्च गोमंते मायापुर्यां द्विजप्रियः
ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः ॥१४५॥
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने
पृथूदरस्तु मालव्यां शाकंभर्यां रसप्रियः ॥१४६॥
पिंडारके तु गोपालः शंखोद्धारेंगवर्द्धनः
कादंबके प्रजाध्यक्षो देवाध्यक्षः समस्थले ॥१४७॥
गंगाधरो भद्रपीठे जलशाप्यहमर्बुदे
त्र्यंबके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः ॥१४८॥
महादेवः पद्मपुरे कापाले वैधसस्तथा
शृंगिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः ॥१४९॥
दंडपुर्यां विरूपाक्षो गौतमो धूतपापके
हंसनाथो माल्यवति द्विजेंद्रो वलिके तथा1.34. ॥१५०॥
इंद्रपुर्यां देवनाथो द्यूतपायां पुरंदरः
हंसवाहस्तु लंबायां चंडायां गरुडप्रियः ॥१५१॥
महोदये महायज्ञः सुयज्ञो यज्ञकेतने
सिद्धिस्मरे पद्मवर्णः विभायां पद्मबोधनः ॥१५२॥
देवदारुवने लिंगं महापत्तौ विनायकः
त्र्यंबको मातृकास्थाने अलकायां कुलाधिपः ॥१५३॥
त्रिकूटे चैव गोनर्दः पाताले वासुकिस्तथा
पद्माध्यक्षश्च केदारे कूष्मांडे सुरतप्रियः ॥१५४॥
कुंडवाप्यां शुभांगस्तु सारण्यां तक्षकस्तथा
अक्षोटे पापहा चैव अंबिकायां सुदर्शनः ॥१५५॥
वरदायां महावीरः कांतारे दुर्गनाशनः
अनंतश्चैव पर्णाटे प्रकाशायां दिवाकरः ॥१५६॥
विराजायां पद्मनाभः स्वरुद्रश्च वृकस्थले
मार्कंडो वटके चैव वाहिन्यां मृगकेतनः ॥१५७॥
पद्मावत्यां पद्मगृहो गगने पद्मकेतनः
अष्टोत्तरं स्थानशतं मया ते परिकीर्तितम् ॥१५८॥
यत्र वै मम सांनिध्यं त्रिसंध्यं त्रिपुरांतक
एतेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः ॥१५९॥
स्थानं सुविरजं लब्ध्वा मोदते शाश्वतीः समाः
मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम् ॥१६०॥
तत्सर्वं नाशमायाति नात्र कार्या विचारणा
यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः ॥१६१॥
भवते मोक्षभागी च यत्राहं तत्र वै स्थितः
पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः ॥१६२॥
ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः
तस्य पुण्यफलं चाग्र्यमंते मोक्षफलं तथा ॥१६३॥
स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति
पुनः सृष्टौ भवेद्देवो वैराजानां महातपाः ॥१६४॥
ब्रह्महत्यादि पापानि इहलोके कृतान्यपि
अकामतः कामतो वा तानि नश्यंति तत्क्षणात् ॥१६५॥
इहलोके दरिद्रो यो भ्रष्टराज्योथवा पुनः
स्थानेष्वेतेषु वै गत्वा मां पश्यति समाधिना ॥१६६॥
कृत्वा पूजोपहारं च स्नानं च पितृतर्पणम्
कृत्वा पिंडप्रदानं च सोचिराद्दुःखवर्जितः ॥१६७॥
एकच्छत्रो भवेद्राजा सत्यमेतन्न संशयः
इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः ॥१६८॥
भवंति विविधास्तस्य यैर्यात्रा पुष्करे कृता
इदं यात्राविधानं यः कुरुते कारयेत वा ॥१६९॥
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते
अगम्यागमनं येन कृतं जानाति मानवः ॥१७०॥
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च
यात्रां चेमां सकृत्कृत्वा वेदसंस्कारमाप्नुयात् ॥१७१॥
किमत्र बहुनोक्तेन इदमस्तीह शंकर
अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति ॥१७२॥
सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदम्
सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता ॥१७३॥
यैः कृत्वा पुष्करे संध्यां सावित्री समुपासिता
स्वपत्नीहस्तदत्तेन पौष्करेण जलेन तु ॥१७४॥
भृंगारेण वरेणैव मृण्मयेनापि शंकर
आनीय तज्जलं पुण्यं संध्योपास्तिर्दिनक्षये ॥१७५॥
समाधिना समाधेया सप्राणायामपूर्विका
तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे ॥१७६॥
तेन द्वादशवर्षाणि भवेत्संध्या सुवंदिता
अश्वमेधफलं स्नाने दाने दशगुणं तथा ॥१७७॥
उपवासेप्यनंतं च स्वयं प्रोक्तं मयानघ
सावित्र्याः पुरतो यस्तु दंपत्योर्भोजनं ददेत् ॥१७८॥
तेनाहं भोजितस्तत्र भवामीह न संशयः
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः ॥१७९॥
लक्ष्मीसहायो वरदो वरांस्तस्य प्रयच्छति
उमासहायस्तार्तीये भोजितोसि न संशयः ॥१८०॥
अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्
तस्याः कुले भवेद्वंध्या न कदाचिच्च दुर्भगा ॥१८१॥
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम् ॥१८२॥
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा
दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम् ॥१८३॥
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन
भक्ष्यं पंचप्रकारं च रसैः सर्वैस्सुसंस्कृतम् ॥१८४॥
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः
शिखरिणी तथा पेया दधिक्षीरसमन्विता ॥१८५॥
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा
धनधान्यां जनोपेतं नारीणां च शताकुलम् ॥१८६॥
पूपकं शष्कुलं तस्यां जायते नात्र संशयः
न ज्वरो न च संतापो न दुःखं न वियोगिता ॥१८७॥
असौ तारयते स्वानां कुलानामेकविंशतिं
बंधुभिश्च सुतैश्चैव दासीदासैरनंतकैः ॥१८८॥
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति
एधते च चिरं कालं पुत्रपौत्रसमन्वितम् ॥१८९॥
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति
पुत्रिण्यो वै दुहितरो बंधुभिः सहितं कुलम् ॥१९०॥
शिखरिणीप्रदात्रीणां युवतीनां न संशयः
मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम् ॥१९१॥
मोदकानां प्रदानेन एवमाह प्रजापतिः
एतदेव तु गौरीणां भोजनं हर शस्यते ॥१९२॥
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता
सहस्रभोजिनी शंभो जन्मजन्म भविष्यति ॥१९३॥
पूपानि चैव पुण्यानि कृतानि मधुराणि च
द्राक्षारसप्रधानं च गुडखंडसमन्वितम् ॥१९४॥
शारदेन तु धान्येन कृत्वा खंडं विमिश्रितत्
स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम् ॥१९५॥
इह चाविकवासांसि वर्षायोग्यानि सर्वशः
यानियानि च पेयानि तानि योग्यानि दापयेत् ॥१९६॥
प्रतिपूज्य विधानेन वसुदानैः सकंचुकैः
कुंकुमेनानुलिप्तांग्यः स्रग्दामभिरलंकृताः ॥१९७॥
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा
अक्ष्णोश्चैवांजनं दत्वा सिंदूरं चैव मस्तके ॥१९८॥
गुडं फलानि हृद्यानि वांछितानि मृदूनि च
हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत् ॥१९९॥
स्वयं भुंजीत वै पश्चात्सबंधुर्बालकैः सह
अथवा नैव संपत्तिस्तीर्थे दानं च भाजनम्1.34. ॥२००॥
गृहे गतः प्रदास्यामि हृष्टो देव प्रसीद मे
एवमेव पितॄणां च आगत्य स्वीय मंदिरे ॥२०१॥
पिंडप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः
पितरस्तस्य वै तृप्ता भवंति ब्रह्मणो दिनम् ॥२०२॥
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतां शिव
न च पश्यंति वै नीचाः श्राद्धं द्विजातिभिः कृतं ॥२०३॥
एकांते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते
नीचदृष्ट्या हतं तच्च पितॄन्नैवोपतिष्ठति ॥२०४॥
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत्
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा ॥२०५॥
गौरीभक्त्याधिका या तु शस्ता ज्ञातक्रिया तु सा
राजसी मनसा ज्ञाता जनानां कीर्तिदायिनी ॥२०६॥
गुप्तं दानं सदा देयमात्मनो हितमिच्छता
पक्वान्नं दृश्यतामेति दीयमानं जनैर्भुवि ॥२०७॥
दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥२०८॥
भवने नात्र संदेहः सत्यं पौराणिकं वचः
तीर्थे तु ब्राह्मणं नैव परीक्षेत कथंचन ॥२०९॥
अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत्
सक्तुभिः पिंडदानं च संयावैः पायसेन वा ॥२१०॥
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेनैंगुदेन वा
तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा ॥२११॥
श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम्
स्वधां तु गृध्राः काका वा नैव दृष्ट्या हरन्ति ते ॥२१२॥
श्राद्धं तत्तैर्थिकं प्रोक्तं पितॄणां तृप्तिदं परम्
कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणम् ॥२१३॥
भक्त्या तुष्यन्ति पितरस्तुष्टाः कामान्दिशन्ति ते
पुत्रं पौत्रं धनं धान्यं कामान्यान्मनसेच्छति ॥२१४॥
भक्त्या चाराधितो दद्यान्नृणां प्रीतः पितामहः
अकालेप्यथ काले वा तीर्थे श्राद्धं सदा नरैः ॥२१५॥
प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणम्
पिंडदानं च कर्तव्यं पितॄणां चातिवल्लभम् ॥२१६
पितरो हि निरीक्षन्ते गोत्रजं समुपागतम्
आशया परया युक्ताः कांक्षंतस्सलिलं च ते ॥२१७॥
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत्
अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति ॥२१८॥
पितरः पुत्रदातारं वृद्धिश्राद्धाभिकांक्षिणः
तेन ते सन्ततिच्छेदं न कुर्वन्ति हि कर्हिचित् ॥२१९॥
अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयंभुवा
गुणोत्तरंतुयत्कार्यंद्विजैःपितृपरायणैः ॥२२०॥
तीर्थे क्षेत्रे गृहे वापि संक्रांतौ ग्रहणेपि वा
विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते ॥२२१॥
एतान्वै श्राद्धकालांस्तु पुरा स्वायंभुवोब्रवीत्
कृते श्राद्धे न वै पुंसां पीडा भवति देहजा ॥२२२॥
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्
यथा न भविता पीडा ग्रहचोरनृपादिकात् ॥२२३॥
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्
लभते नात्र सन्देहः प्रजापतिवचो यथा ॥२२४॥
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्
द्वापरे च कुरुक्षेत्रं कलौ गंगां समाश्रयेत् ॥२२५॥
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम् ॥२२६॥
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि ॥२२७॥
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
सायंप्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः ॥२२८॥
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च ॥२२९॥
यो वसेत्पुष्करे नित्यं स गच्छेत्परमांगतिम्
सर्वेषामेवलोकानांब्रह्मलोकोपरिस्थितः ॥२३०॥
यइच्छेत्पुष्करंगन्तुंसोनुसेवेतपुष्करम्
यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः ॥२३१॥
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते
विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम् ॥२३२॥
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्
दशकोटिसहस्राणि तीर्थानां वै महीतले ॥२३३॥
सान्निध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन
यावत्तिष्ठंति गिरयो यावत्तिष्ठन्तिसागराः ॥२३४॥
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः
जन्मान्तरसहस्रैश्च आजन्ममरणांन्तिकम् ॥२३५॥
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे
पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम् ॥२३६॥
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्
यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम् ॥२३७॥
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि ॥२३८॥
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्
कृत्वा तु मण्डलगतं लोकपालसमन्वितम् ॥२३९॥
ब्रह्माणं तु परं देवं यः पश्यति विधानतः
पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम् ॥२४०॥
कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः
सर्वासु वा यजेदेवं पूर्णिमासु विधानतः ॥२४१॥
संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा
यः पश्यति विभुं देवं पूजितं गुरुणा नृप ॥२४२॥
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते
स मान्यो देवतानां च भवतीह नराधिप ॥२४३॥
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः ॥२४४॥
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्
तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम् ॥२४५॥
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा
प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम् ॥२४६॥
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्
परब्रह्मोपासनेन विरिंच्याराधनेन च ॥२४७॥
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च
ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम् ॥२४८॥
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्
अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः ॥२४९॥
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः
ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34. ॥२५०॥
ब्राह्मे मुहूर्ते चोत्त्थाय बद्धपद्मासनास्तु ते
ध्यात्वा गुरुं सहस्रारे श्वेतवस्त्रोपवीतकम् ॥२५१॥
श्वेतमाल्यांबरधरं श्वेतगंधानुलेपनम्
निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमतन्द्रिताः ॥२५२॥
क्षीरवृक्षोत्थमाचार्यो दापयेद्दन्तधावनम्
ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम् ॥२५३॥
इतरद्वा तटाकं वा गृहे वापि विधानतः
तद्भक्षयेयुर्मंत्रेण मंत्रितं परमेष्ठिनः ॥२५४॥
आपोहिष्ठेति मंत्रेण सप्तकृत्वोभिमंत्रितं
देवस्य त्वेति वै जप्त्वा युंजानेति करे न्यसेत् ॥२५५॥
इरावत्येति प्रक्षाल्य ब्रह्मोदनेति वै मुखे
भक्षयित्वा क्षिपेद्दूरं पतितं च निरीक्षयेत् ॥२५६॥
सम्मुखं प्राङ्मुखं वापि विदिशं चापि वा गतम्
संमुखे देवतालब्धिर्मंत्रसिद्धिश्च जायते ॥२५७
पराङ्मुखे दंतकाष्ठे सर्वे देवाः पराङ्मुखाः
उत्तरेण गते तस्मिन्सिद्धिर्भवति वा न वा ॥२५८॥
दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः
प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ ॥२५९॥
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः
ततः शुभाशुभं तत्र लक्षयेत्परमो गुरुः ॥२६०॥
पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्
गुरुश्च मंडलं भूमौ कल्पितायां तु वर्तयेत् ॥२६१॥
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः
षोडशारं लिखेत्पद्मं नवधारमथापि वा ॥२६२॥
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः
नेत्रबंधं तु कुर्वीत सितवस्त्रेण यत्नतः ॥२६३॥
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्
नवनाभं यदा कुर्यान्मंडलं वर्णकैर्बुधः ॥२६४॥
इंद्राणीपूर्वकं देवमिंद्रमैंद्र्यां तु पूजयेत्
लोकपालैः समं तद्वदग्निं संपूजयेन्नृप ॥२६५॥
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्
वरुणं वारुणाशायां वायुं वायव्यगोचरे ॥२६६॥
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे
कमंडलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा ॥२६७॥
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा
आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा ॥२६८॥
वायव्यां योगपट्टं च ऐशान्यां च गलंतिकाम्
विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शंकरः ॥२६९॥
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा
मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा ॥२७०॥
उत्तरे चैव गायत्री देवी पद्मदलेक्षणा
ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे ॥२७१॥
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा
इतिहासपुराणानिच्छंदोज्यौतिषमेवच ॥२७२॥
धर्मशास्त्राणि चान्यानि इंद्रादि दिक्षु विन्यसेत्
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले ॥२७३॥
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे
पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे ॥२७४॥
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा
अघोरस्सर्वतः पूज्य एषा पूजा तु मंडले ॥२७५॥
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं
प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे ॥२७६॥
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्
दिङ्मंडले तु विन्यस्य अष्टौ कुंभान्विधानतः ॥२७७॥
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्
स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु ॥२७८॥
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव
राज्यार्थिनं स्नापयेच्च ऐंद्रेण कलशेन तु ॥२७९॥
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा
मृत्युंजयविधानाय याम्येन स्नापयेन्नरम् ॥२८०॥
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते
स्नापयेद्वारुणेनाशु पापनाशाय मानवं ॥२८१॥
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्
द्रव्यसंपत्तिकामस्य कौबेरेण विधीयते ॥२८२॥
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे
एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः ॥२८३॥
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः
अथवा दिक्षु सर्वासु यथासंख्येन लोकपान् ॥२८४॥
पूजयेत्तु स्वनाम्ना तु कुंभैरेव विधानतः
एवं संपूज्य देवांस्तु लोकपालान्प्रसन्नधीः ॥२८५॥
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्
दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः ॥२८६॥
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः
न निंद्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च ॥२८७॥
इंद्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा
गुरुं च ब्राह्मणं वापि मुनींद्रं पूर्वदीक्षितम् ॥२८८॥
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्
ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुंफट्स्वाहा ॥२८९॥
षोडशाक्षरमंत्रेण होमयेज्ज्वलितेनले
गर्भाधानादिकाः सर्वा आहुतीस्संप्रदापयेत् ॥२९०
तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ
होमांते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम् ॥२९१॥
हस्त्यश्वयानशकटहेमधान्यादिकं नृप
दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा ॥२९२॥
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः
एवं कृते तु यत्पुण्यं महत्संजायते तथा ॥२९३॥
तन्न शक्यं निगदितुमपि वर्षशतैरपि
दीक्षितोथ पुरा भूत्वा पद्मं वै शृणुयाद्यदि ॥२९४॥
तेन वेदाः पुराणानि सर्वमंत्रास्ससंग्रहाः
जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिंधुसागरे ॥२९५॥
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत् ॥२९६
फलं शतगुणं तच्च पुष्करस्थं पितामहम्
दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि ॥२९७॥
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च
देवा अपि तपः कृत्वा ध्यायंति च वदन्ति च ॥२९८॥
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव
दीक्षिताश्च भविष्यामः पद्मं श्रोष्यामहे कदा ॥२९९॥
पद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्
यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34. ॥३००॥
एवं जल्पंति विबुधा मनसा चिंतयंति च
ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप ॥३०१
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम
देवगंधर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ ॥३०२॥
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मंडलम्
यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः ॥३०३॥
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्
येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम् ॥३०४॥
सर्वे ग्रहास्सदा सौम्या जायंते येन पार्थिव
आदित्यवारं हस्तेन पूर्वमादाय भक्तितः ॥३०५॥
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च संख्यया
ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम् ॥३०६॥
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः
रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा ॥३०७॥
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने
घृतेन स्नपनं कृत्वा संपूर्णांग द्विजातये ॥३०८॥
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः
एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम् ॥३०९॥
द्रव्यसंपत्समग्राप्तिरिति पौराणिकी क्रिया
अविसंवादिनी चेयं शांति पुष्टिप्रदा नृणाम् ॥३१०॥
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः
रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः ॥३११॥
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः
नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम् ॥३१२॥
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्
कांस्यभाजनसंस्थं तु क्षीरसंपूरितं ततः ॥३१३॥
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्
संपूर्णांगाय दातव्यं ब्राह्मणाय विशेषतः ॥३१४॥
स्वात्यामंगारकं पूज्य क्षपयेन्नक्तभोजनैः
अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम् ॥३१५॥
अंगारकं च सौवर्णं स्थापितं ताम्रभाजने
दापयेद्ब्राह्मणायाथ संपूर्णांगाय चैव हि ॥३१६॥
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै
अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः ॥३१७॥
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः
एवं कृते भवेद्यद्वै तन्निबोध नराधिप ॥३१८॥
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवंति च
सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः ॥३१९॥
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा
दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा ॥३२०॥
यदि भौमो रविसुतो भास्करो राहुणा सह
केतुश्च मूर्ध्नि तिष्ठंति रौद्राः पीडाकरा ग्रहाः ॥३२१॥
अनेन कृतमात्रेण ससौभाग्या भवंति हि
य एवं कुरुते राजन्सदाभक्तिसमन्वितः ॥३२२॥
तस्य सानुग्रहाः सर्वे शांतिं यच्छंति नान्यथा
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत् ॥३२३॥
लोहेन कारयेच्चैनान्ब्राह्मणेभ्यश्च दापयेत्
कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै ॥३२४॥
सौवर्णां गाश्च दातव्याः शांतिश्रीविजयेप्सुभिः
व्रतांते सर्व एते हि ग्रहास्सौवर्णका नृप ॥३२५॥
दातव्याः शांतिमिच्छद्भिर्व्रतांते द्विजभोजनम्
यथाशक्ति दक्षिणा च ग्रहाणां प्रीतये तथा ॥३२६॥
अल्पायासेन राजेंद्र सर्वान्कामानवाप्नुयात्
शंकराज्ज्ञानमन्विच्छेदारोग्यं भास्करात्तथा ॥३२७॥ (ज्ञान)
हुताशनाद्धनमिच्छेद्गतिमिच्छेज्जनार्दनात् (गति)
ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशांतिदम् ॥३२८॥
भीष्म उवाच
यस्त्वया कथितो यज्ञो यज्वनां तु फलं महत्
तथायुषस्स्वल्पतया अन्यैः प्राप्तुं न शक्यते ॥३२९॥
स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजम्
भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाफलम् ॥३३०॥
पुलस्त्य उवाच
इदमर्थं महाराज श्वेतो राजा महायशाः
वसिष्ठं पृष्टवान्प्रश्नं क्षुधया पीडितो भृशम् ॥३३१॥
आसीदिलावृते वर्षे श्वेतो राजा महाबलः
स महीं सकलां जिग्ये सप्तद्वीपां सपत्तनाम् ॥३३२॥
ब्रह्मपुत्रो वसिष्ठश्च आसीत्तस्य पुरोहितः
स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः ॥३३३॥
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्
श्वेत उवाच
भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे ॥३३४॥
सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु
पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो ॥३३५॥
नान्नेन किंचिद्दत्तेन दत्ते होम्नि द्विजे प्रभो
न किंचिद्वस्त्विति ज्ञात्वा न दत्तं तत्कदाचन ॥३३६॥
रक्तवस्त्रमलंकारं ग्रामांश्च नगराणि च
अददाद्ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशाः ॥३३७॥
नान्नं जलं तेन राज्ञा दत्तमासीत्कदाचन
ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तम ॥३३८॥
स्वर्गं गतः पुण्यजितं तपस्तप्त्वार्बुदत्रयम्
ब्राह्मीं सलोकतां प्राप्तः सर्वालंकारभूषितः ॥३३९॥
नृत्यंत्यप्सरसस्तत्र गायंते सिद्धयोषितः
तुंबुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा ॥३४०॥
अगायेतां महाप्राज्ञौ मुनयश्च तपोन्विताः
वेदोक्तमंत्रैः स्तुवन्ति अनेकक्रतुयाजिनम् ॥३४१॥
एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः
क्षुधाया पीड्यते देहं तृष्णया च विशेषतः ॥३४२॥
स तया पीड्यमानस्तु क्षुधया राजसत्तमः
विमानेनाप्यसौ स्वर्गं त्यक्त्वागादृक्षपर्वतम् ॥३४३॥
यत्रात्ममूर्तिस्तत्रागात्पुरा दग्धा महावने
तत्रास्थीनि स्वयं गृह्य लिहन्नास्ते स पार्थिवः ॥३४४॥
पुनर्विमानमारुह्य ययौ नाकं नराधिपः
अथ कालेन महता स राजा संशितव्रतः ॥३४५॥
स्वान्यस्थीनि लिहन्दृष्टो वसिष्ठेन पुरोधसा
उक्तश्च किन्नु राजेन्द्र स्वास्थिभक्षो नराधिप ॥३४६॥
एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा
उवाच वचनं चेदं श्वेतो राजाथ तं मुनिम् ॥३४७॥
भगवंस्तृट्क्षुधार्तोहमन्नदानं पुरा मया
न दत्तं मुनिशार्दूल तेन मां क्षुत्प्रबाधते ॥३४८॥
एवमुक्तस्तदा राजा वसिष्ठो मुनिपुंगवः
उवाच तं नृपं भूयो वाक्यमेतन्महामुनिः ॥३४९॥
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः
वस्तु कस्यापि किंचिद्धि नाऽदत्तमुपतिष्ठति1.34. ॥३५०॥
रत्नहेमप्रदानेन भोगवान्जायते नरः
अन्नदानप्रदानेन सर्वकामैः प्रदीपितः ॥३५१॥
तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः
श्वेत उवाच
अदत्तस्य च संभूतिर्यथा भवति मे गुरो ॥३५२॥
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः
वसिष्ठ उवाच
अस्त्येकं कारणं येन जायते नात्र संशयः ॥३५३॥
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव
आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः ॥३५४॥
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः
यजनांते द्विजेंद्रेभ्यो दत्तं गोऽश्वादि याचितम् ॥३५५॥
नान्नं दत्तं तेन किंचित्स्वल्पं मत्वा यथा त्वया
ततः कालेन महता मृतोऽसौ जाह्नवी तटे ॥३५६॥
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः
स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो ॥३५७॥
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्
मर्त्यलोके नदीतीरे गंगायां नीलपर्वते ॥३५८॥
विमानेनार्कवर्णेन भास्वता देववन्नृप
ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम् ॥३५९॥
होतारं ब्राह्मणं नाम यजंतं जाह्नवी तटे
तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम् ॥३६०॥
क्षुधायाः कारणं राजन्स होता तमुवाच ह
तिलधेनुं च वै राजन्घृतधेनुं च सत्तम ॥३६१॥
जलधेनुं च धेनुं च रसधेनुं च पार्थिव
देहि शीघ्रं येन भवांस्तृट्क्षुधावर्जितो दिवि ॥३६२॥
रमे तयावदादित्यस्तपते दिवि चंद्रमाः
एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम् ॥३६३॥
तिलधेनुस्थितिं ब्रूहि तथा कृत्वा ददाम्यहम्
पुरोहित उवाच
विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप ॥३६४॥
धेनुस्स्यात्षोडशाढक्य चतुर्भिर्वत्सको भवेत्
इक्षुदंडमयाः पादा दन्ताः पुष्पमयाः शुभाः ॥३६५॥
नासा गंधमयी तस्या जिह्वा गुडमयी तथा
पुच्छे स्रक्कल्पनीयास्याद्घंटाभरणभूषिता ॥३६६॥
ईदृशीं कल्पयित्वा तु स्वर्णशृंगीं तु कल्पयेत्
रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः ॥३६७॥
कृत्वा तां ब्राह्मणायाशु दापयेन्मंत्रतो नृप
स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभाम् ॥३६८॥
सूत्रेणासूत्रितां कृत्वा पंचरत्नसमन्विताम्
सर्वौषधिसमायुक्तां मंत्रपूतां तु दापयेत् ॥३६९॥
अन्नम्मे जायतां सद्यः पानं सर्वरसास्तथा
कामान्संपादयास्माकं तिलधेनो द्विजेर्पिता ॥३७०॥
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः
देहि कामान्वितान्सर्वांस्तिलधेनो नमोस्तु ते ॥३७१॥
एवं विधानतो दत्ता तिलधेनुर्नृपोत्तम
सर्वकामसमावाप्तिं कुरुते नात्र संशयः ॥३७२॥
जलधेनुस्तथैवेह कुंभैरेव प्रकल्पिता
दत्ता तु विधिना कामान्सद्यः सर्वान्प्रयच्छति ॥३७३॥
धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि
सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेत् ॥३७४॥
घृतधेनुस्तथा दत्ता विधानेन विचक्षणैः
सर्वकामसमावाप्तिं कुरुते कांतिदा भवेत् ॥३७५॥
रसधेनुस्तथा दत्ता कार्तिके मासि पार्थिव
सर्वान्कामान्प्रयच्छेत्तु नित्यं सा गतिदा भवेत् ॥३७६॥
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम्
अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा ॥३७७॥
तृष्णया क्षुधया यद्वा पीडितो राजसत्तम
तद्दानं कार्तिके देयं पूर्वं देहि नराधिप ॥३७८॥
ब्रह्मांडं सर्वसंपन्नं भूतरत्नौषधीयुतम्
देवदानवयक्षैश्च युक्तमेतत्सदा विभो ॥३७९॥
एतत्तु सकलं कृत्वा सर्वतो रजतान्वितम्
सुरत्नसूर्यचंद्राढ्यं कार्तिके द्वादशी दिने ॥३८०॥
अथवा पंचदश्यां तु कार्तिकस्यैव नान्यतः
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः ॥३८१॥
ब्रह्मांडोदरवर्तीनि यानि भूतानि पार्थिव
तानि दत्तानि वै तेन समासात्कथितं तव ॥३८२॥
यद्यज्ञैर्यजतो राजन्समाप्तवरदक्षिणैः
सर्वं फलं तत्खंडस्य ब्रह्मांडस्य विशेषतः ॥३८३॥
यः पुनः सकलं चेदं ब्रह्मांडं प्रदिशेन्नरः
तेन जप्तं हुतं दत्तं पठितं कीर्तितं भवेत् ॥३८४॥
राजोवाच
विधिं ब्रह्मांडदानस्य कृत्वा तत्मोक्षभाग्भवेत्
कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनघ ॥३८५॥
कृतेन येन सर्वस्य फलभागी भवाम्यहम्
कुत्सितस्यास्य भावस्य मोक्षस्स्यादचिराच्च मे ॥३८६॥
वसिष्ठ उवाच
एवं श्रुत्वा ततो राजन्पुरोधास्तस्य स द्विजः
ब्रह्मांडं कारयामास सौवर्णं सर्वधातुभिः ॥३८७॥
युतं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयत्
तत्र ब्रह्मा तस्य मध्येपद्मरागैरलंकृतः ॥३८८॥
सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह
नारदाद्याः सुताः सर्व इन्द्राद्याश्च दिवौकसः ॥३८९॥
सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः
वराहरूपी भगवान्लक्ष्म्या सह सनातनः ॥३९०॥
नीलं मरकतं चैव भूषायां तस्य कारयेत्
गोमेदैस्तस्य वै शोभां कारयेत च बुद्धिमान् ॥३९१॥
मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे
ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत् ॥३९२॥
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्
ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा ॥३९३॥
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप
त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत् ॥३९४॥
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः
अनया संख्यया कृत्वा निपुणैः शिल्पिभिस्ततः ॥३९५॥
पादपादीनि भूतानि राजतान्येव कारयेत्
आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत् ॥३९६॥
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः
सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः ॥३९७॥
कुरुक्षेत्रे गयायां च प्रयागेऽमरकंटके
द्वारवत्यां प्रभासे च गंगाद्वारे च पुष्करे ॥३९८॥
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः
दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे ॥३९९॥
व्यतीपाते बहुगुणं विषुवे च विशेषतः
दातव्यमेतद्राजेंद्र विचारं नैव कारयेत्1.34. ॥४००
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्
सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः ॥४०१॥
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः
चतुर्विंशद्गुणोपेताः सपत्नीका निमंत्रिताः ॥४०२॥
अंगुलीयानि च तथा कर्णवेष्टं च दापयेत्
एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः ॥४०३॥
अष्टांगप्रणिपातेन प्रणम्य च पुनःपुनः
पुरोहिताय पुरतः कृत्वा वै करसंपुटम् ॥४०४॥
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत
सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः ॥४०५॥
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः
ब्रह्मांडेन तु दत्तेन तोषं यातु जनार्दनः ॥४०६॥
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः
एते तोषं समायांतु अनुध्यानाद्द्विजोत्तमाः ॥४०७॥
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्
ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात् ॥४०८॥
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः
तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह ॥४०९॥
दत्तं तेनापि चान्येभ्यो ब्रह्मांडं च नराधिप
ब्रह्मांडे भूमिदाने च ग्राही चैको न वै भवेत् ॥४१०॥
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः
सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै ॥४११॥
दीयमानं च पश्यंति तेपि पूता भवंति हि
दर्शनादेव ते मुक्ता भवंन्त्येव न संशयः ॥४१२॥
या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनं
एतानि कृत्वा पश्यन्तु दृष्टैरेतैः क्रियाफलं ॥४१३॥
अयत्नादेव लभ्येत कर्तुश्चैव सलोकता
सदा गावः प्रणम्याश्च मंत्रेणानेन पार्थिव ॥४१४॥
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥४१५॥
मंत्रस्य चास्य स्मरणाद्गोदानफलमाप्नुयात्
तस्मात्त्वमपि राजेंद्र पुष्करे तीर्थ उत्तमे ॥४१६॥
कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि
यत्किंचिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा ॥४१७॥
पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति
पृथिव्यां यानि तीर्थानि आसमुद्रात्तु भारत ॥४१८॥
पुष्करे तान्युपायांति कार्तिक्यां तु विशेषतः ॥४१९॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे ब्रह्मांडदानं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP